१९

(( अथ सप्तमाष्टक प्रथमप्रपाठके एकोनविशोऽनुवाकः) ।
ई॒का॒राय॒ स्वाहे॑कृताय॒ स्वाहा॒ क्रन्द॑ते स्वाहा॒ऽ–
व॒क्रन्दते॒ स्वाहा॒ प्रोथ॑ते॒ स्वाहा॒ प्रप्रथ॑ते स्वाहा॒
ग॒न्धाय॒ स्वाहा॒ घ्राताय॒ स्वाहा॒ प्रा॒णाय॒ स्वाहा॒

[[2539]]

प्रपा01अनु19 )कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
(अश्वमेघमन्त्रकथनम् )
व्या॒नाय॒ स्वाहा॑ऽपा॒नाय॒ स्वाहा॑ संदी॒यमा॑नाय॒ स्वाहा॒
संदी॑ताय॒ स्वाहा॑ विचृ॒त्यमा॑नाय॒ स्वाहा॒ विचृ॑त्ताय॒
स्वाहा॑ पलायि॒ष्यमा॑माय॒ स्वाहा॒ पला॑यिताय॒
स्वाहो॑परँस्य॒ते स्वाहोप॑रताय॒ स्वाहा॑ निवेक्ष्य॒ते
स्वाहा॑ निवि॒शमा॑ना॒य स्वाहा॒ निवि॑ष्ठाय॒ स्वाहा॑
निष्त्स्यते स्वाहा॑ निषीद॑ते स्वाहा॒ निष॑ण्णय॒
स्वाहा॑ ( 1 ) आ॒सि॒ष्य॒ते स्वाहाऽऽसी॑नाय॒
स्वाहा॑ऽऽसि॒ताय॒ स्वाहा॑ नि॒पत्स्यते स्वाहा॑ नि॒प-
द्य॑मानाय॒ स्वाहा॒ निप॑न्नाय॒ स्वाहा॑ शियिष्य॒ते
स्वाहा॑ शया॑ना॒य॒ स्वाहा॒ शयि॒ताय॒ स्वाहा॑ संमी-
लिष्य॒ते स्वाहा॑ सं॒मील॑ते स्वाहा॒ संमी॑लिताय॒ स्वाहा॑
स्वप्स्य॒ते स्वाहा॑ स्वप॒ते स्वाहा॑ सुप्ताय॒ स्वाहा॑ प्रभो-
त्स्य॒ते स्वाहा॑ प्र॒वुध्य॑मानाय॒ स्वाहा॒ प्रबु॑द्वाय॒ स्वाहा॑
जागरिष्य॒ते स्वाहा॒ जाग्र॑ते॒ स्वाहा॑ जागरि॒ताय॒
स्वाहा॑ शुश्रू॑षमाणाय॒ स्वाहा॑ शृण्व॒ते स्वाहा॑ श्रु॒ताय॒
स्वाहा॑ वीक्षिष्यते स्वाहा॑ ( 2 ) वीक्ष॑माणाय॒
स्वाहा॒ वीक्षि॑ताय॒ स्वाहा॑ सँहास्य॒ते स्वाहा॑ सं॒जि-
हा॑नाय॒ स्वाहो॒ज्जिहा॑नाय॒ स्वाहा॑ विवत्स्र्यते स्वाहा॑
वि॒वर्त॑मानाय॒ स्वाहा॒ विवृ॑ताय॒ स्वाहो॑त्थास्य॒ते
स्वाहो॒त्तिष्ठ॑ते॒ स्वाहोत्थि॑ताय॒ स्वाहा॑ विधविष्य॒ते
स्वाहा॑ विधून्वा॒नाय॒ स्वाहा॑ विध॑ताय॒ स्वाहो॑-
त्कँस्य॒ते स्वाहो॒त्क्रम॑ते॒ स्वाहोत्का॑न्ताय॒ स्वाहा॑
चङ्क्रभिष्यते स्वाहा॑ चङ्क्र॒म्यमा॑णा॒य स्वाहा॑
चङ्क्रमिता॒य स्वाहा॑ कण्डूयिष्य॒ते स्वाहा॑ कण्डूय-

[[2540]]

