(( अथ सप्तमाष्टके प्रथमप्रपाठके दशमो ऽनुवाकः )
सं॒वत्स॒रो वा इ॒दमेक॑ आसी॒त्सो॑ऽकामयत॒र्तू-
न्त्सृजे॒येति॒ स ए॒तं पञ्चरात्रम॑पश्य॒त्तमाऽह॑रत्तेना॑य-
ज॒त ततो॒ वै स ऋ॒तून॑सृजत॒ य ए॒वं वि॒व्दान्प॑ञ्चरा॒-
त्रेण॒ यज॑ते॒ प्रैव जा॑यते॒ त ऋ॒तवः॑ सृ॒ष्टा न व्यावं-
र्तन्त॒ च ए॒तं पञ्चरात्रम॑पश्य॒त्तमाऽह॑रत्तेना॑यजन्त॒
ततो॒ वै ते व्याव॑र्तन्त ( 1 ) य एं॒व विव्दान्प॑ञ्चरा॒-
त्रेण॒ यज॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्येणाऽऽ व॑र्तते॒ सा-
व॑सेनिः शौचे॒यो॑ऽकामयत पशुमान्त्स्यामिति स
ए॒तं पञ्चरात्रम॑पश्य॒त्तमाऽह॑रत्तेना॑यजत॒ ततो॒ वै स सह॒स्त्र॑
प॒शून्प्राऽऽन्प्रो॒ति बब॒रः प्रावा॑हाणिरकामयत
वा॒चः प्र॑वदि॒ता स्यामिति॒ स ए॒तं पञ्चरात्रमा ( 2 )
अ॒ह॒र॒त्तेना॑यजत॒ ततो॒ वै स वा॒चः प॑वदि॒ताऽभ॑वद्य
ए॒वं विव्दान्प॑ञ्चरा॒त्रेण॒ यज॑ते प्रवदि॒तैव वा॒चो भ॑व-
त्यथो॑ एनं वा॒चस्पतिरित्या॑हु॒रना॑प्तश्वतूरा॒त्रोऽति-
रिक्तः षड्रात्रोऽथ॒ वा ए॒ष संप्र॒ति य॒ज्ञो यत्प॑ञ्चरा॒त्रो
य ए॒वं वि॒व्दान्प॑ञ्चरा॒त्रेण॒ यज॑ते संप्रत्ये॑व य॒ज्ञेन॑यजते
पञ्चरा॒त्रो भ॑वति॒ पञ्च॒ वा ऋ॒तवः॑ संवत्सरः
( 3 ) ऋ॒तुष्वे॒व संवत्स॒रे प्रति॑ तिष्ठ॒त्यथो॒ पञ्चा॑
[[2524]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- 7षष्ठकाणडे-
( पञ्चरा॒त्रो भिधानम् )
क्षरा प॒ङ॑क्तो य॒ज्ञो य॒ज्ञमे॒वाव॑ रून्धे
त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रून्धे पञ्चद॒शो
भ॑वतीन्द्रि॒यमे॒वाव॑ रून्धे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्या-
व॑रूद्ध्या॒ अथो॒ प्रैव तेन॑ जायते पञ्चविँ॒शो॑ऽग्नि-
ष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवान॒न्नाद्य॒स्या-
व॑रूद्ध्यै विश्वजित्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒-
भिजि॑त्यै ( 4 ) ।।
( ते व्यव॑र्तन्त प्रव॒दिता स्या॒मिति॒ स ए॒तं पञ्चरा॒त्रमा
सं॑वत्स॒रो॑ऽभिजि॑त्यै )
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाष्टके
प्रथमप्रपाठके दशमोऽनुवाकः ।। 10 ।।
( अथ सप्तमकाण्डे प्रथमप्रपाठके दशमो ऽनुवाकः)
नवमेऽनुवाके जामदग्न्यचतूरात्र उक्तः। अथ दशमे
पञ्चरात्रोऽभिधीयते।। तमिमं विधत्ते-
