(( अथ सप्तमाष्टके प्रथमप्रपाठके एकादशो ऽनुवाकः )
देव॒स्य॑ त्वा सावि॒तः प्र॑स॒वेऽश्वनो॑र्बाहु॒भ्यो॑
पू॒ष्णो हस्ता॑भ्या॒माद॑द इ॒माम॑गृभ्णनरश॒नामृ॒तस्य॒
पूर्व आयु॑षि वि॒दथे॑ष॒ क॒व्या। तया॑ दे॒वाः सु॒तमा
ब॑भूवुऋ॒तस्य॒ साम॑न्त्स॒रमा॒रप॑न्ती। अ॒मि॒धा अ॑सि॒
भुव॑नमसि य॒न्ताऽसि ध॒र्ताऽसि॒ सो॑ऽग्निं वैश्वान॒रँ
सप्र॑थसं गच्छ॒ स्वाहा॑कृतः पृथि॒व्यां य॒न्ता राड॒य-
1क.ख.0शेषे व्य0 । 2 ख. व्यवस्थितिः।
[[2529]]
प्रपा01अनु11 )कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
(अश्वमेघमन्त्रकथनम् )
न्ताऽसि॒ यम॑नो ध॒र्ताऽसि॑ ध॒रूणः॑ कृष्यै त्वा
क्षेमा॑म तवा र॒य्यै त्वा॒ पोषा॑य त्वा पृथि॒व्यै
त्वा॒ऽन्तरि॑क्षाय त्वां दि॒वे त्वा॑ स॒ते त्वाऽ
स॑ते त्वाऽदभ्यास्तवौष॑धीभ्यास्त्वा॒ विश्से॑भ्यस्त्वा
भूतेभ्य॑ ( 1 )।।
( ध॒रूणः॒ पञ्च॑विँशतिश्व ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाष्टके
प्रथमप्रपाठके एकादशमोऽनुवाकः ।। 11 ।।
( अथ सप्तमाष्टके प्रथमप्रपाठके एकादशो ऽनुवाकः )
दशमेऽनुवाके पञ्चरात्रो वर्णितः। अथात्राहीनविशेषानवस्थाप्यैकादशमारम्य प्रपाठकसमाप्तिपर्यन्तमश्वमेधामन्त्रा उच्यते। तेषां यथासंभवं
ब्राह्मणग्रथोक्ता विनियोग उदाह्नियन्ते। तत्र ब्राह्मणवाक्यमेवं
पठयते-‘ देवस्य त्वासवितुः प्रसव इति रशमानामादत्ते
प्रसूत्ये ’ अश्विनोर्बाहुभ्यापत्याह। अश्विनौहि देवनामध्वर्य्
अस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै। व्यृद्धं वा एतद्यज्ञस्य।
यदयजुष्केण क्रियते इति ।। मन्त्रपाठस्तु-
देवस्य त्वेति। हे रशने सवितुर्देवस्य प्रेरणे सत्याश्विसंबन्धभ्यां बाहुमूलाभ्यां पूषसंबंन्धिभ्यां हस्ताग्राभ्यां त्वामाददे।।
अथ ब्राह्मणम्‘ इमामृभ्णन्रशनामृतस्येत्यधिवदति यजुष्कृत्यै ’इति।। पाठस्तु –
इमामृभ्णन्निति । विदथेषु यज्ञेषु आयुषि यजमानयुनिर्मते पूर्वे कव्या कवयो विव्दांस ऋत्विज ऋतस्य यज्ञस्य संबन्धिनीमिमां रशनामृगभ्णन्स्वीकृतवन्तः। तया रशनया
देवाः सर्वे सुतमाबभूवुरश्वबन्धनव्दारा तस्मिन्नश्वमेधे प्रधानभूतं त्रिरात्राख्य सोमयागमभितः प्राप्ताः। कीदृशी रशना,ऋतस्य यज्ञस्य सामन्साननि समाप्तौ निमित्यभूतयां सत्यां सरं सरणं प्रवृति-मारपन्ती कथयन्ती। हे ऋत्विग्यजमानाः शीघ्रं यज्ञं समापयतेति वन्दती सेयं
रशना लक्ष्यते, स्व॑कीयदीर्घत्वेनाश्वबन्धनयोग्यत्वदर्शनात ।।
1 ख.घ.च.0त्यै इ.। 2 ख.चेयं।
[[2530]]
श्रीमत्सायणार्यविरचितभाष्यसमेता- 7षष्ठकाणडे
(अश्वमेघमन्त्रकथनम् )
कल्पः- ‘अमिधा असत्याश्वमभिदधाति’ इति
पाठस्तु-
अमिधा इति। अमिधीयते बधयत इत्यभिधाः हेऽश्व त्वं तादृशोबध्यमानोऽसि । तथा भुवनादिरूपोऽसि। तव प्रजापत्यत्वात्प्रजापतिगुणाः सर्वेऽपि त्वय्यवस्थिताः
प्रजापतिश्व भुवनाकारणत्वदभुवनरूपः। अन्तर्यामित्वाच्च
यन्ता। पोषकत्वाच्च धर्ता। तदव्दारा त्वमपि तथाविधोऽसि। स तादृशस्तवं वैश्वनरं सर्व पुरूषहितकारिणं सप्रथसं विस्तारेण सहितमाग्निमाहवनीयं गच्छ। आहवनीये ह्यश्वाङ्गानि हून्तये।
तत्र गत्वा च स्वाहाकृतः स्वाहाकारेणास्माभिर्देवभ्यो दत्तो भव। ततो हुतः सन्नृपो भूत्वा पृथिव्या यन्ता राडभवनियामको राजा भव। ततोऽनन्तरभाविन्यन्तरिक्षे च ग्रहनश्क्षत्रादिनां यन्तायमनश्वापि, नियन्तुमुद्युक्तो यन्ता नियन्तु समर्थो यमनास्तादृशो भव। ततोऽप्युपरितने, द्युलोके धर्ता धरूणोऽसि, स्वर्गस्तितानां पुरूषाणां धर्ता पोषयितुमुद्युक्तः, धरूणः पोषयितुं समर्थः तादृशो भव। तथाविधं त्वां कृष्यै सर्व(स्य)निष्पत्तये बघ्नामीति शोषः। एवमुत्तरवापि योज्यम्।
क्षेमः प्राप्तस्य धनस्य रक्षणम्। रयिः प्रापणीयं धनम्। पोषस्तज्जन्या भोगपुष्टिः। पृथिव्यादयस्त्रयः प्राप्तव्या लोकाः। तेषु लोकेषु पूर्वे विद्यमानं द्रव्यं सत्। इतः परं संपादनीयं द्रव्यमसत्। एतत्सर्वे भाविजन्मविषयम्। अस्मिञ्जन्मन्यपेक्षिता आप ओषधयः सर्वप्राणिश्व। तस्य सर्वस्य सिद्धयर्थे त्वामिह बध्नामि। एतच्च सर्व यागव्दारेणोपपद्यते।।
इतिश्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाकाण्डे
प्रथमप्रपाठके एकादशोऽनुवाकः ।। 9 ।।