(( अथ सप्तमाष्टक प्रथमप्रपाठके विंशोऽनुवाकः) ।
अ॒ग्नये॒ स्वाहा॑ वा॒यवे॒ स्वाहा॒ सूर्या॑य॒ स्वाह॒र्त-
म॑स्यृ॒तस्य॒र्तम॑सि सत्यम॑सि सत्यस्य॑ सत्यम॑स्यृत-
स्य॒ पन्था॑ असि दे॒वानां छा॒याऽमृत॑स्य॒ नाम॒ त-
त्स॒त्यं यत्तवं प्र॒जाप॑ति॒रस्यधि॒ यद॑स्मिन्वा॒जि॑नीव॒
शुभः स्पर्ध॑न्ते॒ दिवः॒ सूर्य॑ण॒ विशो॒ऽपो वृ॑णा॒नः
प॑वते क॒व्यन्प॒शुं न गो॒पा इर्यः॒ परि॑ज्मा ( 1 ) ।।
(अ॒ग्नेय॑ वा॒यवे॒ऽष्टाच॑त्वारिँशत् ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमकाण्डे
प्रथमप्रपाठकेविंशो ऽनुवाकः ।। 20 ।।
प्र॒जन॑नं प्रातःसव॒ने वै ब्र॑ह्नवा॒दिनः॒ स त्वाङ्गिरस॒ आपो॒ वै सोमो॒ वै
स॑हस्त्रत॒म्याऽत्रिर्ज॒मद॑ग्निः संवत्स॒रो दे॒वस्य॑ वि॒भूराय॑नायाग्न॒ये॑
पृथि॒व्या अ॒ग्नये॑ पृथि॒व्यै भुव॑ ईका॒राया॒ग्नये॑ वा॒यवे॑
विँशा॒तिः ।। 20 ।।
[[2542]]
श्रीमत्सायणार्यविरचितभाष्यसमेता- 7षष्ठकाणडे
(अश्वमेघमन्त्रकथनम् )
प्रजन॑नमङ्गिर॒सः सोमो॒ वै प्र॑तिगृह्नति॑ वि॒भूर्वीक्ष॑-
माणाय॒ द्विप॑ञ्चा॒शत् ।। 52 ।।
हरिः॑ ॐ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाष्टके
प्रथमप्रपाठक ।। 1 ।।
( अथ सप्तमाष्टक प्रथमप्रपाठके विशोऽनुवाकः) ।
कल्पः- ‘ अग्नये स्वाहा वायवे स्वाहेत्येतं हुत्वा ’ इति।।
एतस्मिन्ननुवाके त्रीन्मन्त्रानाह –
अग्नये स्वाहेति । अथ चतुर्थपञ्चममन्त्रावाह –
ऋतुमसिति । हेऽश्व त्वमृतं यन्मासं सत्यं तदसि । यागरहितानां पुरूषाणां चदृतं तस्याप्युत्तमं त्वमृतं सत्यमसि।
तस्याप्युत्तमं त्वमृतं सत्यमासि। तव यागसाधनत्वात् । एवं सत्यवाक्यमपि वाच (चि) कविषयत्वेन व्याख्येयम् ।।
अथ षष्ठमन्त्रमाह-
ऋतुस्य पन्था इति । ऋतुस्य यज्ञस्य पन्था मार्गोऽसि । त्वद्द्वारेण हि यागो निर्वर्त्यते । तथा देवानां छायाऽसि । यथा
घर्मकाले वृक्षस्य च्छाया सुखप्रदा तथा त्वं सुखप्रदोऽसि । अत एव त्वममृतस्य नामासि । देवा हि त्वदीयं हविः पीयूषमित्येव स्वी कुर्वन्ति। त्वं प्रजापतिरूपोऽसीती यत्तत्सत्यं
नात्र कश्विदुपचारोऽस्ति । प्रजापतेरक्ष्येव हि त्वदाकारेण निष्पन्नम् ।।
अथ सप्तममन्त्रमाह-
अधि यदस्मिन्निति। यद्यस्मात्कारणाद्वाजिन्यस्मिन्नश्वे शुभः
शोभनो गुणसंघोऽधीव देवेभ्योऽप्यधिक इव दृश्यते तस्मात्कारणाद्दिवः संबन्धिनो विशो मरूद्गणाः सूर्येण सूर्यसमानेनाश्वेन सार्ध स्पर्धन्ते वयं गुणाधिका अश्वो न गुणाधिक इत्येवं स्पर्धा कुर्वन्ति । तादृशोऽयमश्वः- किंचायमपो वृणान इवं कर्म प्रवर्तयितुमिच्छन्पवते विश्वं पुनाति। तत्र दृष्टान्तः – कव्यन्पशुं न । यथा योगेषु स्तुतिमिच्छन्देवः पशु वृणीते तथाऽयमश्वः कर्मेदं वृणीते।