श्रीमत्सायणार्यविरचितभाष्यसमेता- 7षष्ठकाणडे
(अश्वमेघमन्त्रकथनम् )
मा॑नाय॒ स्वाहा॑ कण्डूयि॒ताय॒ स्वाहा॑ निकषिष्य॒ते
स्वाहा॑ नि॒कष॑माणा॒य॒ स्वाहा॑ निक॑षिताय॒ स्वाहा॑
यदात्ति॒ तस्मै॒ स्वाहा॑ यत्पिव॑ति॒ तस्मै स्वाहा॑ यन्मे-
हा॑ति॒ तस्॒मै स्वाहा॑ यच्छकृ॑त्क॒रोतितस्मै॒ स्वाहा॑ यन्मे-
रेत॑से॒ स्वाहा॑ प्र॒जाभ्यः॒ स्वाहा॑ प्रजन॑नाय॒ स्वाहा॑
सर्व॑स्मै॒ स्वाहा॑ (3 ) ।।
( निष॑ण्णाय॒ स्वाहा॑ वीक्षिष्य॒ते स्वाहा॑ नि॒कष॑माणाय॒
स्वाहा॑ स॒प्तविँशतिश्व )
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमकाण्डे
प्रथमप्रपाठके एकोनविशो ऽनुवाकः ।। 19।।

( अथ सप्तमाष्टक प्रथमप्रपाठके एकोनविशोऽनुवाकः) ।
कल्पः- ईकाराय स्वाहेकृताय स्वाहेत्यश्वचरितानि इति ।।
पाठवस्तु –
ईकारान्त स्वाहेति ।खाद्य दृष्टवा यातु यो (यं) मन्दशब्द करोति तदनुकारणं तदीमित्यनेनोच्यते । स च शब्दो वर्तमान ईकारः। अतीतस्वीकृतः वडवा दृष्टवोच्चैर्घोषेणोत्साहजनितं क्रन्दनम्। विरोधिनपश्व दृष्ट्वा क्रोधोनोच्चैर्षोषणमवकन्दनम्।गमनकाले नासापुटयोः श्वासशब्दः प्रप्रोथनम् । स एवानुवर्तमानः प्रप्रोथनम्।
तृणभश्रणे वा श्वासशब्दः प्रप्रोथनम्। अश्वन्तराव्राणगन्धः।
स एवातीतो घ्रातः। प्राणापानव्याना ऊर्ध्वाधोमध्यवृत्तयः । संदीयमानो बध्यमानः। संदीतो बध्दः। विचृत्यमानो मुच्यमानः। विचृत्तो मुक्तः।पलायितुमुद्यतः पलायिष्यमाणः।
निर्वर्तितपलायनः पलायितः। पलायनपरित्याग उररमः। स च भावी भूतश्व। शालाप्रवेशो निवेशनम्। तच्च भाविवर्तमानमतीतं चेति त्रिविधम्। प्रविश्य शालायां स्थितिर्नषदनम्। तदपि पूर्ववत्रिविधम् । एतच्च त्रैविघ्यं सर्वत्र द्रष्टव्यम्। क्षणमात्रं पादसंकोच आसनम्। पार्श्वस्य भूमिस्पर्शो निपतनम्। पादप्रसारणं शयनम्। चक्षुषोर्निमलिनं संनीलनम्। स्वापो निद्रा। तत्परित्यागः प्रबोधः । बाह्यावलोकनं जागरणम्।

[[2541]]

प्रपा01अनु20 )कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
(अश्वमेघमन्त्रकथनम् )
अश्वपालकानामुत्थपनशब्दानुसंधानं श्रवणम्। तृणखाद्यान्वेषणं दीक्षणम्। शालाया बहिर्निर्गमनं संहानम्। निर्गत्य भूमौ विलुण्ठनं विवर्तनम्। तदनन्तरमूर्ध्व स्थितिरूत्थानम्। उत्थतस्य धूलिमपनेतुं शरीरचालनं विधूननम्। पादस्पोन्नमनुमुत्क्रमणम्। मन्दगमनं चङ्क्रमणम्। दन्तपङ्कभ्यां पृष्ठभागे दंशनं कम्डूयनम्। कुडयस्तम्भादौ शरीरघर्षणं निकषणम्। अदनादयः प्रसिद्धाः। प्रजा अश्वस्यापत्यानि। प्रजनंन तदुत्पादनम्।
सर्वशब्देनावशिष्टान्यश्वचरितानि संगृह्यन्ते ।।

इति श्रीमत्सायणाचार्यविरचयते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमकाण्डे
प्रथमप्रपाठकेएकोनविशो ऽनुवाकः ।। 19 ।।