(( अथ सप्तमाष्टके प्रथमप्रपाठके ऽष्टमो ऽनुवाकः )
अत्रि॑रददा॒दौर्वा॑य प्र॒जां पु॒त्रका॑माय॒ स रि॑रिचा॒-
नो॑ऽमन्यत॒ निर्वीर्यः शिथि॒लो या॒तया॑मा॒ स ए॒तं
च॑तूरा॒त्रम॑पश्य॒त्तमाऽहर॑त्तेनायजत॒ ततो॒ वै तस्य॑
च॒त्वारो॑ वी॒रा आऽजा॑यन्त॒ सुहो॑ता॒ सू॑न्दाता॒ स्व॑ध्वर्युः
सुस॑भेयो॒ य ए॒वं विव्दाँश्व॑तूरा॒त्रेण॒ यज॑त॒
आऽस्य॑ चत्वारो॑ वीरा जा॑यन्ते सुहोता॒ सू॑ग्दाता॒
स्व॑ध्वर्युः॒ सुस॑भेयो॒ ये च॑तुर्विँशाः पव॑माना
ब्रह्मवर्च॒सं तत् (1) य उद्यन्तः स्तोमाः श्रीः
साऽत्रिँ॑ श्र॒ध्दादे॑वं॒ यज॑मानं च॒त्वारि॑ वी॒र्या॑णि॒
नोपा॑नम॒न्तेज॑ इन्द्रि॒यं ब्र॑ह्मवर्च॒सम॒न्नाद्यँ॒ स ए॒ताँ-
श्व॒तुर॒श्वतु॑ष्टोमा॒न्सोमा॑नपश॒यत्तानाऽह॑र॒त्तैर॑यजत॒ तेज॑
ए॒व प्र॑थ॒मेनावा॑रून्धेन्द्रि॒यं द्वितीये॑न ब्र॑ह्मवर्च॒सं तृ-
तीये॑ना॒न्नाद्यें चतु॒र्थेन॒ य ए॒वं विव्दाँश्व॑तूरश्व॒तु॑ष्टो-
मा॒न्सोमाना॒हर॑ति तैर्यज॑ते॒ तेज॑ ए॒व प्र॑थ॒मेनाव॑
रून्ध इन्द्रि॒यं द्वितीये॑न ब्र॑ह्मवर्च॒स तीये॑ना॒न्नाद्यें
[[2520]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- 7षष्ठकाणडे-
( आत्रेयचतूरात्राभिधानम् )
चतुर्थेन॒ यामे॒वात्रि॒ऋध्दि॒मार्ध्नो॒त्तामे॒व यज॑मान ऋध्नोति
( 2 ) ।।
( तत्तेज॑ ए॒वाष्टाद॑श च ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाष्टके
प्रथमप्रपाठकेऽष्टोमोऽनुवाकः ।। 8 ।।
( अथ सप्तमाष्टके प्रथमप्रपाठके ऽष्टमो ऽनुवाकः )
सप्तमे सहस्त्रतमीदानमुक्तम्। तावता पञ्चममारभ्य त्रिष्वनुवाकेषु गर्गत्रिरात्रः समापितः । अथाष्टमनवमयोर्व्दौ चतूरात्रावुच्येते ।।
तत्रात्रेश्वतूरात्रमष्टमेऽभिधत्ते-
अत्रिरददादिति । उर्वस्य पुत्र और्वः । स च पुत्रकामोऽत्रिं याचितवान् । तस्मै सोऽत्रिः स्वकीयां प्रजां ददौ । ततः प्रजारहित्येन रिक्तः सन्मनस्यवेममन्यत- अहं निर्वीर्यः प्रजोत्पादनसामर्थ्यरहितः, शिथिलः कार्येष्वक्षमः, यातयामा
गतसारश्वास्मीति विचार्य प्रजोत्पादनसाधनं चतूरात्रं निश्वित्य तत्सामग्रीमाहत्य तेनायजत। तस्य सुहोत्रादयश्वत्वारः पुत्रा उत्पन्नाः। ते च हौत्र औदगाव आध्वर्यवे यज्ञप्रयोपदेये च कुशलाः । अतोऽन्येऽपि चतूरात्रेणेष्ट्वा तादृशान्पुत्राल्लभन्ते ।।
