(( अथ सप्तमाष्टके प्रथमप्रपाठके षष्ठोऽनुवाकः )
सोमो॒ वै स॒हस्त्र॑मविन्द॒त्तमिन्द्रोऽन्व॑विन्द॒त्तौ य॒मो
न्याग॑च्छत्तव॑ब्रवी॒दस्तु॒ मेऽत्रापीत्यस्तु॒ ही 3 इत्या॑-
ब्रूताँ॒ स य॒म एक॑स्यां वी॒र्य॑ पर्य॑पश्यदि॒यं वा
अ॒स्य स॒हस्त्र॑स्य वी॒र्य॑ बिभ॒र्तीति॒ ताव॑ब्रवीदि॒यं
ममास्तेवे॒द्यु॒वयो॒रिति॒ ताव॑ब्रूताँ॒ सर्वे वा ए॒तदे॒-
[[2511]]
प्रपा01अनु06 )कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
( सहस्त्रतम्यभिधानम् )
तस्यां॑ वीर्य॑म् ( 1 ) परि॑ पश्या॒मोऽँश॒मा ह॑रा-
महा॒ इति॒ तस्या॒मँशमाऽह॑रन्त॒ ताम॒प्सु प्रावेंशय॒-
न्त्सोमा॑योदेहीति॒ सा रोहि॑णी पिङ्ग॒लैक॑हायनी
रू॒पं कृ॒त्वा त्रया॑स्त्रिँशता च त्र॒भिश्व॑ श॒तैः स॒हो-
दैत्तस्मा॒द्रोहि॑ण्या पिङ्ग॒लैक॑हायन्या॒ सोम॑ क्री-
णीया॒द्य ए॒वं विव्दान्रोहि॑ण्या पिङ्ग॒लैक॑हायनन्या॒
सोम॑ क्री॒णाति॒ त्रय॑स्त्रिँशता चै॒वास्या॑ त्रि॒भिश्व॑
( 2 ) शतैः सोमः॑ क्री॒तो भ॑वति॒ सुक्री॑तेन यजते॒
ताम॒प्सु प्रावे॑शय॒न्निन्द्रा॑यो॒देहीति॒ सा रोहि॑णी
लक्ष्म॒णा प॑ष्ठौ॒ही प॑ष्ठौ॒ही रू॒पं कृत्वा त्रय॑स्त्रिँशता
च त्रि॒भिश्व॑ श॒तैः स॒होदैत्तस्मा॒द्रोहि॑णीं लक्ष्म॒णां
प॑ष्ठौ॒ही प॑ष्ठौ॒ही ददा॑ति॒ त्रय॑स्त्रिँशच्चैवास्य॒ त्रीणि॑
च श॒तानि॒ सा द॒त्ता ( 3 ) भ॒व॒ति॒ ताम॒प्सु प्रावे॑-
शयन्य॒मायो॒देहीति॒ सा जर॑ती मू॒र्खा त॑ज्जघ॒न्या
रू॒पं कृ॒त्या त्रय॑स्त्रिँशता च त्रि॒भिश्व॑ श॒तैः स॒हो-
दैत्तस्मा॒ज्जर॑तीं मू॒र्खा त॑ज्जघ॒न्याभ॑नुस्तर॑णीं कुर्वीत॒
य ए॒वं वि॒व्दाञ्जर॑तीं मू॒र्खा त॑ज्जघ॒न्याभ॑नुस्तर॑णीं
कुरू॒ते त्रय॑स्त्रिँशच्चैवास्य॒ त्रीणि॑च श॒तानि॒
साऽमुष्मिल्ँ॑ लो॒के भ॑वति॒ वागे॒व स॑हस्त्रतमी त-
स्मा॑त् ( 4 ) वरो॒ देयः॒ सा हि वर॑ स॒हस्त्र॑मस्य॒
सा द॒त्ता भ॑वति॒ तस्मा॒व्दरो॒ न प्र॑ति॒गृह्यः॒ सा हि
वरः॑ स॒हस्त्र॑मस्य॒ प्रति॑गृहीतं भवती॒यं वर॒ इति॑
ब्रूया॒दथा॒न्यां ब्रू॒यादि॒यं ममेति तथाऽस्य॒ तत्स॒हस्त्र॒-
[[2512]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- 7षष्ठकाणडे-
( सहस्त्रतम्यभिधानम् )
मप्र॑तिगृहीतं भवत्युभयतए॒नी स्या॒त्तदा॑हुरन्यतए॒नी
स्या॑त्स॒हस्त्र॑ प॒रस्ता॒देतमिति॒ यैव वरः॑ ( 5 ) क॒-
