(( अथ सप्तमाष्टके प्रथमप्रपाठके नवमो ऽनुवाकः )
ज॒मद॑ग्निः॒ पुष्टि॑कामश्वतूरात्रेणा॑यजत॒ स ए॒ता-
न्पोषाँ॑ अपुष्यत्तस्मा॑त्पलितौ जाम॑दग्नियौ॒ न सं
जा॑नाते ए॒ताने॒व पोष॑न्पुष्यति॒ य एं॒व विव्दाँश्व॑-
तूरा॒त्रेण॒ यज॑ते पुरोडा॒शिन्य॑ उप॒सदो॑ भवन्ति
1 च. 0त्रका0 ।
[[2522]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- 7षष्ठकाणडे-
( जामदग्न्यचतूरात्राभिधानम् )
प॒शवो॒ वै पु॑रोडाशः॑ प॒शूनेवाव॑ रून्धेऽन्नं॒ वै पु॑रो-
डाशोऽन्न॑मे॒वाव॑ रून्धेऽन्नं॒दः प॑शु॒मान्भ॑वति॒ य ए॒वं
विव्दाँश्व॑तूरा॒त्रेण॒ यज॑ते ( 1 ) ।।
( जामद॑ग्निरष्टाच॑त्वारिँशत् )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाकाण्डे
प्रथमप्रपाठकेनवमोऽनुवाकः ।। 9 ।।
( अथ सप्तमाकाण्डे प्रथमप्रपाठके नवमो ऽनुवाकः )
अष्टमेऽनुवाके चतूरात्र आत्रेयो निरूपतिः । अथ नवमे
जामद॑ग्न्यश्वतूरात्रो निरूप्यते ।।
तमिमं विधातुं प्रस्तौति –
जमग्निरिति । एताल्ँ लोकप्रसिध्दान्प्रजापशुधनपोषानपुष्यत्संपादितवान् ।
यस्मादेव जमदग्निः पुष्टिहेतुयागप्रवर्तकस्तस्माज्जामदग्नियौ
तव्दंशोत्पन्नौ व्दौ पितृपुत्रौ पुष्टिमन्तरेण वृथैव पलितौ दरिद्रो न जानाते नोत्पद्येते। यव्दा वृथैवपलितं स्वकीयं देहं न जानाते। अयमर्थः- पुष्टिसंप्रदायस्य जमदग्निना प्रवर्तितत्वात्तव्दंशे कोऽपि दरिद्रो नास्ति। यदि कश्वित्प्रमादात्स्यात्तथाऽपि नैरन्तर्येण व्दौ पुरूषौ पुष्टमन्तरेण वृथा पलितौ न स्त एवेति ।।
अथ विधत्ते-
एतानेवेति । अत्रोपसत्सु कांचिद्विशेषं विधत्ते-
पुरोडाशिन्य इति। पुरोडाश आस्पसत्स्वस्तीति पुरोडाशिन्यः व्दादशसूपसत्सु व्दादश पुरोडाशविशेषान्सूत्रकारो दर्शयति-
‘आग्नेय एककपाल आश्विनो द्विकपालो वैष्णवस्त्रिकपालः
सौर्यश्वतुकपालः सावित्रः पञ्चकपालोधात्रः षट्कपालो मारूतः सप्तकमालो बार्हस्पत्यौऽष्टाकपालो मैत्रो नवकपालो
वारूणो दशकपाल ऐन्द्र एकादशकपालो वैश्वदेवो व्दादशकपालो दर्विहोमा भवन्ति ’ इति । पुरोडाशानां पशुहेतुत्वादन्नरूपत्वाच्च तदुभयप्राप्तिः।
एतव्देदनपूर्वकमनुष्ठानं प्रशंसति- अन्नाद इति।
[[2523]]
प्रपा01अनु10 )कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
( पञ्चरात्राभिधानम् )
इतिश्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाकाण्डे
प्रथमप्रपाठके षष्टोऽनुवाकः ।। 9 ।।