संवत्सरो वा इति । इदं वसन्ताद्यृतुभेदोपेतं कालस्वरूपमृतूत्पत्ते संवत्सरात्मक एक एव प्रजापतिरासीत् ।
स ऋतून्सिसृक्षुस्तत्साधनत्वेन पञ्चरात्रयागमनुष्ठाय सृष्टवान् । एवमन्योऽपि प्रजाकामस्तेन यागेन प्रजामुत्पादयति।
अथ व्यावृत्तिकामस्य तमेव विधत्ते-
त ऋतव इति । प्रजापतिना सृष्टा वसन्ताद्यृतुदेवास्तत्तदृतुलिङ्गविशेषै- र्व्यावृत्तिमलभमानास्तत्साधनत्वेन पञ्चरात्रमनुष्ठाय
तत्तदृतुलिङ्गर्व्यावृत्तिं प्राप्तः। एवामन्योऽप्यनुष्ठाय
पाप्मना भ्रातृव्येण च वियोगं प्रापोति ।।
अथ पशु प्राप्यर्थ तमेव विधत्ते –
सार्वसेनिरिति । सर्वसेनाख्यस्य पुरूषस्यापत्यं सार्वसेनिः।
शुच्याख्यायाः स्त्रिया अ त्यं शौचेयः ।। अथ सभायां वक्तृत्वविशेषं कामयमानस्य तमेव पञ्चरात्रं विधत्ते-
[[2525]]
प्रपा01अनु10 )कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
( पञ्चरात्राभिधानम् )
बबर इति । बबरो नामतः, प्रवाहणिः । बबरवदन्योऽपि
पञ्चरात्रेण सभायां प्रकर्षेण वक्ता भवति । तदीयं वक्तृत्वमनुमोदानाः सर्वे सभ्यास्त वाचम्पतिरित्येवं व्यवहरन्ति ।।
एवं बहुविधफलसाधनत्वेन पञ्चरात्रं विधाय न्यूनातिरेकाभावेन तं प्रशंसति-
अनाप्त इति । एकेनाहूना न्यूत्वाच्चतूरात्रो नोक्तेभ्यः फलेभ्यः पर्याप्तः । पञ्चभिरेक्होभिस्तत्फलनिर्वृत्तेरेकेनाहना
षड्रात्रोऽतिरिक्तः। एष पञ्चरात्रः संपति समीचीनो न्यूनातिरेकाभावेन योग्यः। अत एतदनुष्ठायी योग्येनैव
यज्ञेनेष्टवान्भवति ।। अथाहर्गतां पञ्चसंख्यां प्रशंसति-
पञ्चरात्र इति । हेमन्तशिरयोः समसादृतूनां पञेचत्वम् ।।
अथ पञ्चरात्रावयनभूतानि पञ्चहानि विधत्ते-
त्रिवृदग्निष्टोम इति । प्रकृतौ त्रिवृत्पञ्चदशसप्तदशैकविशैश्वतुर्मिः स्तोमरैग्निष्टोमगतानि
व्दादश स्तोत्राणि निष्पाद्यन्ते। अत्र त्वेकेनैव त्रिवृत्सतोमेन
सर्वस्तोत्रनिष्पत्तिः। तादृशोऽग्निष्टोमः प्रथममहः । त्रिवृदग्न्योरूभयोमुर्खेन सहोत्पन्नत्वात्रिवृत्ता तेजःप्राप्तिः
पञ्चदशेनैकेनैव स्तोमेन युक्त उक्थयो द्वितीयमहः ।
पञ्चदशस्तोमस्येन्द्रस्य चोरौ बाहुषु सहोत्पन्नत्वात्पञ्चदशेनेन्द्रयप्राप्तिः। सप्तदशेनैकेन
स्तोमेन युक्त उक्थ्यस्तृतीयमहः सप्तदशेस्यान्नाधारे
मध्यप्रदेश उत्पन्नत्वात्तेन्न्प्राप्तिः। अपि च सप्तदशस्य
प्रजापत्यत्वात्तेन प्रजोपादकत्वमपि भवति।
