०६

(अथ षष्ठाष्टके चतुर्थप्रपाठके षष्टोऽनुवाकः)।

दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा
उ॑पाँ॒ शौ य॒ज्ञँ सँ॒स्थाप्य॑मपश्य॒न्तमु॑पाँ॒शौ सम॑-
स्थापय॒न्तेऽसु॑रा॒ वज्र॑मु॒द्यत्य॑ दे॒वान॒भ्या॑यन्त॒ ते दे॒वा
बिभ्य॑त॒ इन्द्र॒मुपा॑धावन्तानिन्द्रो॑ऽन्तयां॒मेणा॒न्तर॑धत्त॒
तद॑न्तर्या॒मस्या॑ तर्याम॒त्वं यद॑न्तर्या॒मो गृ॒ह्यते॒ भ्रातृ॑-
व्याने॒व तद्यज॑मानो॒ऽन्तर्धत्ते॒ऽन्तस्ते॑ (१) द॒धा॒मि॒
द्यावा॑पृथि॒वी अ॒न्तरु॒र्व॑न्तरि॑क्ष॒मित्य॑हि॒मिरे॒व लो॒कैर्य-

[[2449]]

प्रपा ०४ अनु ०७] कृष्णयजूर्वेदीयतैत्तिरीयसंहिता २४४९
(ऐन्द्रवायवग्रहकथनम्)
ज॑मानो॒ भ्रातृ॑व्यान॒न्तर्ध॑त्ते॒ ते दे॒वा अ॑मन्य॒न्तेन्द्रो॒
वा इ॒दम॑भू॒द्यद्व॒यँ स्म इति ते॑ऽब्रुव॒न्मघ॑व॒न्ननु॑ न॒
आ भ॒जेति॑ स॒जोषा॑ देवैरव॑रैः॒ परै॒श्वेत्य॑ब्रवी॒द्ये चै॒व
दे॒वाः परे॒ ये चाव॑रे॒ तानु॒भया॑न् (२) अ॒न्वाभ॑-
उत्स॒जोषा॑ दे॒वैरव॑रैः॒ परैश्वेत्या॑ह॒ ये चै॒व दे॒वाः परे॒
ये चाव॑रे॒ तानुभ॒या॑नन्वाभ॑चत्यन्तर्या॒मे म॑घवन्मा-
दय॒स्वेत्या॑ह य॒ज्ञादे॒व यज॑मानं॒ नान्तरे॑त्युपया॒मगृ॑-
हीतो॒ऽसीत्या॑हापा॒नस्य॒ धृत्यै॒ यदु॒भाव॑पवि॒त्रौ गृ॒ह्ये-
या॑तां प्राणम॑पा॒नोऽनु न्यृ॑च्छेत्प्र॒मायु॑कः स्यात्प॒वि-
त्र॑वानन्तर्या॒मो गृ॑ह्यते (३) प्रा॒णा॒पा॒नयो॒र्विधृ॑त्यै
प्राणापा॒नौ वा ए॒तौ यदु॑पाँ श्वन्तर्या॒मौ व्या॒न
उ॑पाँशु॒सव॑नो॒ यं का॒मये॑त प्र॒मायु॑क्तः स्या॒दित्यृ
सँ॑स्पृष्टौ॒ तस्य॑ सादयेद्व्या॒नेनै॒वास्य॑ प्राणापा॒नौ वि
च्छि॑नन्ति ता॒जक्प्र मी॑यते॒ यं का॒मये॑त॒ सर्व॒मायु॑-
रिया॒दिति॒ सँस्पृ॑ष्टो॒ तस्य॑ सादयेद्व्या॒नेनै॒वास्य॑
प्राणापानौ सं त॑नोति॒ सर्व॒मायु॑रेति (४)।।
(त उ॒मया॑न्गृह्यते॒ चतु॑श्वत्वारिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्टके
चतुर्थप्रपाठके षष्ठोऽनुवाकः।।६।।