ल्या॒णी रू॒पस॑मृध्दा॒ सा स्या॒त्सा हि वरः॒ समृ॑दध्यै॒
तामुत्त॑रेणाऽऽग्नी॑ध्रं पर्या॒णीया॑ऽऽहव॒नीय॒स्यान्ते॑
देरोणकल॒शमव॑ घ्रापयेदा जि॑घ्र क॒लश॑ मह्यु॒रूध॑-
रा पय॑स्व॒त्या त्वा॑ विशा॒न्ति्वन्द॑वः समु॒द्रामि॑व॒ सि-
न्ध॑वः सा मा॑ स॒हस्त्र॒ आ भ॑ज प्रजया॑ प॒शुभिः॑
सह पुनर्भाऽऽवि॑शताद्र॒यिरिति॑ प्र॒जयैवैनं॑ प॒शुभी॑
र॒य्या सम् ( 6 ) अ॒र्ध॒य॒ति॒ प्र॒जावा॑न्पशु॒मान्र॑यि॒-
मान्भ॑वति य एवं वेद तया॑ स॒हाऽऽग्नी॑ध्रं प॒रेत्य॑
पु॒रस्ता॑त्प्र॒तीच्यां॒ तिष्ठ॑न्त्यां जुहयादु॒भा जि॑ग्यथु॒र्न
परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्व॒नैनोः॑ । इन्द्र॑श्व
विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्त्रं॒ वि तदरै॑येथा॒
मिति॑ त्रेधाविभ॒क्तं वै त्रइ॑रा॒त्रे साह॒स्त्रीमे॒-
वैनां॑ करोति साह॒स्त्रास्यैवैनां॑ मात्रा॑म् ( 7 ) क॒-
रो॒ति॒ रू॒पाणि॑ जुहोति रू॒पैरे॒वैनाँ॒ सम॑र्धयति॒
तस्या॑ उपो॒त्थाय॒ कर्ण॒मा ज॑पे॒दिडे॒ रन्तेऽदि॑ते॒ सर॑-
स्वति॒ प्रिये॒ प्रेया॑सि॒ महि॒ विश्रु॑त्ये॒तानि॑ ते अघ्निये॒
नामा॑नि सु॒कृंत॑ मा दे॒वेष॑ ब्रूता॒दिति॑ दे॒वेभ्य॑ ए॒वै-
न॒मा वे॑दय॒त्यन्वे॑नं दे॒वा बु॑ध्यन्ते ( 8 )
( ए॒तदे॒तस्यां॑ वी॒र्य॑मस्य त्रि॒भिश्व॑ द॒त्ता स॑हस्त्र॒तमी तस्मा॑देव वरः॒ सं मात्रा॒मेकान्नच॑त्वारिँशच्च॑ ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाष्टके
प्रथमप्रपाठके षष्ठोऽनुवाकः ।। 6 ।।
[[2513]]
प्रपा01अनु06 )कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
( सहस्त्रतम्यभिधानम् )
( अथ सप्तमाकाण्डे प्रथमप्रपाठके षष्ठोऽनुवाकः )।
पञ्चमेऽनुवाके त्रिरा॑त्रोऽभिहितः । अथ तत्रत्यां सहस्त्रतमीं प्पञ्चथितुमुपाख्यानं दर्शयति-
सोमो वग इति । पुरा कदाचित्सोमो गोसहस्त्रमलभत । तमनुगम्येन्द्रोऽपि तदेव गोसहस्त्रमलभत । तौ सोमेन्द्रो प्रति योमोऽपि भांग निकामयपान आगच्छत् आगत्य चात्र गोसहस्त्रे ममापि कश्विभ्दागोऽस्तित्यब्रवीत्। तावपि
तथाऽस्तित्यङ्गी कुरूतः। आदरार्थः प्लुतः। ततः स यमः परीक्ष्य तस्मिन्सहस्त्र एकस्यामुत्तमायां गवि सामर्थ्यमपश्यत्। तत इयमेकैवास्य गोसहस्त्रस्य वीर्ये विभर्तीति मनसा निश्वित्येयमेव ममास्तु यवयोरितरत्सहरूमित्यब्रवीत् ।