यद्यप्यत्रोभयत्रोक्थयो श्रुतस्तथाऽप्यहीनानामेतेषां
व्दादशाह- विकृतित्वाद्व्दादशाहे च प्रायणीयान्तरभाविनः
पृष्ठयषडहस्य पञ्चरात्रप्रकृति-त्वात्पृष्ठयषडहे च
द्वितीयतृतीययोरूभयोरूक्थ्पत्वात्तद्विकृतिरूपयोरप्यहनो-
रूक्थयत्वं लभ्यते। एतदेवाभिप्रेत्य बौधायनेनोक्तम्-तस्याहानि त्रिवृदाग्निष्टोमःपञ्चदश उक्थ्यः सप्तदश
उक्थ्यःपञ्चविशोऽग्निष्टोमो महाव्रतवान्तिश्वजित्सर्व-
पृष्ठोऽतिरात्रः इति। चोदकप्राप्तानामपि त्रयाणामेतेषामहूना
विस्पष्टार्थे पनर्विधानम्। पञ्चविशेनैकनैव स्तोमेन
युक्तोऽग्निष्टोमश्वतुर्थमहः । यद्यापि त्रिवृदादिस्तोमवत्सामब्राह्मणे पश्वंगस्तोमो नाऽऽम्नातस्तथाऽपि सूत्रकारोक्तप्रकारेण स स्तोम उन्नेयः।
अस्य च स्तोमस्य प्रजापतिदेवताकत्वात्तेन तत्प्राप्तिः ।
सचाग्निष्टोमो महाव्रतधर्मवान् गवामयने महाव्रताख्यमकेमहः । तस्मिन्नहनि यानि स्तोत्राणि तान्यत्र प्रयोक्तव्यानीत्यर्थः। महाव्रतस्यान्नसाधनत्वात्तेनान्नप्राप्तिः ।
[[2526]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- 7षष्ठकाणडे-
( पञ्चरात्राभिधानम् )
विश्वजिन्नामाऽग्निष्टोमविकारः कश्विदेकाहः । सोऽत्रातिरात्रविकृतित्वमापादितः पञ्चममहर्भवति । स
पुनः सर्वपृष्ठो रथंतरबृहव्दैरापवैराजशाकररैवताख्यानि
पृष्ठस्तोत्रगतानि सामानि सर्वाण्यपि यस्यासौ सर्वपृष्ठः।
स च सर्वस्य फलस्यामिजित्यै संपद्यते ।।
अथ मीमासा ।
अष्टमाध्यायस्य प्रथमपादे दशमाधिकरणे चिन्तितम्-
अहर्गणेषु सोमस्य व्दादशाहस्य वाऽग्रिमः।
पूर्ववाद्दिनसंघादिविशेषैरन्तमो भवेत् ।।
द्विरात्रमारभ्य शतरात्रपर्यन्तेषु अहर्गणेषु गवामयने च
पूर्ववदव्यक्तलिङ्गेन सोमस्य धर्मा इति चेन्न । विशेषालिङ्गसध्दावात् । व्दादशाहपदान्तर्गतोऽहःशब्दः
षष्टघिटकात्मकादिनपरः । द्विरात्रादिपदान्तरगतो रात्रश्ब्दश्व तादृशः । एतदेकं विशेषलिङ्गम्। अहःसंघो द्वितीयं, व्दादश दीक्षास्तृतायं, तच्च गवामयेन विद्यते।
तत्र ह्यभीन्धत एव दीक्षाभिरित्युक्त्वा दीक्षायुग्मानि(णि)
षडुपन्यस्तानि- ‘ व्दाभ्यां लोमावद्यन्ति व्दाभ्यां त्वचं
व्दाभ्यामसृग्व्दाम्यां माँसं व्दाभ्यामस्थि व्दाभ्यां मज्जानमात्मदक्षिणं वे सत्रम् ’ इति । तस्मादहर्गणेषु
व्दादशाहस्य धर्माः ।।
