१३

(( अथ सप्तमाष्टके प्रथमप्रपाठके त्रयोदशो ऽनुवाकः )
आय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहो॑द्द्रा॒वाय॒
स्वाहो॑द्द्रा॒ताय॒ स्वाहा॑ शूका॒राय॒ स्वाहा॑ शूकृ॑ताय
स्वाहा॑ पला॑यिताय॒ स्वाहा॑ऽऽ पला॑यिताय॒ स्वाहा॑ऽऽ-
वल्ग॑ते स्वाहा॒ सर्व॑स्मै॒ स्वाहा॒ ( 1 ) ।।

क.घ.ढ.च. शेषेण पा ।

[[2533]]

प्रपा01अनु13-14 )कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
(अश्वमेघमन्त्रकथनम् )
( आय॑ना॒योत्त॑रपा॒पला॑येताय॒ षड्विँशतिः ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाष्टके
प्रथमप्रपाठके त्रयोदशो ऽनुवाकः ।। 13 ।।
( अथ सप्तमाष्टके प्रथमप्रपाठके त्रयोदशो ऽनुवाकः
कल्पः- ‘ आयनाय स्वाहा प्रायणाम स्वाहेत्युद्रावान् ’ इति।।
पाठवस्तु-
आयनाय स्वाहेति । आभिमुख्यनायनं गमनं यस्यासावायनस्तस्मा अश्वाय, तत्प्रत्यर्थमिदं स्वाहुतम्।
आभिमुख्यगमनमेपि द्विविधं- मन्दगमनं तीव्रगमनं च ।
तत्राऽऽद्यं पूर्वमन्त्रेऽभिहितं , द्वितीयं प्रायणमन्त्रेऽभिधीयते।
केचन धूर्ता अश्वा गन्तुमानिच्छन्तस्ताडिताः सन्तः पूर्वपादावुन्नमयन्ति, अन्ये चापरौ पादावुन्नमयन्ति,
तदुभयमुद्दावोद्रुतशब्दाभ्यामभिधीयते। कशया घातितेनोद्द्रवणार्थ क्रियमाणस्य शब्दविशेषस्यानुकरणार्थे
शूकार इति प्रयुक्तम् । शूकृतमेतदेव । पूर्वापरपादविषयत्वेन
द्वेधाऽभिधानम् । पुरतो वेगेन धावनं पलायनम् आभिमुख्येन
धावनमापलायनम। चतुर्णामपि पादानां सकृदन्नमनमाभिमुख्यविषयमावल्गनम्। पराङ्मुखत्वविषयं
परावत्गनम्। पूरवमायनप्रायणशब्दाभ्यां योऽर्थोऽभिहितः
सोऽतीतविषयः इह त्वायत्प्रयच्छब्दाभ्यां वर्तमान विषयः स
एवार्थोऽभिधीयते। अतो यथोतत्तदगुणायक्तायाश्वाय
तत्प्रत्यर्थ स्वाहा हुतमिदमस्तु किं बहुना सर्वस्मै सर्वप्रकारगमनविशेषयुक्तास्वप्रीत्यर्थमिदं स्वाहा हुतमन्तु।
उत्कृष्टगमनविषयत्वादेतेषां होमानामुद्द्रावा इति नामधेयम्।।
इति श्रीमत्सायणाचार्यविरचयते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाष्टके
प्रथमप्रपाठके त्रयोदशो ऽनुवाकः ।। 13 ।।