१५

(( अथ सप्तमाष्टक प्रथमप्रपाठके पञ्चदर्शो ऽनुवाकः) ।

पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒
सूर्या॑य॒ स्वाहा॑ च॒न्द्रम॑से॒ स्वाहा॒ नक्ष॑त्रेभ्यः स्वाहा॒
प्राच्यै॑ दि॒शे स्वाहा॒ दक्षि॑णायै दि॒शे स्वाहा॑ प्र॒तीच्यै॑
दि॒शे स्वाहोदी॑च्यै दि॒शे स्वाहो॒र्ध्वायै॑ दि॒शे स्वाहा॑
दि॒ग्भ्यः स्वाहा॑ऽवान्तरदि॒शाभ्यः॒ स्वाहा॒ समा॑भ्यः॒
स्वाहा॑ श॒रद्भ्यः॒ स्वाहा॑ऽहोरा॒त्रेभ्यः॒ स्वाहा॑ऽर्धमा॒-
सेभ्यः॒ स्वाहा॒ मासे॑भ्यः॒ स्वाह॒र्तुभ्यः॒ स्वाहा॑ संवत्स॒-
राय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ( 1 ) ।।
( पृ॒थि॒व्यै सूर्या॑य॒ नक्ष॑त्रेभ्यः॒ प्राच्यै॑ सप्तच॑त्वारिँशत् ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाष्टके
प्रथमप्रपाठके पञ्चदशो ऽनुवाकः ।। 15 ।।

[[2535]]

प्रपा01अनु15-17 )कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
(अश्वमेघमन्त्रकथनम् )
( अथ सप्तमाष्टक प्रथमप्रपाठके पञ्चदर्शो ऽनुवाकः) ।
कल्पः- ‘ पृथिव्यै स्वाहाऽन्तरिक्षाय स्वाहेत्येतं हुत्वा ’
इति ।।
एतमनुवाकं पूर्वनामकहोमान्तःपातित्वेनैव हुत्वेत्य्थः।।
पाठस्तु –
पृथिव्यै स्वाहेति। प्राच्यादिशब्दा विशेषवाचिनः। दिक्शब्दः
सामान्यवाची । समारशरत्संवसरशब्दाः सौरचान्द्रनाक्षत्रविषयाः। सर्वशब्दोऽनुक्तकालविषयः।।

इति श्रीमत्सायणाचार्यविरचयते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाष्टके
प्रथमप्रपाठके पञ्चदशो ऽनुवाकः ।। 15 ।।