(अथ षष्ठाष्टके चतुर्थेप्रपाठके तृतीयोऽनुवाकः)।
ब्र॒ह्म॒वा॒दिनी॑ वदन्ति॒ स त्वा अ॑ध्व॒र्युः स्याद्यः
सोम॑मुपाव॒हर॒न्त्सर्वा॑भ्यो दे॒वता॑भ्य उपाव॒हरेदिति॑ हृ॒दे
त्वेत्या॑ह मनुष्ये॑भ्य ए॒वैतेन॑ करो॒ति मन॑से॒ त्वेत्या॑ह
[[2444]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता - [६ षष्ठकाण्डे-
(सोप्नापोवहरणकथनम्)
पि॒तृभ्य॑ ए॒वैतेन॑ करोति दि॒वे त्वा॒ सूर्या॑य॒ त्वेत्या॑ह
देवेभ्य॑ ए॒वैतेन॑ करोत्ये॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैनँ
सर्वाभ्य उ॒पाव॑हरति पु॒रा वा॒चः (१) प्रंव॑दितोः
प्रातरनुवा॒कमु॒पाक॑रोति॒ याव॑त्ये॒वः वाक्तामव॑ रुन्धे॒ऽ-
पोऽग्रे॑ऽभि॒व्याह॑रति य॒ज्ञो वा आपो॑ य॒ज्ञमे॒वाभि
वाचं॒ वि सृ॑जति॒ सर्वा॑णि॒ छन्दाँ॒ स्यन्वा॑ह प॒शवो॒ वै
छन्दाँ॑सि प॒शूने॒वाव॑ रुन्धे गायत्रि॒या तैज॑स्कामस्य॒
परि॑ दध्यात्रि॒ष्टुभो॑न्द्रि॒यका॑मस्य॒ जग॑त्वा प॒शुका॑मस्वा-
नु॒ष्टुभा॑ प्रति॒ष्ठाका॑मस्य प॒ङ्क्त्या य॒ज्ञका॑मस्य वि॒रा-
जाऽन्न॑कामस्यं शृ॒णोत्व॒ग्निः स॒मिधा॒ हव॑म् (२)
म॒ इत्या॑ह सवि॒तृप्र॑सूत ए॒व दे॒वता॑भ्यो नि॒वेद्या॒पोऽच्छै॑
त्य॒प इ॑ष्य होत॒रित्या॑हेषि॒तँ हि कर्म॑ क्रि॒यते॒ मैत्रा॑-
वरुणस्य चमसाध्वर्य॒वा द्र॒वेत्या॑ह मि॒त्रावरु॑णौ॒ वा
अ॒पां ने॒तारौ॒ ताभ्या॑मे॒वैना॒ अच्छै॑ति॒ देवोरा॑पो अपां
नपा॒दित्या॒हाऽऽहु॑त्यै॒वैना॑ नि॒ष्क्रीय॑ गृह्वा॒त्यथो॑ ह॒वि-
ष्कृ॑तानामे॒वाभिघृ॑तानां गृहणाति (३) कार्षि॑र॒सी-
त्या॑ह॒ शम॑लमे॒वाऽऽसा॒मप॑ प्लावयति समु॒द्रस्य॒
वोऽक्षि॑त्या॒ उन्न॑य॒ इत्या॑ह॒ तस्मा॑द॒द्यमा॑नाः पी॒यमा॑ना॒
आपो॒ न क्षी॑यन्ति॒ योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑लं य॒ज्ञो
व॑सती॒वरी॑र्होतृचम॒सं च॑ मैत्रावरुणचम॒सं च॑ सँ॒ -
स्पर्श्य॑ वसती॒वरीर्व्यान॑यति य॒ज्ञस्य॑ सयोनि॒त्वा-
याथो॒ स्वादे॒वैना॒ योनेः॒ प्र ज॑नय॒त्यध्व॒र्योऽवे॑र॒पा३
हत्या॑हो॒तेम॑नन्नमुरु॒तेमाः प॒श्येति॒ वावैतदा॑ह॒ यद्य॑-
ग्निष्टो॒मो जु॒होति॒ यद्यु॒क्थ्यः॑ परि॒धौ नि मा॑र्ष्टि॒
[[2445]]
प्रवा ०४ अनु॰ ४] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता २४४५
(सोमोन्मानकथनम्)
यद्य॑तिरा॒त्रो यजु॒वंद॒न्प्र प॑द्यते यज्ञक्रर्तुनां व्यावृ॑स्यै
(४)।।
(वा॒चो हव॑म॒भिघृ॑तानां गृहणात्यु॒त पञ्च॑विँशातिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्टके
चतुर्थप्रपाठके तृतीयोऽनुवाकः।।३।।