०५

(अथ षष्ठाष्टके चतुर्थप्रपाठके पञ्चमोऽनुवाकः)।
प्रा॒णो वा ए॒ष यदु॑पाँ॒शुर्यदु॑पाँ॒श्व॑ग्रा॒ ग्रहा॑
गृ॒ह्यन्ते॑ प्रा॒णमेवानु॒ प्र य॑न्त्यरु॒णो ह॑ स्मा॒ऽऽहौप॑वेशिः
प्रातः॒सव॑न ए॒वाहं य॒ज्ञँ सँ स्था॑पयामि॒ तेन॒ ततः॒
सँस्थि॑तेन चरामीत्य॒ष्टौ कृत्वोऽग्रे॒ऽभि षु॑णोत्य॒ष्टा-
क्ष॑रा गाय॒त्री गा॑य॒त्रं प्रा॑तःसव॒नं प्रा॑तःसव॒नमे॒व
तेना॑ऽऽप्नो॒त्येका॑दश॒ कृत्वो॑ द्वि॒तीय॒मेका॑दशाक्षरा
त्रि॒ष्टुप्त्रैष्टु॑भं॒ माध्यं॑दिनं (१) सव॑नं माध्यं॑दिनमे॒व
सव॑नं॒ तेना॑ऽऽप्नोति॒ द्वाद॑श॒ कृत्व॑स्तृ॒तीयं॒ द्वाद॑शाक्षरा॒
जगती॒ जाग॑तं तृतीयसवनं तृ॑तीयसव॒नमे॒व तेना॑-
ऽऽप्नोत्येताँह॒ वाव स य॒ज्ञस्य॒ सँस्थि॑तिमुवा॒ता-
स्क॑न्दा॒यास्क॑न्नँ॒ हि तद्यद्य॒ज्ञस्य॒ सँस्थि॑तस्य॒

[[2447]]

प्रपा ०४ अनु ०५] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता २४४७
(उपाँशुग्रहकथनम्)

स्कन्द॒त्यथो॒ खल्वा॑हुर्गाय॒त्री वाव प्रा॑तःसव॒ने
नाति॒वाद॒ इत्यन॑तिवादुक एनं॒ भ्रातृ॑व्यो भवति॒ य
ए॒वं वेद॒ तस्मा॑द॒ष्टाव॑ष्टौ (२) कृत्वो॑ऽभि॒षुत्य॑
ब्रह्मवा॒दिनो॑ वदन्ति प॒वित्र॑वन्तो॒ऽन्ये ग्रहा॑
गृ॒ह्यन्ते॒ किंप॑वित्र उपाँ॒ शुरिति॒ वाक्प॑वित्र॒ इति॑
ब्रूयाद्वा॒चस्पत॑ये पवस्व वाजि॒न्नित्या॑ह वा॒चैवैनं॑
पवयति॒ वृष्णो॑ अँ॒शुभ्या॒मित्या॑ह॒ वृष्णो॒ ह्ये॑तावँ॒शू
यौ सोम॑स्य॒ गभ॑स्तिपूत॒ इत्या॑ह॒ गभ॑स्तिना॒
ह्ये॑नं प॒वय॑ति दे॒वो दे॒वानां॑ प॒वित्र॑म॒सीत्या॑ह
दे॒वो ह्ये॑षः (३) सन्दे॒वानां॑ प॒वित्रं येषां॑ भा॒गोऽसि॒
तेभ्य॒स्त्वेत्या॑ह येषाँ॒ ह्ये॑ष भा॒गस्तेभ्य॑ एनं
गृ॒ह्वाति॒ स्वांकृ॑तो॒ऽसीत्या॑ह प्रा॒णमे॒व स्वम॑कृत॒
मधु॑मतीर्न॒ इष॑स्कृ॒धीत्या॑ह सर्व॑मे॒वास्मा॑ इ॒दँ
स्व॑दयति॒ विश्वे॑भ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑-
वेभ्य॒ इत्या॑हो॒भये॑ष्वे॒व दे॑वमनु॒ष्येषु॑ प्रा॒णान्द॑धाति॒
मन॑स्त्वा (४) अ॒ष्ट्वित्या॑ह॒ मन॑ ए॒वाशु॑त
उ॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑हान्तरिक्षदेव॒त्यो॑ हि प्राणः
स्वाहा॑ त्वा मुभवः॒ सूर्या॒येत्या॑ह प्रा॒णा वै स्वभ॑-
वसो दे॒वास्तेष्वे॒व प॒रोक्ष॑ जुहोति दे॒वेभ्य॑स्त्वा
मरीचि॒पेभ्य॒ इत्या॑हाऽऽदि॒त्यस्य॒ वै र॒श्मयो॑ दे॒वा
म॑रीचि॒पास्तेषां॒ तद्भा॑ग॒धेयं॒ ताने॒व तेन॑, प्री॒णा॒ति॒
यदि॑ का॒मये॑त॒ वषु॑कः प॒र्जन्यः (५) स्या॒दिति॒ नीचा॒
हस्ते॑न॒ नि मृ॑ज्या॒द्वृष्टि॑मे॒व नि य॑च्छवि॒ यदि॑

[[2448]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता - [६ षष्ठकाण्डे-
(अन्तर्यामग्रहकथनम्)

का॒मये॒ताव॑र्षुकः स्या॒दित्यु॑त्ता॒नेन॒ नि मृ॑ज्या॒ढ्वृष्टि॑-
मे॒वोद्य॑च्छति॒ यद्य॑भि॒चरे॑द॒मुं ज॒ह्यथ॑ त्वा होष्या॒मीति॑
ब्रूया॒दाहु॑तिमे॒वैन॑ प्रे॒ष्सन्ह॑न्ति॒ यदि॑ दू॒रे स्यादा त-
मि॑तोस्तिष्ठेत्प्रा॒णमे॒वास्या॑नु॒गत्य॑ हन्ति॒ यद्य॑भि॒चरे॑-
द॒मुष्य॑ (६) त्वा॒ प्रा॒णे सा॑दया॒मीति॑ सादये॒दस॑न्नो॒
वै प्रा॒णः प्रा॒णमे॒वास्य॑ सादयति ष॒ड्भिरँ॒शुभिः॑
पवयति॒ षड़वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॑ पवयति॒ त्रिः
प॑वयति॒ त्रय॑ इ॒मे लो॒का ए॒भिरे॒वैन॑ लो॒कैः
प॑वयति॒ ब्रह्मवा॒दि॑नो॑ वदन्ति॒ कस्मा॑त्स॒त्यात्त्रयः॑
पशू॒नाँ हस्ता॑दाना॒ इति॒ यत्त्रिरु॑पाँ॒ शुँ हस्ते॑न
विगृ॒ह्वाति॒ तस्मा॒त्रयः॑ पशु॒नाँ हस्ता॑दानाः॒ पुरु॑षो
ह॒स्ती म॒र्कटः॑ (७)।।

(माध्यंदिनम॒ष्टाव॑ष्टावे॒ष मन॑स्त्वा प॒र्जन्यो॒ऽमुष्य॒ पुरु॑षो॒ द्वे च॑)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्टके
चतुर्थप्रपाठके पञ्चमोऽनुवाकः।। ५।।