०५

(( अथ सप्तमाष्टके प्रथमप्रपाठके पञ्चमोऽनुवाकः ) ।
आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सीत्तस्मि॑न्प्र॒जाप॑
1 क.ख.घ.ड.च. 0स्तु नैव प्रो0 । 2 च. 0 र्थवादत्वात् ।

[[2505]]

प्रपा01अनु04 )कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
( गर्गत्रिरात्राभिधानम् )
तिर्वा॒युर्भ॒त्वाऽच॑र॒त्स इ॒माम॑पस्य॒त्तां व॑राहो भूत्वाऽ–
ह॑र॒त्तां विश्ववक॑र्मा भू॒त्वा व्य॑मा॒र्ट्साऽप्र॑थ॒त सा
पृ॑थि॒व्य॑भव॒त्तत्पृ॑थि॒व्यै पृ॑थिवि॒त्वं तस्मा॑ममश्राम्यत्प्र॒-
जाप॑तिः स दे॒वान॑सृजत॒ वसू॑न्रूद्राना॑दि॒त्यान्ते दे॒वाः
प्र॒जाप॑तिमब्रव॒न्प्र जा॑यामहा॒ इति॒ सो॑ऽब्रवीत् (1)
यथा॒ऽहं यु॒ष्माँस्त॒पसाऽस॑क्ष्ये॒वं॒ तप॑सि प्र॒जन॑न-
मिच्छध्व॒मिति॒ तेभ्योऽग्निमा॒यत॑नं॒ प्रय॑च्छदे॒ताना॒-
ऽऽयत॑नेन श्राम्य॒तेति॒ ते॑ऽग्निनाऽऽयत॑नेन श्राम्य॒तेति॒
स॑वत्स॒र एका॒ गाम॑सृजन्त॒ तां वसु॑भ्यो रू॒देभ्य॑
आदि॒त्येभ्यः॒ प्राय॑च्छन्ने॒ताँ र॑क्षध्व॒मिति॒ तां
वस॑वो रू॒दा आदित्या अ॑रक्षन्त॒ सा वसु॑भ्यो रू-
द्रेभ्य॑ आदि॒त्येभ्यः॒ प्राजा॑यत॒ त्रीणि॑ च ( 2 )
श॒तानि॒ त्रय॑स्त्रिँशतं॒ चाथ॒ सैव स॑हस्त्रत॒म्य॑भव॒त्ते
दे॒वाः प्र॒जाप॑तिमब्रुवन्त्स॒हस्त्रे॑ण नो याज॒येति॒ सो॑ऽ–
ग्निष्टो॒मेन॒ वसू॑नयाजय॒त्त इ॒मं लो॒कम॑जय॒न्तच्चा॑-
ददुः॒ स उ॒क्ये॑न सो॑ऽतिरा॒त्रेणा॑ऽऽदि॒त्यान॑याजय॒त्ते॑ऽमुं
लो॒कम॑जय॒न्तच्चा॑ददुस्तद॒रि॑क्षम् ( 3 ) व्यवै-
र्यत॒ तस्मा॑दुद्रा घातु॑का अनायत॒ना हि तस्मा॑दाहुः
शिंथि॒लं वै म॑ध्य॒ममह॑स्त्रिरा॒त्रस्य॒ वि हि तद॒वैर्य॒-
तेति॒ त्रैष्टु॑भं मध्य॒मस्याह॒ आज्यं॑ भवति सं॒यानाृ
नि सूक्तानि॑ शँसति षोड॒शिनँ॑ शँस॒त्यह्नो॒
धृत्या॒ अशिथिलंभावाय॒ तस्मा॑त्त्रिरा॒त्रस्या॑ग्निष्टो॒म
ए॒व प्र॑थ॒महः॑ स्या॒दथोक्थोऽथा॑तिरा॒त्र ए॒षां