प्रथमाघ्यायस्य तृतीयेपादे पञ्चमाधिकरणे चिन्तितम्-
लौकिको वाक्यगो वाऽर्थस्त्रिवृदादेः समत्वतः।
उभौ विध्यर्थवादेकवाक्यत्वादस्ति्वहान्तिमः।।
त्रिवृध्दहिष्पवमानमिति श्रुतो त्रिवृच्छब्दस्य त्रेगुण्यं लोके प्रसिध्दोऽर्थः । वाक्यशेषादृक्त्रयात्मकेषु त्रिषु सूक्तेष्ववस्थितानां बहिष्पवमानस्तोत्रनिष्पादनक्षमाणामुपास्मै गायता नर इत्यादीनामृचां नवकमर्थः। तत्र धर्मनिर्णये वेदस्य प्रबलत्वेऽपि पदपदार्थनिर्णये लोकवेदयोः समानबलत्वादुभवार्थै विकल्पेन ग्रहीतव्याविति चेन्मैवम्
लौकिकार्थस्वीकारपक्षे विधिवाक्येऽर्थस्त्रैगुण्यम्, अर्थ
वादवाक्ये स्तोत्रियाणामृचां नवकामित्येवं विध्यर्थवाक्ययोर्वैयधिकरण्या- देकवाक्यत्वं न स्यादत
एकवाक्यत्वाय स्तोत्रियाणां नवकमेव विधिवाक्ये नियतोऽर्थः।
दशमाध्यायस्य षष्ठपादे सप्तमाधिकरणे चिन्तितम्-
[[2527]]
प्रपा01अनु10 )कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
( पञ्चरात्राभिधानम् )
त्रिवृदाग्निष्टुदित्येतत्सर्वत्र स्तोम एव वा ।
आद्यस्त्रैगुण्यवाचित्वादन्त्यः स्तोमेऽस्य रूढितः।
एवं श्रूयते-‘ त्रिवृदग्निष्टुदग्निष्टोमः ’ इति। किं त्रिवृत्वमग्निष्टुति क्रतौ सर्वेषु साधनेषु संपद्यते, किं वा स्तोममात्रसंबन्धि। तत्र त्रिवृद्रज्जुरित्यादौ त्रिवृच्छव्दस्य
त्रैगुण्यवाचित्वदर्शनादवापि क्रतुसाधनेषु या या संख्या श्रूयते
स सर्वा त्रित्वेन विक्रियत इति प्राप्ते ब्रूभः- यद्यापि त्रिवृच्छब्दोऽवयवप्रसिध्दया लोके त्रैगुण्यं ब्रूते तथाऽपि वेदे
रूढया स्तोमवाची। त्रिवृध्दहिष्पवमान॑मित्युक्त्वा स्तोत्रियाणां
नवानामृचामनुक्रमणादव स्तोमविषयमेव त्रिवृत्वम्।।
सप्तमाध्यायस्य तृतीयपादे तृतीयाधिकरणे चिन्तितम्-
विश्वजित्सर्वपृष्ठः किमनुवादो रथंतरम् ।
बृहता वा समुच्चेयं यव्दा षाडहिकानि षट्।।
आतिदश्यनि तत्राऽऽद्यो माहेन्द्रादिचतुष्टये।
पृष्ठशब्दाच्चोदकेन सर्वेषामिह संभवात् ।।
समुच्चयो वा विधये सर्वत्वं बहवपेक्षया।
न तु व्दयोरतः षण्णां पृष्ठानामतिदेशनम् ।।
“ विश्वजित्सर्वपृष्ठो भवति ” इति श्रुयते।
तत्र सर्वपृष्ठशब्दोऽनुवादः। कुतः, प्रप्तत्वात् । तथा हि ज्योतिष्ठोमे माध्यंदिनपवमानानन्तरभावीनि माहेन्द्रादीनि