ततस्तो सोमेन्द्रोवेवमुक्तवन्तौ सर्वे सोमेन्द्रोपि वयं मिलित्वैतस्यामुत्तमायां गवि वीर्यं परीक्ष्य तस्यार्मशमेकैकं स्वी कुर्म इति विचार्य तथैव कृतवन्तः।।
तत्र सोमस्य प्रथममंशहरणप्रकारं दर्शयति-
तामप्स्विति। ते त्रयो सोमेन्द्रोपि मिलित्वा तामत्तमां गां सोमायोद्हित्येवं ब्रुवन्तोऽप्सु प्रावेशयन् । सोमेस्य यद्यावद्रूपं योग्यं तत्तावद्रूपं गृहीत्वा जलादुदगच्छेत्यर्थः .। ततः सा गौरप्स प्रविष्टा जलादुदगमनवेलायां तत्पर्थितं रूपं कृत्वोदगच्छत् । तदेव रूपं स्पष्टी क्रियते-रोहिणी शरीरे लोहितवर्णा पिङ्गला पिङ्गलाक्ष्येकहायन्येकसंवत्सरवयस्का, ईदृशी सती लावण्येपेतं रूपं च कृत्वा गवामन्यासां त्रयस्त्रिंशत्संख्यया
शतत्रयसंख्यया च सह जलादुदगच्छत् । यस्मात्सोमार्थ रोहिण्यादिरूपं धृतवती तस्माद्रोहिण्यैकहायन्या पिङ्गलाक्ष्या
सोमं क्रीणीयात् तया क्रीतः सोमस्त्रयस्त्रशदधिकेन शतत्रयेण क्रीतो भवति । ततः सुक्रीतेन सोमोनासौ यजते ।।
अथेन्द्रस्य तदीयांशहरणप्रकारं दर्शयति-
तामिति। पूर्ववदव्याख्येयम् लक्ष्यणा शृङ्गपुच्छद्यवयवसौष्ठवयोग्यलक्षणोपेता। प्रयोदैत्तस्मादीदृशीमेव दक्षिणात्वेन दद्यात् ।।
अथ यमस्य तदीयांशहरणप्रकारं दर्शयति-
तामप्सु प्रावेशयन्निति। जरती वृध्दा । मूर्खा रोषणाशीला । सैव ज-
1 क.घ.ड.च. 0लक्ष्यणो0 ।
[[2514]]
This Page will be upload soon
[[2515]]
This page will be upload soon
[[2516]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- 7षष्ठकाणडे-
( सहस्त्रतम्यभिधानम् )
तस्या उपोत्थायेति । तस्या गोः कर्णसमीपं प्रत्युपस्थितो भूत्वा वक्ष्यमाणं मन्वं जपेत् ।।
तमिमं मन्त्र दर्शयति-
इंडे रन्तेऽदित इति केनापि न हन्यत इत्यघ्निया गौः हेऽघ्यिये, इडादीनि तव नामानि । अतस्तैर्नामभिरिह संबोध्यते । एतादृशी त्वं देवेषु मध्ये मां यजमानं सुकृतं पुण्यकृतं बूहि ।।
मानत्रस्य तात्पर्यं दर्शयति-
देवेभ्य इति। एतन्मन्त्रपाठेनेयं गौर्देवेभ्य एवैनं यजमानमावेदयति। ते च देवा एनं यजमानं पुण्यकार्णं जानन्ति ।।
इतिश्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाष्टके
प्रथमप्रपाठके षष्ठोऽनुवाकः ।। 6 ।।