[[2506]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- 7षष्ठकाणडे-
( गर्भवत्रिरात्राभिधानम् )
लो॒कानां॒ विधृ॑त्यै॒ त्रीण॑त्रीणि श॒तान्य॑नूचीना॒ह-
मव्य॑वच्छिन्नानि ददाति ( 4 ) ए॒षां लो॒कानामनु॒
संत॑त्यै द॒शतं॒ न वि च्छ॑न्द्याद्विराजं॒ नेद्वि॑च्छि॒न-
दा॒नीत्यथ॒ या स॑हस्त्रत॒म्यासी॒त्तस्या॒मिन्द्र॑श्व॒ वि-
ष्णु॑श्व॒ व्याय॑च्छेताँ स इन्द्रो॑ऽमन्यता॒नया॒ वा
इ॒दं विष्णुः॑ स॒हस्त्रं॑ वर्क्ष्यत॒ इति॒ तस्या॑मकल्पेतां॒
द्विभा॑ग॒ इन्द्र॒स्तृती॑ये॒ विष्णु॒स्तव्दा ए॒षाऽभ्यनू॑च्यात
उभा जि॑ग्यथु॒रिति॒ तां वा ए॒ताम॑च्छावा॒कः ( 5 )
ए॒व शँ॑स॒त्यथ॒ या सह॑स्त्रत॒मी सा होत्रे॒ देयेति॒
होता॑रं॒ वा अ॒भ्यति॑रिच्यते॒ यदा॑तिरिच्य॑ते॒ होताऽ–
ना॑प्तस्याऽऽपयि॒ताऽथा॑ऽऽहुरून्ने॒त्रे देयेत्यति॑र्क्ता॒ वा
ए॒षा सहस्त्रस्याति॑रिक्त उन्ने॒तत्वि॑जा॒मथा॑ऽऽहुः॒
सर्वे॑भ्यः सद॒स्ये॑भ्यो॒ देयेत्यथा॑ऽऽहरूदा॒कृत्या॒ सा
वशं॑ चरे॒दित्यथाऽऽर्ब्रह्मणे॑ चा॒ग्नीधे॑ च॒ देयेति॑
( 6 ) द्विभांगं ब्रा॒ह्मणे॒ तृती॑यम॒ग्नीध॑ ऐ॒न्द्रो वै
ब्र॒ह्मा वै॑ष्ण॒वो॑ऽनीद्यथै॒व तावक॑ल्पेता॒मित्यथा॑ऽऽ-
हुर्या क॑ल्या॒णी ब॑हुरू॒पा सा देयेत्यथा॑ऽऽहुर्या द्वि॑-
रू॒पोभ॒यत॑एनी॒ सा देयेति॑ स॒हस्त्र॑स्य॒ परि॑गृहित्यै
तव्दा ए॒तत्स॒हस्त्र॒स्याय॑नँ स॒हस्त्रँ॑ स्तो॒त्रीयाः॑
स॒हस्त्रं॒ दक्षि॑णाः स॒हस्त्र॑संमितः सुव॒र्गो लो॒कः सु॑व॒-
र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ( 7 ) ।।
( अ॒ब्र॒वी॒च्च॒ तद॒न्तरि॑क्षं ददात्यच्छावा॒कश्व॒ देयेति॑
स॒प्तच॑त्वारिँ॒शच्च ) ।

[[2507]]

