(अथ षष्ठाष्टके चतुर्थप्रपाठके द्वितीयोऽनुवाकः)।
दे॒वा वै य॒ज्ञमाग्नी॑ध्रे॒ व्य॑भजन्त॒ ततो॒ यद॒त्य-
शि॑ष्यत॒ तद॑ब्रुव॒न्वस॑तु॒ नु न॑ इ॒दमिति॒ तद्व॑सती॒-
वरी॑णां वसतीवरि॒त्वं तस्मि॑न्प्रा॒तर्न सम॑शक्नुव॒न्त-
द॒प्सु प्रावे॑शय॒न्ता व॑सती॒वरी॑रभवन्वसती॒वरी॑र्गृह्णाति
३०६
[[2442]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [ ६ षष्ठकाण्डे—
( वसतावर्यभिधानम् )
य॒ज्ञो वै व॑सती॒वरी॑र्य॒क्षमे॒वाऽऽरभ्य॑ गृही॒त्वोप॑ वसति॒
यस्यागृ॑हीता अ॒भि नि॒म्रोचे॒दना॑रब्धोऽस्य य॒ज्ञः
स्या॑त् (१) य॒ज्ञं वि च्छि॑न्द्याज्ज्योति॒ष्या॑ वा गृह्णी॒-
याध्दिर॑ण्यं वाऽव॒धाय॒ सशु॑क्राणामे॒व गृ॑ह्णाति॒ यो
वा॑ ब्राह्म॒णो ब॑हुया॒जी तस्य॒ कुम्भ्या॑नां गृह्णीया॒त्स
हि गृ॑ही॒तव॑सतीवरीको वसती॒वरी॑र्गृह्णाति प॒शवो॒ वै
व॑सती॒वरीः॑ प॒शूने॒वाऽऽरभ्यं गृहीत्वोप॑ वसति॒ यद॑-
न्वी॒पं तिष्ठ॑न्गृह्णी॒यान्निर्मार्गु॑का अस्मात्प॒शवः॑ स्युः
प्रती॒पं तिष्ठ॑न्गृह्णा॒ति प्रति॒रुध्यै॒वास्मै॑ प॒शून्गृ॑ह्णा॒-
तीन्द्रः॑ (२) वृ॒त्रम॒ह॑न्त्सो॑ १॒ऽपो॑१॒ऽभ्यम्रियत॒ तासां॒
यन्मेध्यं॑ य॒ज्ञियँ॒ सदे॑व॒मासी॒त्तदत्य॑मुच्यत॒ ता वह॑-
न्तीरभव॒न्वह॑न्तीनां गृह्णाति॒ या ए॒व मेध्या॑ य॒ज्ञियाः॒
सदे॑वा॒ आप॒स्तासा॑मे॒व गृ॑ह्णाति॒ नान्त॒मा वह॑न्ती॒-
रती॑या॒द्यद॑न्त॒मा वह॑न्तीरती॒याद्य॒ज्ञमति॑ मन्येत॒ न
स्था॑व॒राणां॑ गृह्णीया॒द्वरु॑णगृहीता॒ वै स्था॑व॒रा
यत्स्था॑व॒राणां॑ गृह्णी॒यात् (३) वरु॑णेनास्य य॒ज्ञं
ग्रा॑हये॒द्यद्वै दिवा॒ भव॑त्य॒पो रात्रिः प्र वि॑शति॒
तस्मा॑त्ता॒म्रा आपो॒ दिवा॑ दद्दश्रे॒ यन्नक्तं॒ भव॑त्य॒पोऽहः॒
प्र वि॑शति॒ तस्मा॑च्च॒द्रा आपो॒ नक्तं॑ दद्दश्रे छा॒यायै॑
चा॒ऽऽतपतश्च सं॒धौ गृ॑ह्णात्यहोरा॒त्रयो॑रे॒वास्मै॒ वर्णं॑
गृह्णाति ह॒विष्म॑तीरि॒मा आप॒ इत्या॑ह ह॒विष्कृ॑ता-
नामे॒व गृ॑ह्णाति ह॒विष्माँ॑ अस्तु (४) सूर्य॒ इत्या॑ह
सशु॑क्राणामे॒व गृह्णात्यनु॒ष्टुभा॑ गृह्णाति॒ वाग्वा
अ॑नु॒ष्टुग्वा॒चैवैनाः॒ सर्व॑या गृह्णाति॒ चतु॑ष्पदय॒र्चा
[[2443]]
प्रपा० ४ अनु० ३ ] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सोमोपावहरणकथनम्)
गृ॑ह्णाति॒ त्रिः सा॑दयति स॒प्त सं प॑द्यन्ते स॒प्तप॑दा॒
शक्क॑री प॒शवः॒ शक्क॑री प॒शूने॒वाव रु॑न्धे॒ऽस्मै वै
लो॒काय॒ गार्ह॑पत्य॒ आ धी॑यते॒ऽमुष्मा॑ आहव॒नीयो॒
यद्गार्ह॑पत्य उपसा॒दये॑द॒स्मिल्लोँ॒के प॑शु॒मान्त्स्याद्यदा॑-
हव॒नीये॒ऽमुष्मि॑न् ( ५ ) लो॒के प॑शुमान्त्स्या॑दु॒भ-
यो॒रुप॑ सादयत्यु॒भयो॑ रे॒वै॑नं॑ लो॒कयोः॑ पशु॒मन्तं॑
करोति स॒र्वतः॒ परि॑ हरति॒ रक्ष॑सा॒मप॑हत्या इन्द्राग्नि॒-
योर्भा॑ग॒धेयीः॒ स्थेत्या॑ह यथाय॒जुरे॒वैतदाग्नी॑घ्रं॒ उप॑
वासयत्ये॒तद्वै य॒ज्ञस्याप॑राजितं॒ यदाग्नी॑घ्रं॒ यदे॒व
य॒ज्ञस्याप॑राजितं॒ तदे॒वैना॒ उप॑ वासयति॒ यतः॒
खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते तदुनु॑ य॒ज्ञँ
रक्षाँ॒स्यव॑ चरन्ति॒ यद्वहन्तीनां गृ॒हणाति॑ क्रि॒यमा॑-
णमे॒व तद्य॒ज्ञस्य॑ शये॒ रक्ष॑सा॒मन॑न्ववचाराय॒ न ह्ये॑ता
ई॒लय॒न्त्या तृ॑तीयसव॒नात्परि॑ शेरे य॒ज्ञस्य॒
संत॑त्यै (६)
(स्या॒दिन्द्रो॑ गृह्वी॒याद॑स्त्व॒मुष्मि॑न्क्रि॒यते॒
षड्विँ॑शातिश्च।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्टके
चतुर्थप्रपाठके द्वितीयोऽनुवाकः।।२।।