देवो हि नानाविधाभिः स्तुतिभिः स्तूयमानः पशुरूपं हविरतिप्रीतिपूर्वकमिच्छति। एवमश्वोऽप्यनेकर्होमैः
स्तावकैर्मन्त्रैश्व परितुष्टः कर्मेदं सप्रापयितुमिच्छतीत्यर्थः।
कीदृशोऽश्वः, गोपा ऋत्विग्यजमानानां रक्षकः । इर्यः
कर्मद्वाराऽन्नहेतुः।
[[2543]]
प्रपा01अनु20 )कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
(अश्वमेघमन्त्रकथनम् )
परिज्या परितः स्वर्गलोकादौ गन्तुं समर्थः। एतैः सप्तभिर्मन्त्रैर्होमो बौधायनेनापि दर्शितः ‘ सावित्राणि जुहोत्यगेनये स्वाहा वायवे स्वाहेति सप्त ’ इति ।।
अत्र विनियोगसंग्रहः-
उच्यते ह्यनुवाकार्थः सप्तमाद्यप्रपाठके।
आग्नष्टोमविधिस्तवाद्ये द्वितीये स्तोमसंस्तवः।।
सर्वस्तोमस्तृतीये त्याच्चतुर्थ तु द्विरात्रकः ।
त्रिरात्रः पञवमे षष्ठे त्युः सहस्त्रतमीगताः ।।
होमाद्याः सप्तमे दानं चतूरात्रोऽग्रिमोऽष्टमे ।
द्वितीयो नवमे पञ्चरात्रो दशम ईरितः ।।
अत ऊर्ध्व त्वश्वमेधमन्त्राणां विनियोजनम् ।
उच्यते रशनां देव गृहीत्वा मन्वयेदिमाम् ।।
अभिघेत्यश्वमाबध्य (श्वं भध्यीयात्) त्रयो मन्त्रा इहोरिताः।
विभूः कर्णे वाचयीत अग्नये पूर्वहोमकान् ।।
पञ्चेह पत्सु जुहुयाच्चतुर्भिर्भूरसीत्यतः।
अश्वमुत्सृजते देवा रत्निभ्योऽश्वं प्रयच्छति।।
अनुवाके द्वादशेऽस्मिन्मन्त्रा द्वादश वर्णिताः।
आयनोद्द्रावहोमस्तु तत्र मन्त्रास्त्रयोदश ।।
अग्नये पूर्वहोमाः स्थुर्मन्त्रा एकादश स्मृता ।
पृथिव्या इति ते होमा मन्त्रा अन्नैकविंशतिः।।
अग्नये पूर्वदीक्षार्था होमा एकादश स्मृता ।
पृथ्वी(थी) त्यापि तथा होमा द्वाविंशतिरूदीरिताः।।
भुव इत्युतुदीक्षाख्यमन्त्रैश्वर्माधिरोहणे।
मन्वयेदष्टमिः पत्सु जुहुयादिह पूर्ववत् ।।
अष्टादशानुवाकेऽस्मिन्मन्त्रा द्वादश वर्णिताः ।
ईमश्वचरितैर्होमाश्वतुरशीतिरीरिताः।।
अग्नये सप्तभिर्मन्त्रैर्होमः सावित्र ईरितः ।
इति श्रीमत्सायणाचार्यविरचयते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायांभाष्ये सप्तमकाण्डे
प्रथमप्रपाठके
विशोऽनुवाकः ।। 20 ।।
[[2544]]
श्रीमत्सायणार्यविरचितभाष्यसमेता- 7षष्ठकाणडे
( षड्रात्रकथनम् )
वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् ।
पुमर्थश्वतुरो देयाद्विद्यातीर्थमहेश्वरः ।।
इति श्रीमद्विद्यातीर्थमहेशरापरावतारस्य
श्रीमद्राजाधिराजपरमेश्वरस्य
श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन
