( उत्त॑रेण रथंत॒रं पूर्वेऽन्वेक॑विँशतिश्व )
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाष्टके
प्रथमप्रपाठके चतुर्थेऽनुवाकः ।। 4 ।।
( अथ सप्तमाष्टके प्रथमप्रपाठके चतुर्थेऽनुवाकः ) ।
तृतीयानावके सर्वस्तोमोतिरात्र उक्तः। सचैकाह इति सर्वेऽप्येकाहा एते-
नोपलक्षिताः। अथाहीना द्विरात्रादयः क्रमेपणोच्यन्ते। चत्वारो हि द्विरात्र भेदाः तत्र व्यष्टिद्विरात्रो विहितः ।
अथाङ्गिरसां द्विरात्रो राज्ञां विधीयते-
अङ्गिरसो वा इति । अङ्गिरसो महर्षयो यदा सत्रमनुष्ठाय स्वर्गं प्राप्तास्त-
दानीं तेषा मद्ये हविष्मान्हविष्कृदित्यतौ पुरूषावनुष्ठानेन स्वर्गतावपि हीनौ स्या
(नानभव) ताम् । तौ पुनः स्वर्गप्राप्तिं कामयानौ द्विरात्राख्यं यागं तत्साध-
नत्वेन निश्वत्य तृतीयां सामर्गीं संपाद्य तदनुष्ठानेन स्वर्गं प्रप्तौ ।
अतोऽन्योऽषि स्वर्गंप्रप्ते द्विरात्रेण यजेत।
अथाहर्विशेषं विधत्ते –
तावैतामिति । तौ हविष्पध्दविष्कृन्नामानावृषी द्विरात्रगतेन पूर्वेणाह्ना स्वर्ग प्रविष्टौ । अत्र सर्वत्राहःशब्देनैकदिनसाध्यस्तोमप्रयोग उपलक्ष्ये। अभिप्ल-
वाख्यः कश्वित्षडहयागविशेषः । तस्य च प्रथमदिने ज्योतिष्टोमप्रथमसंस्थारूपोऽग्निष्टोमो विहितोऽस्ति ।
स एवात्राभिप्लवशब्देनोपलक्ष्यते । सोऽत्र पूर्वमहर्भ-
1 क. ख. ङ. च. 0ष्टोमः प्र0 ।
[[2502]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- 7षष्ठकाणडे-
( आङ्गिरसद्विरात्राहीनविधिकथनम् )
वति पूर्वदिनेऽनुष्ठेय इत्यर्थः । गम्यते स्वर्गो येनातिरात्रेण
सोऽयमतिरात्रविशेषो गतिः। स च गतिरूत्तरमहर्भवति, द्वितीयेदिने सोऽतिरात्रोऽनुष्ठेय इत्यार्थः।
उक्तार्थस्पष्टीकरणव्दारेण स्तोमविशेषान्विधते-
ज्योतिष्टाम इति। अत्र ब्रह्मवादिनश्वोदयन्ति- अत्र व्द्यमाने व्दे
एवाहनी, तयोः पूर्वस्मिन्गायत्र्यामुत्पन्नं साम गीतं, तदुत्तरस्मिंस्तु त्रिष्टुभ्युत्पन्नं साम गीतं, न
ह्यात्र तृतीयचतुर्थे अहनी विद्यते । ततो जगत्यनुष्टुभौ व्दाववतिष्ठेते इति ।
तत्राभिज्ञाःसामान्तरविधानमुखेनोत्तरमाहुः
यदबृहत्यामूच्युत्पन्नं वैखानसाख्यं साम तत्पूर्वदिने गायेत्।
बृहती चष्ट्त्रिंशदक्षरा सती चतुर्वास्मावर्त्यमाना जगती-
त्रयं संपद्यते। अष्टाचत्वारिंशदक्षराणंजगतीनां तिसृणामक्षरसंख्यया बृहतीचतुष्टसमानत्वात्।
तेन वैखानससाम्नाऽयं द्विरात्रयागो जगत्याः सकाशान्ना-
पैति। षोडशिशब्देन षोडशस्तोत्रे गीयमानं गौरिवीताक्यं सामोच्यते । तच्चो-
- ख. ङ. च. 0मेन नि0 ।
[[2503]]
प्रपा01अनु04 )कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
( आङ्गिरसद्विरात्राहीनविधिकथनम् )
त्तरेऽहनि गायेत् । तदाधारभूतामृचमवलम्ब्य पूर्ववदनुष्टुभं
संपादयेत् तेन षोडशी (शि)
साम्नाऽयं द्विरात्रोऽनुष्टुभः सकाशान्नापैति ।।
अथ दिनव्दयस्य पक्षव्यवस्थां विधत्ते-
अथाऽऽहुरिति ।शुक्लः कृष्णो वैक एव पक्षः समानोऽर्धमासः।तस्मिन्नेव यद्यभे अहनी स्यतां तदानीमेकपक्षगतत्वादकेस्याहनो याव्दीर्ये तावेव भवेत्।
इतरस्य वीर्यें तु लुप्येत। अतः कृष्णपक्षस्यान्तिमदिने प्रथममहः कर्तव्यम्।
शुक्लपक्षस्य प्रथमदिने द्वितीयमहः । एवं सति भिन्नार्धमासवर्तित्वाभ्दिन्नवीर्ये भवतः ।।
अथ दिनभेदेन निधनविशेषं विधत्ते-
