प्रपा01अनु03 )कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
( आङ्गिरसद्विरात्राहीनविधिकथनम् )
जग॑त्यै॒ नैति॑ षोड॒श्यत्त॑रे तेना॑नुष्टुभोऽथा॑ऽऽहु॒र्य-
त्स॑मा॒ने॑ऽर्धमा॒से स्याता॑मन्यत॒रस्याह्नो॑ वीर्यमनु॑ पद्ये-
तेत्य॑मावा॒स्या॑यां पूर्व॒मह॑र्भव॒त्युत्त॑रस्मि॒न्नत्त॑रं नानै॒-
वार्ध॑मा॒सयो॑भंवतो॒ नाना॑वीर्ये भवतो ह॒विष्म॑-
न्निधनं॒ पूर्वमह॑भवति हविष्कृन्नि॑धन॒मुत्त॑रं॒ प्रति॑-
ष्ठित्यै ( 3 ) ।