माधवाचार्येण विरचित्ते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायांभाष्ये सप्तमकाण्डे
प्रथमः प्रपाठके ।। 1 ।।
—————————————————————( अथ सप्तमाष्टके द्वितीयः प्रपाठकः )
तत्र प्रथमोऽनुनाकः।
हरि ॐ ।
सा॒ध्या वै दे॒वाः सु॑व॒र्गका॑मा ए॒तँ ष॑ड्रात्रम॑पश्य॒-
न्तमाऽह॑रन्तेनायजन्त॒ ततो॒ वै सु॑व॒र्ग लो॒कामा॑
यन्य ए॒वं वि॒द्वाँसः॑ ष॑ड्रात्रमास॑ते सु॑व॒र्गमे॒व लो॒कं
य॑न्ति देवस॒त्रं वै ष॑ड्रात्रः प्र॒त्यक्षँ ह्यो॑तानि॑ पृष्ठानि॒
य ए॒वं वि॒द्वाँसः॑ ष॑ड्रात्रमास॑ते सा॒क्षादे॒व दे॒वता॑
अ॒भ्यारो॑हन्ति ष॑ड्रात्रो भ॑वति॒ षडवा ऋ॒तवः॒
षट॒पृष्ठानि ( 1 ) पृष्ठैरेवर्तूनन्वारो॑हन्त्यृ॒तुभिः संवत्स॒रं
ते संवत्स॒रं ए॒व प्रति॑ तिष्ठन्ति बृहद्रथंत॒राभ्यां॑
यन्ती॒यं वाव र॑थंत॒रम॒सौ बृहदा॒भ्यामे॒व य॒न्त्यथो॑
अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्येते वै य॒ज्ञस्यञ्जसाय॑नी
स्त्र॒ती ताभ्या॑मे॒व सु॑व॒र्ग लो॒कं य॑न्ति त्रि॒वृद॑ग्निष्टो॒मो
भ॑वति॒ तेज॑ ए॒वाव॑रून्धते पञ्च॒दशो भ॑वतीन्द्रि॒यमे॒-
वावं रून्धते सप्तद॒शः ( 2 ) भ॒व॒त्य॒न्नाद्य॒स्याव॑रू-
द्ध्या॒ अथो॒ ते॑न जायन्त एकविँ॒शो भ॑वति॒
[[2545]]
प्रपा02अनु01 )कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
( षड्रात्रकथनम् )
प्रति॑ष्ठित्या॒ अथो॒ रूच॑ने॒बाऽऽत्मन्द॑धते त्रिण॒वो
भ॑वति॒ विजि॑त्यै त्रयस्त्रिँ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒
सदोहविर्धा॒निन॑ ए॒तेन॑ षड्रात्रेण॑ यजेरन्नाश्व॑त्थी
हवि॒र्धानं॒ चाऽऽग्नी॑ध्र च भव॒तस्तद्धि सु॑वर्गेय॑
चक्रीव॑ती भवतः सुव॒र्गस्य॑ लो॒कस्य॒ सम॑षेट्या उ॒ळू-
ख॑लबुध्नो॒ यूपो॑ भवति॒ प्रति॑ष्ठतेयै॒ प्राञ्चो॑ यान्ति॒
प्राङि॑व॒ हि सु॑व॒र्गः ( 3 ) लो॒कः सर॑स्वत्या
यान्त्ये॒ वै दे॑व॒यानः॒ पन्था॒स्तमे॒वान्वारो॑हन्त्या॒-
क्रोश॑न्तो या॒न्त्यव॑र्तिमे॒वान्यास्मि॑प्रति॒ज्जय॑ प्रति॒ष्ठां
ग॑च्छन्ति यदा दश॑ श॒तं कु॒र्वन्त्यथैक॑म॒त्यानँ॑
श॒तायु॒ परू॑षः श॒तेन्द्रि॑य॒ अघ्यष्ये॒वेन्द्रि॒ये प्रति॑
ति॑ष्ठिन्ति य॒दा श॒तँ स॒हस्त्र॑ कु॒र्वन्त्यथैक॑म॒त्यानँ॑
स॒हस्त्र॑संमितो वा अ॒सौ लो॒को॑ऽमुमे॒भि लो॒कम॒भि
ज॑यन्ति यदैषा॑ प्र॒मीये॑त य॒दा वा॒ जीये॑र॒न्नथैक॑
मुत्थानं॒ तद्धि ती॒र्थम् ( 4 ) ।।
( पृष्ठानि॑ सप्तद॒शः सु॑वर्गे ज॑यन्ति यदैका॑दश च ) ।
कृष्णयजुर्वेदीयतैत्तिरीयसंहितायांभाष्ये सप्तमकाण्डे
द्वितीय प्रपाठके प्रथमोऽनुवाकः ।। 1 ।।