हविष्मन्निति । पञ्चधा विभक्तस्य सान्नः पञ्चमभागो निधनम्
हविष्मच्छब्दरूपं
निधनं यस्मिन्नहनि तध्दविष्मन्निधनं, पूर्वदिने हविष्मदितिशब्दः
प्रयोक्तव्य इत्यर्थः। एवमितरत्रापि। उत्तरस्मिन्नहनि हविष्कृच्छब्द इत्यर्थः।
निधनयोद्वित्वात्पादसद्दशत्वेन प्रतिष्ठित्यै संपद्यते ।
अत्र मीमांसा-
दशमाध्यायस्य पञ्चमपादे चतुर्थविकरणे चिन्तिततम्-
द्विरात्रादौ व्दादशाहप्रायणीयादिकः क्रमः।
आद्यन्तौ वर्जयित्वा वा विशेषाभावतोऽग्रिमः ।।
व्दादशाहे व्दतीयस्य द्विरात्रे प्रथमत्वतः ।
जागतस्यान्तरायाच्च विध्यन्तो दशरात्रगः ।।
अहिनिरूपस्य व्दादशाहस्य विकृतयो द्विरात्रत्रिरात्रादयः।
तेषु किं व्दादशाहस्य
प्रथममहः प्रायणीयसंकमारभ्य क्रमेण विध्यन्तः प्रवर्तते, किंवा प्रायणीयोद्य-
नीयावाद्यन्तौ वर्जयित्वा तन्मध्यगतस्य विध्यन्तः प्रवर्तत इति
संशयः । ईद्दशमहरूपादेयमद्दिशं वर्जनीयमिति विशेषनियामकाभावादादित आरभ्य प्रवर्तत
इति पूर्वः पक्षः। द्विरात्रं प्रकृत्यैवमान्नायते – ‘ यत्प्रथमं तद्द्वितीयं यद्द्वितीयं
तत्तृतीयम् ’इति। अयमर्थः- द्विरात्रस्य यत्प्रथममहरनुष्ठेयं
तद्द्वितीयं द्वितीयमिति। एवमुत्तरत्रापि योज्यम्। तदेतत्प्रणीयवर्जने लिङ्गम्
तथा जगतीमन्तय्रन्तीति जागतस्याहनोऽन्तराय आम्नायते। तच्च वर्जने लिङ्गम्। एवमादिभिर्लिङ्गैरूभयं वर्जयित्वाऽवशिष्टो विध्यन्तो यत्र यावानपेक्षितस्तत्र
तावान्प्रवर्तयितव्य इत्यवगन्तव्यम् ।।
[[2504]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- 7षष्ठकाणडे-
( गर्भवत्रिरात्राभिधानम् )
तत्रैव त्रयोदशाधिकरणेऽन्यच्चिन्तितम्-
द्विरात्रेऽङ्गिरसां षोडश्यप्राप्तः किं व्धीयते।
परिसंख्यायते वाऽऽद्यश्वोदकाच्छीप्रबुध्दीतः।
अनारभ्यविधेः प्रप्तौ परिसंख्याऽतिदेशतः।
विकल्पोऽन्याद्विरात्रेषु प्रोक्तं वृत्तिकृतो मतम्।।
सन्ति बहवो द्विरात्रः। तेष्वङ्गिरसां द्विरात्रे श्रूयते-
‘ वैखानसं पूर्वेऽहन्त्साम भवति, षोडश्युतरे ’ इति ।
सोऽयं षोडस्यप्राप्तः सन्विधीयते। न च
चोदकात्प्राप्तिः शङ्कनीया प्रत्यक्षवचनस्य शीघ्रभुवतेः।
चोदको ह्यानुमानिकत्वेन विलम्बित इति प्राप्ते ब्रूमः-
मा भूच्चोदकः। अस्ति ह्यानारम्याधीतं प्रत्यक्षं विध्यन्तरम्
‘ उत्तरेऽहन्द्विरात्रस्य गृह्यते ’ इति। तेषु (न) सर्वेषु
द्विरात्रेषु प्राप्तः सन्नङ्गिरसां द्विरात्र एव नान्येषु द्विरात्रेष्विति
परिसंख्यायते।
ततोऽङ्गिरसां द्विरात्रे नियमेन षोडशी गृह्यत इतरेष्वतिरात्रविकृतित्वेनातिदेशाद्विकल्प्यते । तदेतदवृत्तिकारमतम् ।।
तत्रैव भाष्यकारमतेनाऽऽरचयति-
परिसंख्या पूर्वपक्षे(क्षो) न सा युक्ता विदोषतः।
प्राप्तस्यान्या(स्यैवा) नुवादिन विधेये सा न शक्यते।।
वृतिकारस्य सिध्दान्तरूपा या परिसंख्या सैव भाष्यकारमते पूर्वः पक्षः ।
सिध्दान्तस्तु॑ षोडश्युत्तर इत्ययं विधिरेव न भवति।
विधित्सितवैखानससामवाक्यशेषत्वेनार्थवेत्तवात ।
अतः परिसंख्या दोषत्रयोपेता नात्र कल्पनीया।
प्राप्तस्य विध्यर्थस्य परित्यागः। अप्राप्तस्य निषेधास्य स्वीकारः। अन्यत्र प्राप्तस्य बाध इति दोषत्रयम् ।।
इतिश्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां सप्तमाष्टके
प्रथमप्रपाठके चतुर्थेऽनुवाकः ।। 4 ।।