०९

( अथ षष्ठाष्टके चतुर्थप्रपाठके नवमोऽनुवाकः )
य॒ज्ञस्य॒ शिरो॑ऽच्छिद्यत॒ ते दे॒वा अश्वना॑वब्रुव-
न्भिषजौ॒ वै स्थ॑ इ॒दं यज्ञ॒स्य॒ शिरः प्रति॑ धत्त॒मिति॒
ताव॑ब्रूतां॒ वरं॑ वृणावहै॒ ग्रह॑ ए॒व ना॒वत्रापि॑ गृह्यता॒-
मिति॒ ताभ्या॑मेतमा॑श्वि॒नम॑गृह्न॒न्ततो॒ वो तौ य॒ज्ञस्य॒
शिरः॒ प्रत्य॑धत्तां यादा॑श्विनो गृ॒ह्यते॑ य॒ज्ञस्य॒ निष्कृ॑त्यै॒
तो दे॒वा अ॑ब्रुव॒न्नपू॑तौ वा इ॒मौ म॑नुष्यच॒रौ ( 1 )
भि॒षजा॒विति॒ तस्मा॑व्दाह्न॒णेन॑ भेष॒जं न का॒र्य॑मपू॑तो॒
ह्ये॑षो॑ऽमे॒ध्यो यो भि॒षक्तौ ब॑हिष्पवमानेन॑ पव-
यि॒त्वा ताभ्या॑मेतमा॑श्वि॒नम॑गृह॒णन्तस्यमा॑व्दहिष्पमा॒ने
स्तु॒त आ॑श्वि॒नो गृ॑ह्यते॒ तस्मा॑दे॒व विदुषा॑ बहिष्प-
वमा॒न उ॑प॒सद्यः॑ प॒वित्रं॒ वै ब॑हिष्पवमा॒ण आ॒त्मान॑-
मे॒व प॑वयते॒ तयो॑स्त्रेधा भैष॑ज्यं वि न्य॑दधुर॒ग्नौ तृती॑-
यम॒प्सु तृती॑यं ब्राह्न॒णे तृतीयं॒ तस्मा॑दुदपात्रम् ( 2 )
उ॒प॒नि॒धाय॑ ब्राह्म॒णं द॑क्षिण॒तो नि॒षाद्य॑ भेष॒जं कु॑र्या-
द्याव॑दे॒व भे॑ष॒जं तेन॑ करोति स॒मर्धु॑कमस्य कृ॒तं
भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा॑त्स॒त्यादे॑कपात्रा
द्विदे॒वत्या॑ गृ॒ह्यन्ते॑ द्विपात्रा॑ हूयन्त॒ इति॒ यदेक॑पात्रा
गृ॒ह्यन्ते॒ तस्मा॒देको॑ऽन्तर॒तः प्रा॒णो द्वि॒पात्रा॑ हूयन्ते॒
तस्माद्यौव्दौ॑ ब॒हिष्ठा॑त्प्राणाः प्रा॒णा वा ए॒ते यद्दि॑दे-
व॒त्याः॑ प॒शव॒ इडा॒ यदिडां॒ पूर्वा॑ द्विदेव॒त्ये॑भ्य उप॒-

[[2453]]

प्रपा 0 4 अनु0 10) कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां।
(शुक्रामन्थिग्रहकथनम् )
ह्वये॑त ( 3 ) प॒शुभिः॑ प्रा॒णान॒न्तर्द॑धीत प्रमायु॑कः
स्याद्दिदेवत्या॑न्भक्षयित्वेडा॒मुप॑ ह्वयते प्राणाने॒वा ऽ ऽ-
त्वन्धि॒त्वा प॒शूनुप॑ ह्वयते॒ वाग्वा ऎ॑न्द्रवाय॒वश्वक्षु॑र्मै-
त्रावरू॒णः श्रोत्र॑माश्वि॒नः पु॒रस्ता॑दैन्द्रवाय॒वं भ॑क्ष-
क्षति॒ तस्मा॑त्पु॒स्ता॑व्दाचा व॑दति पुस्ता॑न्मैत्रावरू॒ण
तस्मा॑त्पुस्ताच्चक्षु॑षा पशयति स॒र्वतः परिहा॒र॑मा-
श्वि॒नं तस्मा॑त्स॒र्वतः श्रोक्षत्रे॑ण शृणोति प्रा॒णा वा
ए॒ते यद्वि॑दवे॒त्याः॑ ( 4 ) अरि॑क्तानि॒ पात्रा॑णि
सादयति॒ तस्मा॒दरि॑क्ता अन्तर॒तः प्रा॒णा यतः॒ खलु॒
वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञ ं्
रक्षा॒-
ँस्यव॑ चरन्ति॒ यदरि॑क्तानि॒ पात्रा॑मि सा॒दय॑ति
क्रि॒यमा॑णमे॒व तद्य॒ज्ञस्य॑ शये॒ रक्ष॑सा॒मन॑न्ववचाराय॒
दक्षि॑णस्य हवि॒र्धान॒स्योत्त॑रस्यां वर्त॒न्याँ सा॑दयति
वा॒च्ये॑व वाचं॑ दधा॒त्या तृ॑तीयसव॒नात्परि॑ शेरे
य॒ज्ञस्य॒ संत॑त्यै ( 5 ) ।।
(म॒नु॒ष्य॒च॒रावु॑दपात्रमु॑प॒ह्वये॑त द्विदेवत्यः॑
षट्च॑त्वारिँशच्च ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्टके
चतुर्थप्रपाठके नवमोऽनुवाकः ।। 9 ।।