प्रपा01अनु05 )कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
( गर्गत्रिरात्राभिधानम् )
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाष्टके
प्रथमप्रपाठके पञ्चमोऽनुवाकः ।। 5 ।।
( अथ सप्तमाष्टके प्रथमप्रपाठके पञ्चमोऽनुवाकः ) ।
चतुर्थे द्विरात्रोऽभिहितः । अथ त्रिरात्रं विधातुं काचिदारव्यायिकोच्यते ।
तस्यां चाऽऽख्यायिकायामादौ पृथिव्युपत्तिं दर्शयति-
आपो वा इति। इदिमितीदानीं दृश्यमानं गिरिनदीसमुद्रादिकं
जगत्पृथिव्युत्पत्तेः पूर्वे सलिलमासीत्। तस्मिन्नेव सलिले केवला आप एव नतु भूतान्तरं तत्कार्ये वा किंचिदपि नाऽऽसीत् । तदानीं प्रजापतिमूर्तस्य शरीरस्यावस्थातुं
स्थानाभावाव्दायुरूपो भूत्या तसमिन्सलेले सर्वत्राचरत्। चरित्वा च सलिले निमग्नां भूमिं दृष्ट्वा स्वयं वरहो भूत्वा दंष्ट्रग्रेण तां भूमिं जलस्योपर्याहरत्।
आहत्य च वराहरूपमुत्सृज्य विश्वकर्मा भूत्वा विशेषेण मार्जनं कृत्वा तत्रत्यं द्रवमपनीय तां विस्तारितवान् । तत इयं दृश्यमाना सर्वप्राम्याधारभूता पृथिव्यभवत् । प्रथनादेव पृथिवीनाम संपन्नम् ।।
अथ देवसृष्टिं गोसृष्ठि च क्रमेण दर्शयति-
तस्यमिति । तस्यां भूमौ स प्रजापतिः स्वेनैव शरीरेणावस्थाम सिसृक्षु- रश्राम्यत्तपंः कृतवान्। तस्माच्च तपःसामर्थ्यात्रीन्वस्वादिदेवगणानसृजत । ते च
वस्वादयः प्रजापतिं प्रतिप्रजोत्पादनोपायं पप्रच्छः ।
स च प्रजापतिर्मव्दत्तपसि कृते सति पश्वाद्यूयमुत्पादनमिच्छतेत्युक्तत्वा होमाख्यस्य तंपस आधारभूतमग्निं दत्वा तेनग्निना होमलक्षणं तपः कुरूतेत्युक्तवान् । तेच संवत्सरं तथा कृत्वा तदन्ते सर्वेऽप्येकां गामसृजन्त । तां च गां स प्रजापतिर्वसुभ्यो रक्षणार्थ दत्त-
वान्। सा च रक्षिती सती वस्वर्थे गवां शतत्रयं त्रयस्त्रिंशतं चोत्पादयामास। ततः प्रजापतिस्तोमेव गां रूद्रेभ्यो दत्तवान।
रूद्रार्थमपि सा तथैवोत्पादयामास।
एवमादित्यार्थमप्युपादयामास । तमिमं ( दिदं ) पर्यायत्रयं संगृद्य श्रुतिरेकेनैव वाक्येनोदाजहार। तत्र त्रेधा वाक्यं विभाज्य योजयितव्यर्म् एवं सत्यकोन- सहस्त्रं गवां संपन्नम्।
येयं सहस्त्रतमी गौः सेयं सहस्त्रसंख्यापूरण्यभवत् ।।
अतः सहस्त्रदक्षिणाकेन त्रिरात्रयागेन(ण) याजनं दर्शयति-
ते देवा इति। वसुरूदादित्याः सर्वे मिलित्वा गोसहस्त्रदक्षिणाकयज्ञार्थे

