(( अथ सप्तमाष्टक प्रथमप्रपाठके ऽष्टादशोनुवाकः) ।
भुवो॑ दे॒वानां॒ कर्म॑णा॒ऽपस॒र्तस्य॑ प॒थ्या॑ऽसि॒ वसु॑-
भिर्देवभि॑र्देवत॑या गायत्रेण॑ त्वा॒ छन्द॑सा युनज्यि
वस॒न्तेन॑ त्व॒र्तुना॑ ह॒विषा॑ दक्षियामि रू॒द्रेभि॑र्दे॒वेभि॑र्दे॒-
वत॑या॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा युनज्मि ग्री॒ष्मेण॑ त्व॒-
र्तुना॑ ह॒विषा॑ दीक्षम्यादि॒त्येर्भ॑र्दे॒वेभि॑र्देवत॑या जा-
ग॑तेन त्वा॒ छन्द॑सा युनज्यिम व॒र्षाभि॑रस्त्व॒र्तुना॑ ह॒विषा॑
दक्षियामि॒ विश्वे॑भिर्दे॒वेभि॑र्देवत॒याऽऽनु॑ष्टेुभेन त्वा॒
दीक्षया॒म्याङ्गि॑रोभिर्दे॒वेभि॑र्देवत॑या पाङ्क्ते॑न त्वा॒
छन्द॑सा युनज्यिम हेमन्तशिशि॒राभ्या॑ त्व॒र्तना॑ ह॒विषा॑
दीक्षया॒म्याऽहं दीक्षाम॑रूहमृ॒तस्य॒ पत्नी॑ गाय॒त्रेण॒
छन्द॑सा ब्रह्म॑णा च॒र्तँस॒त्ये॑ऽधाँ स॒त्यमृ॒ते॑ऽधाम् ।
म॒हीमू॒ षु सुत्रामा॑णमि॒ह धृतिः॒ स्वाहेह विधृ॑तिः॒
स्वाहे॒ह रन्तिः स्वाहे॒ह रम॑तिः॒ स्वाहा॑ ( 2 ) ।।
( आनु॑ष्टुमेन त्वा॒ छन्द॑सा युनज्यिम्येका॒न्नप॑ञ्च॒शच्च॑ ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमकाण्डे
प्रथमप्रपाठके ऽष्टादशो ऽनुवाकः ।। 18 ।।
( अथ सप्तमाष्टक प्रथमप्रपाठके ऽष्टादशोनुवाकः) ।
कल्पः-भुवो॑ देवाना कर्म॑णात्युतुदीक्षाभिः
कृष्णाजिनपारोहन्तमभिमन्त्रयते इति ।। तत्र प्रथममन्त्रमाह-
[[2538]]
श्रीमत्सायणार्यविरचितभाष्यसमेता- 7षष्ठकाणडे
(अश्वमेघमन्त्रकथनम् )
भुवो देवानामिती । हे दीक्षे त्वं देवाना संबन्धिना कर्मणर्तस्य
यज्ञस्य संबन्धिनाऽपसा व्यापारेण भुवो युक्ता भव । त्व पथ्या ऽसिदेवाना यज्ञस्य च्चछन्दसा च त्वा युनज्यि त्वा युक्ता करोमि। तथा वसन्तेनर्तुना सहितोऽहंत्वा हविषा दीक्षयामि संस्कृतां करोमि ।।
अथोत्तरांश्वतुरो मन्त्रानाह –
रूद्रेभिर्देवेभिरिति । एतेषु चतुर्ष्वपि मन्त्रेषु भुवो देवानामित्यादिभागमनुषज्य पूर्ववद्व्याख्येयम् ।।
अथ षष्ठमन्त्रमाह-
आऽहं दीक्षामिति । अहं यजमानो गायत्रेण च्छन्दसा ब्रह्मणा
छन्दरहितेन मन्त्रेण चानुगृहीतः सन्नृतस्य पत्नी यज्ञस्य पालयत्री दीक्षा नियमं विशेषरूपामारूहमारूढोऽस्मि ।
मदीयमृतं सत्ये स्थापयामि सत्यमप्यृते स्थापयामि । चिन्यमानं वस्तुतत्वमृतम् । उच्यमानं वस्तुतत्वं सत्यम् ।
अहं सर्वदा मनसा वस्तुतत्वंविचार्य पश्वादक्ष्यामि। वाचाऽपि
वस्तुतत्वंमुच्चार्य पश्वादन्यद्वस्तुतत्वं चिन्तयामीत्यर्थः ।।
अथ सप्तमाष्टमयोर्मन्त्रयोः प्रतीके दर्शयति-
महीमू ष्विति । महीमू षु मातरभित्यको मन्वः। सूत्रमाणं पृथिवी द्यामित्यपरो मन्त्रः । तौ च मन्त्र वैश्वनरो न ऊत्येत्यनुवाके व्यख्यातौ ।।
कल्पः- सायं धृत्षु हूयमानास राजन्यो वीणागाथी गायति
इति ।। तानेतान्धृतिमन्त्रानाह—
इति श्रीमत्सायणाचार्यविरचयते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमकाण्डे
प्रथमप्रपाठके ऽष्टादशो ऽनुवाकः ।। 18 ।।