((तत्र प्रथमोऽनुनाकः)
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।
अहीनाः पञ्चरात्रान्ताः प्रथमे समुदीरिताः।
षड्रात्राद्या द्वितीयेऽय वक्ष्यन्तेऽस्मिन्प्रपाठके ।।
[[2546]]
श्रीमत्सायणार्यविरचितभाष्यसमेता- 7षष्ठकाणडे
( षड्रात्रकथनम् )
तत्र प्रथमेऽनुवाके षड्रात्रं विधत्ते-
साधया वा इति । साध्यशब्दो देवगणविशेषवाची। अत्र सर्वत्र दर्शनं शास्त्रीयनिश्वयः। आहरणं सामग्रीसंपादनम्। यजनमनुष्ठान। यद्यप्ययं षड्रात्रोऽहनित्वाद्यजतिजोदनाविधेयस्तथाऽप्यत्र केषांचित्सारस्वचसत्रधर्माणां सद्भावमभिप्रेत्य विद्वांस आसत इत्यासिचोदनया विहितः । ते च धर्मा आश्वत्थी हविर्धनं चेत्यादिना वक्ष्यन्ते ।।
एतमेवसत्रत्वोपचारमभिप्रेत्य प्रशंसति-
देवसत्रं वा इति। देवाना सत्रवत्प्रियत्वादिदं देवसत्रम्। तदेव सत्रवत्प्रियत्वं स्पष्टी क्रियते-सत्ररूपे द्वादशाहे यः पृष्ठयः षडहस्तस्मिन्षटसु दिनेषुयानि पृष्ठस्तोत्राणि रथंतरबृहद्वैरूपवैताख्यैः सामभिर्निष्पाद्यानि एतान्यत्रापि षटसु दिनेषु क्रमेणं प्रत्यक्षमुपलभ्यन्तो यस्मादेवं तस्माद्देवाना सत्रवत्प्रयत्वमुचितम्। एवं देवप्रियत्वं विदित्वाऽनुष्ठानेन बहुकालव्यवधानमन्तरेणैव देवताः प्रपोति ।।
अत्राहर्गतां षट्संख्या प्रशंसति –
षड्रात्रो भवतीति। ऋतवो यथा षटसंख्याका एव पृष्ठान्यपि षट्संख्याकानि। अतः षृष्ठैऋतद्वारा संवत्सरं प्राप्त तत्र प्रतितिष्ठन्ति।।
एतेषु षट्सु पृष्ठस्तोत्रषु प्रथमद्वितीययोरहोरनुष्ठेये रथंतरबृहत्पृष्ठे ये स्तोत्रे ते विशेषेण प्रशंसति –
बृहद्रथंतराभ्यामिती । शब्दशास्त्रप्रोक्त एवात्र बृहच्छब्दस्य पूर्वनियपातः। अनुष्ठानं त रथंतरस्यैव प्रथमम्। यन्ति स्तोत्रमनुतिष्ठेयुरित्यर्थः। अनयोः साम्नोर्लोकद्वयरूपत्वाल्लोकाभ्यामेव तदनुष्ठितं भवति। अपि चानुष्ठातारो लोकयोर्द्वयोः प्रतितिष्ठन्त्येव। किंचैते सामनी यज्ञस्याऽऽर्जनने समाप्तिप्रापकौ मार्गावतस्ताभ्यमेव स्वर्ग प्राप्नुवन्ति।।
अथषट्संख्याकान्यहानि चोदकप्राप्ता निविस्पष्टं दर्शयति-
त्रिवृदग्निष्टोम इति । त्रिवृदादयःशब्दाः पूर्वोक्तपञ्चरात्रानुवाकइवात्रापि व्याख्येयाः। तत्र सत्रधर्मातिदेशाभावेन बहुयजमानकत्वनियमाभावादेकवचनेन निर्देशः । इह तु तन्नियमसद्भावाद्वहवचनेन निर्देशः। प्रकृतिरूपे पृष्ठयषडहे त्रिवृदाग्निष्टोमो रथंतरसामा प्रथममहः। पञ्चदश उक्थयो बृहत्सामा द्वितीयः।
[[2547]]
प्रपा02अनु01 )कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
( षड्रात्रकथनम् )
सप्तदश उक्थयो वैरूपासामा तृतीयः । एकविंशः षोडशी वैराजसामा चतुर्थः। त्रिणव उक्थयः शाक्वरसामा पञ्चमः। त्रयसिंग उक्थयो रैवतसामा षष्ठः।तदिदं द्वादशाहानतर्गस्य पृष्ठयषडहस्य स्वरूपम्। तद्विकृतित्वादत्रापि तथाविधान्येवाहानि द्रष्टव्यानि।।
अथ सारस्वतसत्रधर्माननुवाकसमाप्तियर्यन्तमतिदिदिक्षुस्तावदेकं धर्मा विधत्ते –
सदोहविरिति । ये यजमानाः सदोविर्धानाभ्या मण्डपाभ्या युक्ताः षड्रात्रे प्रवर्तन्ते तेषां हविर्धानमाग्नीधं चेति मण्डपाद्वयमाश्वत्थी भवतोऽश्वत्थकाषष्ठनिर्मते उभे कार्ये । तत्राश्वत्थकाष्ठं स्वर्गसाधनम् ।। धर्मान्तरं विधत्ते-
