१२

(( अथ सप्तमाष्टके प्रथमप्रपाठके द्वादशो ऽनुवाकः )
वि॒भूर्मा॒त्रा प्र॒भूः पि॒त्राऽश्वो॑ऽसि हयो॒ऽस्यत्यो॑ऽसि॒
नरो॒ऽस्यर्वाऽसि॒ सप्त॑रसि वा॒ज्य॑सि॒ वृषा॑ऽसि
नृ॒मणा॑ असि॒ यय॒र्नामा॑स्यादि॒त्यानां॒ पत्वान्व॑
ह्य॒ग्नये॒ स्वाहा॒ स्वाहे॑न्द्रा॒ग्निभ्याँ॒स्वाहा॑ प्र॒जाप॑तये॒

[[2531]]

प्रपा01अनु12 )कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
(अश्वमेघमन्त्रकथनम् )
स्वाहा॒ विश्व॑भ्यो दे॒वेभ्यः॒ स्वाहा॒ सर्वा॑भ्यो
दे॒वता॑भ्य इ॒ह वृतिः॒ स्वाहे॒ह विधृ॑ति॒ स्वाहे॒ह
रन्तिः॒ स्वाहे॒ह रम॑ति॒ स्वाहा॒ भूर॑गि भु॒वे त्वा॒
भव्या॑य त्वा भविष्या॒ते त्वा विश्व॑भ्यसित्वा भू॒तेभ्यो॒
देवा॑ आशापाला ए॒तं देवेभ्योऽश्वं मेधा॑य प्रोक्षि॑तं
गोपायत ( 1 ) ।।
(रन्तिः॒ स्वाहा॒ द्वविँ॑शतिश्व ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाष्टके
प्रथमप्रपाठके द्वादशोऽनुवाकः ।। 12 ।।
( अथ सप्तमाष्टके प्रथमप्रपाठके द्वादशो ऽनुवाकः )
कल्पः- ‘ दिभूर्मात्रा प्रभूः पित्रेत्यश्वस्य दक्षिणे कर्णे यजमानं वाचयित्वा ’
इति पाठस्तु –
विभूर्मात्रेति । हेऽश्व त्वं मात्रा त्वदीयया पृथवीरूपया विभूरसि व्याप्तिमानसि। पित्रा द्युलोकरूपेण प्रभूः प्रभूत्वशक्तिमानसि । ‘ इयं वै माता। असौ पिता ’ इति हि ब्रह्मणम्। पृथिव्या विभुत्वाद्द्युलोकस्थ भोग॑प्रभुत्वाच्च
तदुभयमस्मिन्नुर्चते। तथा त्वमश्वोऽसि मुख्याश्वजातिमानसि, न तु तव गर्दभासकर्यम्। हिधातोः क्रमणार्थकादुत्पन्नो हयशब्दः। अतो हयोऽसि समीचीनक्रमणवानसी। खुरसौकर्येण भूमावक्रमण त्वदीयं स्थिरमित्यार्थः। अत्योसि
सततगमनशीलोऽसि। नरोऽस्युपर्यारूढाणां नेताऽसि । आर्वाऽसि समीचिनगतिमानसि। साप्तरसि सर्वेष्वपि युद्धादिकार्येषु संबद्धोऽसि। वाजी वोगवानीस। वृषा
पुस्त्वसामर्थ्यवानसि । नृमणा नृभिर्मननीयोऽसि । ययुर्नामासि स्वर्गप्रपाठक इत्येदेव तव प्रियं नाम। अत एव ब्राह्मण ‘ ययुर्नामासीत्याह। एतद्व अश्वस्य प्रियं नामधेयम् ’
इति । ईदृशस्वमादित्यानां प्रतिमासवर्तिनां द्वादशसंख्यानां
पत्वं पतनं यदन्तरिक्षगमनं तदन्वतरिक्षमार्गेणेहि गच्छ।।
कल्पः-‘ अग्ने स्वाहा स्वाहेन्द्राग्निभ्यामिति पूर्वहोमान्हुत्वा ’ इति।।
पाठस्तु-
1 च. भोग्यप्र0 । ख प्रदत्तवा0।

[[2532]]

श्रीमत्सायणार्यविरचितभाष्यसमेता- 7षष्ठकाणडे
(अश्वमेघमन्त्रकथनम् )
अग्नये स्वाहेति। अत्र प्रथमन्त्र स्वाहन्त उत्तरे चत्वारो मन्त्राः
स्वाहादयः।।
कल्पः- ‘ रथकारगृहे वसतिर्भवताह धृतिरिति सायमश्वस्य चतुर्षु पत्सुचतस्त्रो धृतीर्जुहोती ’ इति ।। पाठस्तु-
इह धृतिरिति । इहास्मिन्दक्षिणपूर्वपादे धृतिर्धरणं स्यर्थै भवतु । तदार्थमिदं स्वाहुतमस्तु। इहास्मिन्दक्षिणपृष्ठपादे विधृतिर्विशेषण स्यर्यैमस्तु। इहास्मिन्नुतरपृष्ठपादे रन्तिः स्थैर्येण रमणमस्तु। इहास्मिन्नुतरपूर्वपादे रमतिरत्यन्तं स्थिरं
रमणमस्तु।।
भरसि भुवे त्वति। ‘ भरसि भुवे त्वा भव्याय त्वा भविष्यते
त्वेत्यश्वमुत्सृज्य ’ इति ।
विश्वेभ्यस्तवा भूतभ्य इति मन्त्रशेषपाठः। हेऽश्व त्वं भूरस्यतीतानामनागतानां वर्तमानानां भावयिताऽसि।
भूशब्दोऽतीतमाचष्टे , भव्यशब्दो वर्तमानं, भविष्यच्छब्द
आगामि, तस्य त्रिविधस्य श्रेयसः सिद्ध्यर्थे त्वामुत्सृजामि। तथा विश्वभ्यो भूतभ्यः सर्वप्राणिस्वाधीनत्वार्थे त्वामुत्सृजामि।।
कल्पः- ‘ देवा आशापाला इति रत्निभ्यः परिददाति ’ इति।।
पाठस्तु—
देवा आशापाला इति आशापाला दिक्षु पालकाः हे देवा देवमूर्तिधारिणो रत्नाद्याभरणभूषिताः शतसंख्याका राजपुत्रा मेधाय यज्ञाय प्रोक्षतमेतमश्वं देवेभ्यो देवार्थे गोपायत रक्षत ।।
इतिश्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाकाण्डे
प्रथमप्रपाठके द्वादशो ऽनुवाकः ।। 12 ।।