(अथ षष्ठाष्टके चतुर्थप्रपाठके चतुर्थोऽनुवाकः)।
दे॒वस्य॑ त्वां स॒वितुः प्र॑स॒व इति॒ ग्रावा॑ण॒मा द॑त्ते॒
प्रसू॑त्या अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना-
मध्व॒ई आस्तां॑ पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्सै॑ प॒-
शवो॒ वै सोमो॑ व्या॒न उ॑पाँशु॒सव॑नो॒ यदु॑पाँशु॒स-
व॑नम॒भि मिमी॑त॒ इन्द्रा॑य॒ हि सोम॑ आह्रि॒यते॒
पञ्च॒ कृत्वो॒ यजु॑षा मिमीते (१) पञ्चा॑क्षरा प॒ङ्क्तिः
पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्धे॒ पञ्च॒ कृत्व॑स्तू॒ष्णों
दश॒ सं प॑द्यन्ते॒ दशा॑क्षरा वि॒राडंन्न॑ वि॒राड्वि॒राजै॒-
वान्नाद्य॒मव॑ रुन्धे श्वा॒त्राः स्थ॑ वृ॒त्रतु॒र इत्या॑है॒ष वा
अ॒पाँ सोम॑पी॒थो य ए॒वं वे॒द नाप्स्वार्ति॒मार्च्छ॑ति॒
यन्ते॑ सोम दि॒वि ज्योति॒रित्या॑हैभ्य ए॒वैन॑म् (२)
लो॒केभ्यः॒ सं भ॑रति॒ सोमो॒ वै राजा॒ दिशो॒ऽभ्य॑-
ध्याय॒स्य दिशोऽनु॒ प्रावि॑श॒त्प्रागपा॒गुद॑गध॒रागित्या॑ह
दि॒ग्भ्य ए॒वैनँ॒ सं भ॑र॒त्यथो॒ दिश॑ ए॒वास्मा॒ अव॑
रु॒न्धेऽम्ब॒ नि ष्व॒रेत्या॑ह॒ कामु॑का एनँ॒ स्त्रियो॑ भ-
वन्तिं॒ य ए॒वं वेद॒ यत्ते॑ सो॒मादा॑भ्यं॒ नाम॒ जागृ॒वीति॑
[[2446]]
श्रीमत्साय़णाचार्यविरचितभाष्यसमेता - [६ षष्ठकाण्डे-
(उपांशुग्रहकथनम्)
(३) आ॒है॒ष वै सोम॑स्य सोमपी॒थो य ए॒वं वेद॒
न सौ॒म्यामार्ति॒मार्च्छ॑ति॒ ध्नन्ति॒ वा ए॒तत्सोमं॒ यद॑-
भिषुण्वन्त्यँ॒ शूनप॑ गृहणाति॒ त्राय॑त ए॒वैनं॑ प्रा॒णा
वा अँ॒शवः॑ प॒शवः॒ सोमो॒ऽँशून्पुन॒रपि॑ सृजति
प्रा॒णाने॒व प॒शुषु॑ दधाति॒ द्वौद्वा॒वपि॑ सृजति॒ तस्मा॒-
द्द्वौद्वौ॑ प्रा॒णाः (४)
(यजु॑षा मिमीत एनं॒ जागृ॒वीति॒
चतु॑श्वत्वारिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्टके
चतुर्थप्रपाठके चतुर्थोऽनुवाकः।।४।।