(( अथ सप्तमाष्टके प्रथमप्रपाठके सप्तो ऽनुवाकः )
स॒ह॒स्त्र॒तम्या॑ वै यज॑मानः सुव॒र्गं लोकमे॑ति॒ सैनँ॑
सुव॒र्गं लोकं गमयति॒ सा मा॑ सुव॒र्गं लो॒कं ग॑म॒ये-
त्या॑ह सुव॒र्गंम॒वैनं॑ लो॒क ग॑मयति॒ सा मा॒ ज्योति॑-
ष्मयतं लो॒क ग॑मयेत्या॑ह॒ ज्योति॑ष्मन्तमे॒वैनं॑ लो॒कं
ग॑मयति॒ सा मा सर्वा॒न्पुम्या॑ल्लोँकान्ग॑म॒येत्या॑ह॒ स-
वांने॒वैनं॒ मा पुण्याल्लोँकान्ग॑ ग॑मयति॒ सा (1) मा॒ प्रति॒ष्ठां
ग॑मय प्रजया॑ प॒शुभिः॑ स॒ह पुनर्माऽऽ वि॑शताद्र॒यि-
रिति॑ प्र॒जयै॒वेनं॑ प॒शुभी र॒य्या प्रति॑ ष्ठापयति
प्र॒जावा॑न्पशु॒मान्र॑यि॒मान्भ॑वति॒ य ए॒वं वेद॒ ताम॒ग्नीधे॑
वा ब्र॒ह्मणे॑ वा॒ होत्रे॑ वोन्दा॒त्रे वा॑ऽध्व॒र्यवे॑ वा दद्या-
त्स॒हस्त्र॑मस्य॒ सा द॒त्ता भ॑वति स॒हस्त्र॑मस्य॒ प्रति॑-
गृहीतं भवति॒ यस्तामवि॑व्दान् ( 2 ) प्र॒ति॒गृ॒ह्नाति
[[2517]]
प्रपा01अनु07 )कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
( सहस्त्रतम्यभिधानम् )
तां प्रति गृहणीया॒देका॑ऽसि॒ न स॒हस्त्र॒मेकां॑ त्वा
भू॒तां प्रति गृहणीमि॒ व स॒हस्त्र॒मेकां॑ मा भूताऽऽ
वि॑श॒ मा स॒हस्त्र॒मित्येकां॑मे॒वैनां॑ भू॒तां प्रति॑ गृहणीति॒
न स॒हस्त्र॒ य ए॒वं वेद॑ स्योनाऽसि॑ सुषदा॑ सुशेवा॑
स्योना माऽऽवि॑श ( 3 ) इत्या॑ह स्यो॒नैवेनँ॑ सुषदा॑ सु॒
शेवा॑ भू॒ताऽऽ वि॑शति॒ नैनँ॑ हिनस्ति ब्रह्मचा॒दिनो॑
वदन्ति स॒हस्त्रँ सहस्त्रत॒म्यन्वे॒ती3 सहस्त्रत॒मीँ
सहस्त्रत॒म्यन्वे॒ती3 यत्प्राची॑मुत्सु॒जेत्स॒हस्त्रँ॑ सहस्त्रत॒म्य-
न्वि॑या॒त्तत्स॒हस्त्र॑मप्रज्ञा॒त्रँ सु॑व॒र्ग लो॒कं न प्र जा॑नी-
यात्प्र॒तीची॒मुत्सृ॑जति॒ ताँ स॒हस्त्र॒मनु॑ प॒र्याव॑र्तते॒ सा
प्र॑जान॒ता सु॑व॒र्ग लो॒कमे॑ति॒ यज॑मानम॒भ्युत्सृ॑जति
क्षिप्रे स॒हस्त्रं॒ प्र जा॑यत उत्तमा नी॒यते॑ प्रथ॒दे॒वामा-
न्ग॑च्छति ( 4 ) ।।
( लो॒कन्ग॑मयति॒ साऽवि॑व्दान्त॒शेवा॒ माऽऽ वि॑श॒
यज॑मानं॒ व्दाद॑श च ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाष्टके
प्रथमप्रपाठके सप्तमोऽनुवाकः ।। 7 ।।
( अथ सप्तमाष्टके प्रथमप्रपाठके सप्तो ऽनुवाकः )
षष्ठेऽनुवाके सहस्त्रतमीं प्रशस्य तदङ्गिभूतं होमादिकमुक्तम् । अथ सप्तमे तद्दानं विधीयते ।।
‘ तत्र यदुक्तं सूत्रकारेण तां यजमानोऽभिमनात्रयते सा मा सुवर्ग लोकं गमयेति ’ इति तानेतान्सहस्त्रतम्पा अनुमन्त्रमन्त्रांश्वतुरो ह्यु॑त्पाद्य व्याचि-
ख्यासुः प्रथममन्वतात्पर्य दर्शयति-
1 ख. व्युत्पाद्य ।
[[2518]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- 7षष्ठकाणडे-
( सहस्त्रतम्यभिधानम् )