चक्रीवती इति । यथा रथस्य शकटस्य वा चक्रं तथा चक्रं ययोराग्नीध्रहविर्धानमण्डपयोस्ते चक्रीवती। अयमर्थः- चक्रयोरक्षं प्रक्षिप्य शकटाकारंकृत्या तस्योपरि फलकान्यास्तीर्य तेषामुपरि ङूमाविव मण्डपं निर्मातव्यमिति। इदृशं च स्वर्गप्रप्तयै भवति। रथेनेव चक्रयुक्तेन मणडपेन गन्तु शक्यत्वात्।।
धर्मान्तरं विधत्ते-
उलूखलेति । यथा काष्ठमयस्योलूखलस्य मूलमतिस्थूल समतलं भवति तथा यूपमूलं कर्तव्यम् । एतच्च यत्र यत्र यूपो नीय॑ते तत्र तत्र भूमौ खननमन्तरेणैव प्रतिष्ठापनार्थम्।। धर्मान्तरं विधत्ते-
प्राञ्चो यान्तीति । चक्रयुक्ताग्नीघ्यसदिभिः सह प्राङ्मुखा गच्छेयुः। स्वर्गलोकस्य प्राग्वर्तित्वेन प्रतिभानात्। एतच्चोक्तं सूत्रकारेण- तस्मिन्संस्थितेऽध्वर्युः शम्यां प्राचः प्रास्यति स यत्र निपतति तद्वर्हप्तयं तस्मिन्षटाविंशतं प्राचः प्रक्रमान्प्रक्रामति तदाहवनीय, चक्रीवन्ति सदोहविर्धानान्याग्नीधं चाऽऽश्वत्थी हविर्धानमग्नीघ्रं चोलूखलबुधनो यूपः प्रकृष्येदुपोप्त एव नोपरवानेखनन्ति इति। एकस्मिन्नहनि समाप्ते ततः परेद्युरपि तथेत्यर्थः।।
धर्मान्तरं विधत्ते-
सरस्वत्येति । या सरस्वत्याख्या नदी तया सह त्तीरे प्रतिदिनं गच्छेयुः। एष सरस्वतीतीरगतो मार्गो देवयानो देवान्प पयितुं क्षमोऽतस्तमेव प्राप्नुवन्ति।। धर्मान्तरं विधत्ते-
आक्रोशन्त इति । उत्साहातिशयेन क्रियमाण उच्चतमो ध्वनिराक्रो
[[2548]]
श्रीमत्सायणार्यविरचितभाष्यसमेता- 7षष्ठकाणडे
( सप्तरात्रकथनम् )
शस्तं कुर्वन्तो गच्छेयः । धनसंकोचमन्तरेण जीवनं वर्तिः। तद्वैपरीत्येन दारिद्यमवर्तिः। अवृत्तिरेवावार्तिः। ता चावर्तिमन्यस्मिन्वैरिणि प्रतिषज्जय प्रतिष्ठितत्वेन संयुक्तां कृत्वा स्वयं धनसंपन्ना प्रतिष्ठां गच्छन्तिः।।
एवमनुतिष्ठतः कालावधिरूपं धर्मान्तर विधत्ते-
यदा दश शतमिति । एकेन वृषभेन सहिता दश गावो यावति कालेऽपत्यप्रसेवन गवा शतं संपादयन्ति तावन्तं कालं पौनःपुन्येनाष्ठाय तदनुष्ठानादुत्थानं कर्तव्यमनुष्ठानं समापयेदित्यर्थः। सोऽयमेकः समाप्तिकालः। गोशते सति पुरूषस्य शतसंवत्सरायुष्ट्वान्नडिशतकसंचरिण शतेन्द्रियत्वादा(च्चऽऽ) युषीन्द्रिये च प्रतितिष्ठन्ति ।।
कालावधौ पक्षन्तरं विधत्ते -
यदाशतमिति।शतं गावो यदा पूर्ववत्सहस्त्रं संपादयन्ति सोऽयमेक उत्थानकालः। न चातीतपक्षेण सांकर्य शङ्कनीयम्। प्रसववैचित्र्येण न्यूनाधिकालसंभवात्। गवां सहस्त्रसंपत्तौ संत्या सहस्त्रसंख्याकैर्भोग्यजातैः समृद्धः स्वर्गः प्राप्तो भवति।।
कालावधावेवापर पक्षद्वयं विधत्ते –
यदैषामिति। एषां यजमानानां मध्ये कश्विद्यदा प्रमीयेत,
सोऽयमेक उत्थनकालः यदा वा राष्ट्रक्षोभादिना शत्रुभिरते यजमाना जिता अपहत सर्वस्या भदन्ति, सोऽयमेक उत्थनकालः। उक्तविधं यदुत्यानं तत्तीर्थे पापेभ्यस्तारकम्। तस्मात्तत्पर्यन्तं षड्रात्र आवर्तनीयः।।
इति श्रीमत्सायणाचार्यविरचयते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायांभाष्ये सप्तमकाण्डे
प्रथमप्रपाठके
प्रथमोऽनुवाकः ।। 1 ।।