[[2508]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- 7षष्ठकाणडे-
( गर्गात्रिरात्राभिधानम् )
प्रजापतिं पर्थयामासुः। स च प्रजापतिर्देवगणत्रयं विभज्य त्रिषु दिनेषु क्रमादग्निष्टोमोक्थयातिरात्रैयांजितवान् व्दादशस्तोत्रेऽग्निष्टोमः। पञ्चदशस्तोत्र उक्थ्यः।
एकोनत्रिंशत्स्तोत्रोऽतिरात्रः। ते च तैर्लोकत्रयमजयन् । स्वकीयंत्वकीयं तत्तव्दोधनं च दक्षिणार्थमृत्विग्मयो दत्तवन्तः।।
अथोक्थ्यरूपे मध्यमेऽहनि कांश्विच्छंसनविशेषान्विधत्ते-
तदन्तरिक्षमिति। यदन्तरिक्षं रूद्रैर्जितं व्यवैर्यत विशीर्णमभूते। गृहरूपं लोकसंस्थानं भग्नमभूदित्यर्थः। तस्माद्रदाणामायतनमन्तरिक्षलोकस्थानं विशीर्णमभूत्तस्मादायतनाभावाद्रदाः कोपाविष्टाः सन्तः
सर्वत्र प्राणिघातिनोऽभवन्। यस्मात्फलभूतमन्तरिक्षं
विशीर्णमभूत्तस्मात्तत्साधनमात्रं त्रिरात्रयागस्य मध्यममहः
केनापि वैकल्पेन शिथिलमित्येवमभिज्ञा आहुः। तस्मान्मध्यमस्याहूनो दाढर्येन शौथिल्यपरिहाराय कानिचिच्छस्त्राण्यनुष्ठेनि। त्रिष्टुप्छन्दस्कायामृच्युत्पन्नं
त्रैष्टुभं होतुराज्यशस्त्रं शैसनीयम्। तथा संयानाख्यानि
दाशतय्यां प्रसिध्दानि सूक्तानि शंसेत् । तथा षोडश्याख्यमपि
श्स्त्रं शंसेत् ।।
इत्थमाख्यायिकां प्रस्तुत्य मध्यमे विशेषांश्व विधाय त्रिरात्रयागस्याहर्विशेषान्विधत्ते-
तस्मादिति। यस्माद्विभिहस्त्रयेण लोकत्रयजयायाहस्त्रयसंघातरूपमनुष्ठितं तस्मात्रिरात्रयागमनुतिष्ठेदित्यर्थः ।।
यदुक्त सूत्रकारेण –‘ सहस्त्र दक्षिणास्त्रीणि शतानि त्रयस्त्रिंशतं च प्रथमेऽहनि ददात्येवं द्वितीये तृतीये च सहस्त्रयतिरिच्यते ’ इति, तददिं विश्वत्ते-
त्रीणित्रीणीति। अनुक्रमेणाञ्चति प्रवर्तते इत्यनूचीनं तादृशं च तदहश्वानूचीनाहं प्रतिदिनमित्यर्थः प्रतिदिनमविच्छिन्नानि
यथा भवन्ति तथा त्रीणि त्रीणि शतानि ददाति। त्रयस्त्रिंशत्संख्यामा अप्येतदुपलक्षणम्। तथा सत्ये-
कैकस्मिन्दने त्रयस्त्रिंशदधिकं गवां शतत्रयं दद्यादित्यर्थे भवति। एतच्च लोकानां भरादीनां संत्त्यै भवति ।।
यदुक्त सूत्रकारेण-‘ दक्षिणानयने न्यूना दशधा नयेत् ’इति, तदेतद्विधत्ते-
दशतं नेति । दशानां वर्गो दशत्तस्य वर्गस्य विछ्छेवं न कुर्यात्। वेदेर्द-
1 ख.छ.0त.खपहारू0।

[[2509]]