चत्वारि स्तोत्रत्राणि सन्ति । ‘ अभि त्वा शूर नोनुमः ’ ‘कया नश्वित्र आभुवत् ’ ‘ तं वो दस्ममृतीषहं ’ ‘तरोमिर्वो विदव्दसुम् ’ इत्येत्षु चतुर्षसूक्तेषु तानि स्तोत्राणि सप्तदशस्तोमतामापाद्य गीयन्ते। एकस्मिन्सूक्तेविद्यमानानां
तिसृणामृचां ब्राह्मणोक्तविधानेन सप्तदशधाऽभ्यासः
सप्तदशस्तोमः। तादृशेषु स्तोत्राषु पृष्ठशब्दः श्रूयते –
‘ सप्तदशानि पृष्ठानि ’ इति । तानि चत्वारि पृष्ठानि
विश्वजिति चोदकप्राप्तत्वात्सर्वपृष्ठशब्देनानूद्यन्त
इत्याद्यः पक्षः। रथंतरपृष्ठयोर्ज्योतिष्टोमे विकल्पितयोरिहापि
चोदकेन विकल्पिप्राप्तौ सर्वशब्देन समुच्चयो विधीयते।
तथा सत्यनुवादकृतं न वैयर्थ्यं न भेविष्यतीति द्वितीयः
पक्षः। सर्वत्वं बहुषु मुख्यं न तु व्दयोः । तस्मादनेन
सर्वपृष्ठशब्देन षट्संख्या-
1च. न0इत्यु0। क.घ.ङ.च.स्तोत्रवि0। 3क.घ.ङ. 0नि चो0।
4 क.घ.ङ.च. 0दकत्वेन। 5 ख.च. भवती0।
[[2528]]
श्रीमत्सायणार्यविरचितभाष्यसमेता- 7षष्ठकाणडे
(अश्वमेघमन्त्रकथनम् )
कानि पृष्टान्यतिदिश्यन्ते । षडहे प्रदिनमेकैकं पृष्ठ विहितम्।
तानि च षट्पृठानि रथंतरबृव्दैरूपवैराजशाक्वरवैतसममिर्निषाद्यान। यद्यापि
विश्वजीत एकाहत्वाज्ज्योतिष्टोमविकृतित्वमेव नतु षडहविकृतित्वं, तथाऽपि सर्वपृष्ठोक्तवलात्तनि पृष्टान्यतिदिश्यन्ते ।।
दशमाध्यायस्य षष्ठे पादे पञ्चमाधिकरणे चिन्तितम्-
कि सर्वपृष्ठे सर्वाणि पृष्ठदेशे यथोक्ति वा । पृष्टाशब्दोत्पृष्ठदेशे वचनात्तु व्यवस्थतिः ।
इदमान्नयते-‘ विश्वजीत्सर्वपृष्ठः ’ इति। षडहे षट्सावाहःसु क्रमेण रथंतरबृव्दैरूपमित्यादिभिः षड्भिः समाभिः पृष्ठस्तोत्रं
निष्पादितम्। तानि सर्वाणि पृष्ठसामानि यस्मन्विश्वजीत
सोऽयं सर्वपृष्ठः। तत्र मध्यंदिनपवमानमैत्रावरूण
साम्नोरन्तरालरूपे पृष्ठस्तोत्रंदशे कि सर्वाणि पृष्ठसामानि
कार्याणि किंवा यथा वचनं देशव्यवस्थितेति संशयः।
पृष्ठकार्यगमनकेन(ण) पृष्टाशब्देन पृष्ठदेशे प्राप्तवचनेन
देशविशेषो व्यवस्थापते । वचनं चैवमाम्यनायते- ‘ पवमाने
रथंतरंकरोत्यरर्भवे बृहन्यमध्यत इतराणि वैरूपं होतुः
पृष्ठं वैराजं ब्रह्मसाम शाक्यवरं मैत्रावरूणसाम रेवमच्छावाकसाम ’ इति वचनम् हि न्यायाब्दलीयः।
तस्माद्देशविशेषो व्यवस्थितः।।
इतिश्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाकाण्डे
प्रथमप्रपाठके दशमोऽनुवाकः ।। 10 ।।