(अथ षष्ठाष्टके चतुर्थप्रपाठके सप्तमोऽनुवाकः)।
वाग्वा ए॒षा यदै॑न्द्रवाय॒वो यदै॑न्द्रवाय॒वाग्रा॒
ग्रहा॑ गृ॒ह्यन्ते॒ वाच॑मे॒वानु॒ प्र य॑न्ति वा॒युं दे॒वा
अ॑ब्रुव॒न्त्सोमँ॒ राजा॑नँ हना॒मेति॒ सो॑ऽब्रवी॒द्वरं॑ वृणै॒
[[2450]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता - [६ षष्ठकाण्डे-
(ऐन्द्रवायवग्रहकथनम्)
मद॑ग्रा ए॒व वो॒ ग्रहा॑ गृह्यान्ता॒ इति॒ तस्मा॑दैन्द्रवा-
य॒वाग्रा॒ ग्रहा॑ गृह्यन्ते॒ तम॑घ्न॒न्त्सो॑ऽपू॒यत्तं दे॒वा नोपा॑
धृष्णुव॒न्ते वा॒युम॑ब्रुवन्नि॒मं नः॑ स्वदय (१) इति॒
सो॑ऽब्रवी॒द्वरं॑ वृणै मद्देव॒त्या॑न्ये॒व वः॒ पात्रा॑ण्युच्यान्ता॒
इति॒ तस्मा॑न्नानादेव॒त्या॑नि सन्ति॑ वाय॒व्या॑न्युच्यन्ते॒
तमे॑भ्यो वा॒यरे॒वास्व॑दय॒त्तस्मा॒द्यत्पूय॑ति॒ तत्प्र॑वा॒ते वि
ष॑जन्ति वा॒युर्हि तस्य॑ पवयि॒ता स्व॑दयि॒ता तस्य॑
वि॒ग्रह॑णं॒ नावि॑न्द॒न्त्साऽदि॑तिरब्रवी॒द्वरं॑ वृणा॒ अथ॒
मया॒ वि गृ॑हणीध्वं मद्दे॒वत्या॑ ए॒व वः॒ सोमाः॑ (२)
स॒न्ना अ॑स॒न्नित्यु॑पया॒मगृ॑रीतो॒ऽसीत्या॑हादितिदवे॒-
त्या॑स्तेन॒ यानि॒ हि दा॑रु॒मया॑णि॒ पात्रा॑ण्य॒स्यैतानि॒
योनेः॒ संभू॑तानि॒ यानि॑ मृ॒न्मया॑नि सा॒क्षात्तान्य॒स्यै
तस्मा॑दे॒वमा॑ह॒ वाग्वै परा॒च्यव्या॑कृताऽवद॒त्ते दे॒वा
इन्द्र॑मब्रुवन्नि॒मां नो॒ वाचं॒ व्याकु॒र्विति॒ सो॑ऽब्रवी॒द्वरं॑
वृणै॒ मह्यं चै॒वैष वा॒यवे॑ च स॒ह गृ॑ह्याता॒ इति॒ तस्मा॑-
दैन्द्रवाय॒वः स॒ह गृ॑ह्यते॒ तामिन्द्रो॑ मध्य॒तो॑ऽव॒क्रम्य॒
व्याक॑रो॒त्तस्मा॑दि॒यं व्याकृ॑ता॒ वागु॑द्यते॒ तस्मा॑त्स॒कृ-
दिन्द्रा॑य मध्य॒तो गृ॑ह्यते॒ द्विर्वा॒यवे॒ द्वौ हि स वरा॒-
ववृ॑णीत (३)।
(स्व॒द॒य॒ सोमाः॑ स॒हा॑ष्टाविँ॑ शतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्टके
चतुर्थप्रपाठके सप्तमोऽनुवाकः।।७।।
[[2451]]
प्रपा 04 अनु 08 ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता ।
( मैत्रावरूणग्रहकथनग् )