प्रपा01अनु05 )कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
( गर्गत्रिरात्राभिधानम् )
क्षिणस्यां दिश्यवस्थिता गाः प्राग्वंशसदसोर्मध्येन यदोत्तरस्यां दिशि दक्षिणार्थ नयति तदानीमेकैकं दशकं सहेव नयेत्। नतु दशतो न्यूनं नयेत् । दशंसंख्याया विराडरूरत्वात् विराजं नैव विच्छन्नां करोमीति नेतरभिप्रायः। यत्त त्रिंशत उपरि त्रयमधकं तदपि चरम्ण सह नयेत् । न्यूनत्वस्यैवात्र (दशधेति) विधानातं।।
एवमेकोनसहस्त्रं त्रिषु दिनेषु सति सहस्त्रतमी परिशष्यते। तद्दानं तु बहुधा वकल्पितं प्रदर्शयितुं प्रस्तौति-
अथ येति। क्ऌप्तिः कल्पनं, त॑यैव क्ऌप्त्या तस्यां सहस्त्रतम्यां गवि निमित्तभूतायां ममैवयं भूयादित्येवमिन्द्रश्व विष्णुश्व परस्परं कलहं कुरूतः । तदानीमिन्द्रो मनस्येवमंचिन्तयत्- तां गां गृहीत्वा विष्णुरनया गवा सहस्त्रमिदं सर्व मां वर्जयित्वा स्वाधीनं करिष्यति, तसामान्मये(य्ये) वाधिकेन भागेन भवितव्यमिति।
ततस्तावुमभो तस्या गव्यकल्पेतां व्यवस्थां कृतवन्तो। इन्द्रो
द्विभागे व्यवस्थितः। विष्णुस्तुतीये भोग व्यवस्थितः । तदेतम्रथमभिलक्ष्य काचिदृग्वेदेऽप्यृगनूच्यते। सा च भागत्रयप्रतिपादिका। तस्याश्व प्रतीकम् ‘ उभा जिग्यथुः’ इत्येत्तत् । इयं चोपरितन्ऽनुवाकं समान्नास्यते ।।
अथैतस्या ऋचः शंसननियमं वधत्ते-
तां वेति। विकल्पितेषु दानपेक्षेषु प्रथमं पक्षमाह-
अथ येति । प्रतिदिनं त्रयस्त्रिंशदधिकशतत्रये साम्येन दत्ते सति सेयं सहस्त्रम्यरिच्यते। यत्तु द्रव्यं यागेऽतिरिक्तं भवति तत्सर्वे होतारमभलक्ष्यैवातिरिच्यते। होता ह्यनाप्यस्य सर्वस्य फलस्य प्रपायिता। तस्माध्दोत्रे सहस्त्रतमी देयेत्याद्यः पक्षः।।
व्दतीयं पक्षं दर्शयति-
अथाऽऽहुरिति। एषा गौः सहस्त्रस्य मध्येऽतिरिक्तवीर्या। उन्न्ताऽप्युत्विजां मध्येऽतिरिक्तवीर्यः । अत एव हि हारियोजनभक्षे श्रूयते—‘ उन्नेतर्युपहवमिच्छन्ते ’ इति। तस्मादियमुन्नेवे देयेत्येवं केचिदाहुः ।।
तृतीयं पक्षं दर्शयति-
अथाऽऽहुः सर्वेभ्य इति । अत्रोपपत्तिर्बहिरेव द्रष्टया। ‘यावन्तो वै सदम्यानस्ते सर्वे दक्षिण्याः ’इत्यन्यत्राऽऽम्नातम् ।तस्मात्सदस्येभ्यो देया।।
1 क.ड. तथैव।

[[2510]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- 7षष्ठकाणडे-
( सहस्त्रतम्यभिधानम् )
चतुर्थे पक्षं दर्शयति-
अथेति । अत्राप्यपपत्तिः पूर्ववत्। दिनत्रये विभागसाम्येन दक्षिणा दत्ता। इयं चैका भागवैषम्यं च न युक्कम्। अतो यज्ञभूमेरूव्दतां कृत्वा स्ववशेत्वेन यथा चरति तथा कुर्यात् ।।
पञ्चमं पक्षं दर्शयति-
अथाऽऽहुब्रर्ह्मण इति। इन्द्रस्य विष्णोश्व या भागक्ऌप्तितव्दत्तदीययो- ब्रह्माग्नीध्रोर्देया ।।
षष्ठ पक्ष दर्शयति-
अथाऽऽहुर्येति। इथं वै सहस्त्रतमी न कस्मैचिद्देया। किं त्वतत्प्रातिनिधिरूपा या काचित्कल्याणी बहुक्षीरादिगुणवती विचित्रवर्णा सा दातव्या ।।
सप्तमं पक्षं दर्शयति-
अथाऽऽहुर्येति। या गौः शुक्लकृष्णवर्णाभ्यामुपेतत्वेन द्विरूपा, पारश्वव्दये शुक्लकेशोपतेत्वादुभयत एनी, सहस्त्रसंख्यापूर्त्यर्थं तादृशी काचिद्देया ।।
तददिं सहस्त्रदानोपेतं कर्म प्रशंसति-
तव्दा एतदिति। त्रिरात्राख्यं यत्कर्मोक्तं तदेतत्सहस्त्रसंख्याकफलस्य प्राप्तिहेतुः। यस्मादव त्रिषु दिनेषु मिलित्वा स्तोत्रीया ऋचः सहस्त्रं विद्यन्ते, दक्षिणाशेवोक्तरीत्या सहस्त्रं गावः, स्वर्गलोकश्व सुखधिक्यादभूलोकसहस्त्रेण समानः,( तस्मात ) तादृश्स्य स्वर्गस्याभिजयायेदं कर्म योग्यम् ।।
इतिश्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाष्टके
प्रथमप्रपाठके पञ्चमोऽनुवाकः ।। 5 ।।