(अथ षष्ठाष्टके चतुर्थप्रपाठकेऽष्टमोऽनुवाकः ) ।
मि॒त्रं दे॒वा अ॑ब्रुव॒न्त्सोमँ॒ राजा॑नँ हना॒मेति॒
सो॑ऽब्रवी॒न्नाहँ सर्व॑स्य॒ वा अ॒हं मि॒त्रम॒स्मीति॒ तम॑-
ब्रुव॒न् हना॑मै॒वौति॒ सो॑ऽब्रवो॒द्वरै॑ वृणै॒ पय॑सै॒व मे॒ सोमँ॑
श्रीण॒न्निति तस्मा॑न्मौत्रावरूणं प॑यसा श्रीणन्तित॒ त-
स्मा॑त्पशवोऽपा॑क्रूमन्मित्रः सन्क्रू॒रम॑क॒रिति॑ क्रूर-
मि॑व॒ खलु॒ वा ए॒षः ( 1 ) करोति यः सोमे॑न॒ य-
ज॑ते॒ तस्मा॑त्पशवोऽप॑ क्रामन्ति॒ यन्मैत्रावरू॒णं पय॑-
सा श्री॒णाति॑ प॒शुभि॑रे॒व तन्मि॒त्रँ स॑म॒र्धय॑ति प॒शु
भि॒र्यज॑मानं प॒रा खलु॒ वावैवं मि॒त्रो॑ऽवे॒दप॒ मत्करू॒रं
च॒क्ररूषः॑ प॒शवः॑ क्रमिष्य॒न्तीति॒ तस्मा॑दे॒वम॑वृणीत॒
वरू॑णं दे॒वा अ॑ब्रुव॒न्त्वया॑ऽँ श॒भुवा॒ सोमँ॒ राजा॑नँ
हना॒मेति॒ सो॑ऽब्रवी॒व्दरै॑वृणै॒मह्यै॑ च ( 2 ) ए॒वैष
मि॒त्राय॑ च स॒ह गृह्याता॒ इति॒ तस्मा॑न्मैत्रावरू॒णः
स॒ह गृ॑ह्य॒ते तस्मा॒द्राज्ञा॒ राजा॑नमँश॒भुवा॑ घ्रन्ति॒
वैश्य॑न॒ वैश्यँ॑ शू॒द्रेण॑ शू॒द्रं न वा इ॒दं॒ दिवा॒ न
नक्त॑मासी॒दव्या॑वृत्तं॒ ते दे॒वा मि॒त्रावरू॑णावब्रुवन्नि॒दं
नो॒ वि वा॑सयत॒मिंति॒ ताव॑ब्रूतां॒ वरै॑ वृणावहा॒ एक॑
ए॒वाऽऽवत्पूर्वो॒ ग्रहो॑ गृह्याता॒ इति तस्मा॑दैन्द्रवाय॒वः
पूर्वो मैत्रावरूणाद्गृ॑ह्यते प्राणापा॒नै ह्ये॑तौ यदु॑पाँ-
श्वन्तर्या॒मौ मित्रौऽह॒रज॑नय॒व्दरूणो॒ रात्रिं॒ ततो॒ वा
इ॒दं व्यौ॑च्छद्यन्मै॑त्रावरूणो गृ॒ह्यते॒ व्यु॑ष्टयै ( 3 ) ।।
( एष चै॑न्द्रवायवो व्दाविँशतिश्व )
[[2452]]
श्रीमथसायणाचार्याविरचितभाष्यसमेता-
(6 षष्ठकाण्ढै-
(आश्विनग्रहकथनम् )
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्टके
चतुर्थप्रपाठकेऽष्टमोऽनुवाकः ।। 8 ।।