अत्र बहिष्पवमानमाध्यंदिनपवमार्भवपवमानेषु त्रिष्वपि स्तोमविशेषं विथत्ते-
ये चतुर्विँशा इति । चतुर्विशतिस्ख्यया यत्र स्तोत्रिया ऋच आवृत्ताः स स्तोमश्वतुर्विशः । तादृशेन स्तोमेन युक्ता ये
पवमानास्ते कर्तव्याः । तथा सति तत्पवमानत्रयं सर्वे ब्रह्मवर्चसस्वरूपं भवति। चतुर्विशतिस्ख्यया गायत्रीजपादिना ब्रह्मवर्चसहेतुत्वात् ।।
अथ पवमानव्यतिरिक्तस्तोत्रेषूत्तरोत्तरस्तीमवृध्दिं विधत्ते-
य उद्यन्त इति । उत्तरोत्तरमुत्कर्ष गच्छतः स्तीमा उद्यत्स्तोमाः सूच्यते-
सन्ति त्रिवृत्पञ्चदशसप्तशैकविंशत्रिणवत्रयस्त्रिंशाख्याः
षट्स्तोमाः। तत्र
1 च. 0संख्यया गायत्रीछन्दसा च ग्र0। 2 ख. 0यंत्र्या ब्र0 । 3 क.घ.ड.0मवि शेषं वि0 ।
[[2521]]
प्रपा01अनु09 )कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
( जामदग्न्यचतूरात्राभिधानम् )
प्रथमेऽह्नि प्रातःसवनं त्रिवृत्स्तोमयुक्त। माध्यंदिनं सवनं
पञ्चदशस्तोमयुक्तम्। तृतीयसवनं सप्तदशस्तोमयुक्तम् । अथ द्वितीयेऽह्नि त्रिवृतं परित्यज्यैकविंशंस्तोमं स्वीकृत्य पञ्चदशसतदशैकर्वंशैः सवनत्रयं निष्पाद्यम्। तृतीयेऽहनि
सप्तदशैकविंशविणवैः। चतुर्थे त्वहनि एकविंशत्रियस्त्रिंशैः।
तदिदमुद्यत्स्तोमत्वम् ।।
तमिमं चतूरात्रविकारं प्रशंसति-
अत्रिँ श्रध्दादेवमिति श्रध्दादेवो यस्यासौ श्रध्दादेवोः।
यथा देवतायामादरस्तथा श्रध्दामित्यर्थः । तादृशोऽत्रिर्यजमानः सर्वदा यागान्करोति । तथाविधं यजमानं तेज आदीनि न प्राप्नुवन्। ताजः शरीरकान्ति। इन्द्रियं चक्षुरादिक्षामर्थ्यम्। ब्रह्मवर्चसं श्रुताध्ययनसंपत्तिः। अन्नद्यं स्वादन्नसंपत्तिः। एकैकस्मिन्नहनि पवमानेषु चतुर्विंशस्तोमः . पवमानत्रयार्थमुक्तरीत्या त्रिवृदादयस्त्रयः स्तोमाः। एवं चतुर्ष्वपि दिनेषु चतुष्टोमाश्वत्वारः सोमयागास्तदनुष्ठानेनात्रिस्तेजआदिकमलभत ।।
पूर्वे चतूरात्रेणायजतेति कृस्न्नः क्रतुर्विहितः। इदानी क्रत्ववयवांश्वतुरहर्विशेषान्विधत्ते-
य एवमिती । तेज एव प्रथमेनेत्यादेरूक्तस्यैव संग्रहार्थे
यामेवेत्यादिनुनर्वचनम् ।।
इतिश्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाकाण्डे
प्रथमप्रपाठके षष्टोऽनुवाकः ।। 8 ।।