सहस्त्रतम्येति । यजमानोऽयं सहस्त्रम्या गवा स्वर्ग लोकं प्रान्पोति। सा ह्येनं प्रापयति। तस्मात्ता मेत्यादिमन्त्रं पठेत्। हे सहस्त्रतमि सा त्वं मां स्वर्गं लोकं प्रापयति तस्यार्थः। तेन सा स्वर्ग प्रापयत्मेव ।।
एवमुत्तरेषां त्रयाणामपि मन्त्राणां क्रमेण तात्पर्य दर्शयति-
सा मेति ज्योतिष्मानादित्यलोकः । इन्द्रालोकादयः पुण्याः । प्रतिष्ठां स्थिरावस्थानम् । प्रजया पशुभिश्व सह रायेर्धनं पुनर्मो प्रविशतु ।।
वेदनं प्रशसति-
प्रजावानिति। तस्याः सहस्त्रतम्या दानं विधत्ते-
सहस्त्रमस्येति । यो मन्त्रविद्दान्सहस्त्रतमीं प्रतिगृहणीदस्य गोसहस्त्र प्रतिगृहीतं भवति, तावान्प्रत्यवाय इत्यर्थः। अत एकाऽसीत्यादिमन्त्रेणतां सहस्त्रतमीं प्रतिगृहणीयात् । प्रतिगृहणीदमन्वार्थस्तु-सहस्त्रतमी त्वमेकवै गोरासि नतु सहस्त्रम्। अतस्त्वामेकामेकामेवं भूतां प्रतिगृहणीमि न तु सहस्त्रं, त्वमप्येकैव भूता मां प्रविश, सहस्त्रं भूत्वा मा प्रविश।
इतिशब्दो मन्वसमाप्त्यर्थः ।।
मन्त्रवेदनं प्रशंसति-
एकामेवैनामिति । अथ प्रतिगृहादूर्धवं जप्य मन्त्रमुत्पाद्य तात्पर्य दर्शयति-
स्योनाऽसीती । हे सहस्त्रतमि त्वं स्योना सुखप्रदा सुषदा दोहनादिकालं सुखेन प्राप्तुं शक्या सुशेवा कण्डूयनादिना सुखेन सेवितुं शक्या चासि। अतस्तथाविधैव भूत्वा मां प्रविश। एतन्मन्त्रपाठेन तथैव भूत्वा प्रविश्य सर्व-
प्रकारेणाप्येनं न हिनस्ति ।।
अथान्वयव्यव्यातरेकाभ्यां प्रत्यङ्मुखत्वेनोत्सर्जनं विधत्ते-
ब्रह्यवादिन इति। किं गोसहस्त्रस्य पुरतो गमनं किं वा सहस्त्रतम्याः पुरतो गमनमिती ब्रह्मवादिनां विचारः। तत्र यदि प्राङमुखीमेनामुत्सृजेत्तदानीं पुरतो गोसहस्त्रे गच्छति सति पश्वादियं गच्छेत्। तदानिं प्रज्ञानरहितं गोसहस्त्रं स्वर्ग न जानीयात् । तस्मात्तपरिहाराय प्रत्यङ्मुखीमेनामुत्सृजेत्। तदानीं पुरतो गच्छन्तीं तां सहस्त्रतमीमनु पृष्ठतो गोसहस्त्रं गच्छति। सा च सहस्त्रतमी मा- र्गाभिज्ञा सती स्वर्ग प्राप्नोति ।।
[[2519]]
प्रपा01अनु08 )कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
( आत्रेयचतूरात्राभिधानम् )
यदुक्तं सूत्रकारेण – ‘ तां शतामानेन हिरम्येन निष्कीय यजमानस्य गोष्ठे विसृजति ’ इति, तदेतद्विधत्ते-
यजामानमिति । ऋत्विग्भयो निष्कीतां तां सहस्त्रतमी यजमानगृहाभिमुख्येनोत्सृजेत् तथा सति यजमानगृहे त्वल्प एव काले सहस्त्रमुत्पद्यते । इयंच सहस्त्रतमी दक्षिणानयनकाले चरमा सती नीयते । स्वर्गप्रप्तिकाले प्रथमा सती यजमानेन सह देवान्गच्छति।।
इतिश्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाष्टके
प्रथमप्रपाठके सप्तमोऽनुवाकः ।। 6 ।।