( तत्र प्रथमोऽनुवाकः )।
ह॒रिः॑ ॐ ।
य॒ज्ञेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता उ॑प॒यड्भि॑-
रे॒वासृ॑जत॒ यदु॑प॒यज॑ उप॒यज॑ति प्र॒जा ए॒व तद्यज॑-
मानः सृजते जघना॒र्धायदव॑ द्यति जघना॒र्धाद्धि प्र॒जाः
प्र॒जाय॑न्ते स्थविम॒तोऽव॑ द्यति स्थविम॒तो हि प्र॒जाः
प्र॒जाय॒न्तेऽसं॑भिन्द॒न्नव॑ द्यति प्रा॒णाना॒मसंभे॑दाय॒ न
प॒र्याव॑र्तयति॒ यत्प॑र्याव॒र्तये॑दुदीव॒र्तः प्र॒जा ग्राहु॑कः
स्थात्समु॒द्रं ग॑च्छ॒ स्वाहेत्या॑ह॒ रेतः॑ ( १ ) एव॒
तद्द॑धात्य॒न्तरि॑क्षं ग॑च्छ॒ स्वाहेत्या॑हा॒न्तरि॑क्षेणै॒वास्मै॑
प्र॒जाः प्र ज॑नयत्य॒न्तरि॑क्षँ॒ ह्यनु॑ प्र॒जाः प्र॒जाय॑न्ते
दे॒वँ स॑वि॒तारं॑ गच्छ॒ स्वाहेत्या॑ह सवि॒तृप्र॑सूत ए॒-
वास्मै॑ प्र॒जाः प्र ज॑नयत्यहोरा॒त्रे ग॑च्छ॒ स्वाहेत्या॑-
हाहोरा॒त्राभ्या॑मे॒वास्मै॑ प्र॒जाः प्र ज॑यत्यहोरा॒त्रे ह्यनु॑
प्र॒जाः प्र॒जाय॑न्ते मि॒त्रावरु॑णौ गच्छ स्वाहा॑ ( २ )
इत्या॑ह प्र॒जास्वे॒व प्रजा॑तासु प्राणापा॒नौ द॑धाति॒
सोमं॑ गच्छ॒ स्वाहेत्या॑ह प्रजा॑तासु प्राणापा॒नौ द॑धाति॒
सोमं॑ गच्छ॒ स्वाहेत्या॑ह सौ॒म्या हि दे॒वत॑या प्रजा
य॒ज्ञं ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व य॒ज्ञियाः॑ करोति॒
छन्दाँ॑सि गच्छ॒ स्वाहेत्या॑ह प॒शवो॒ वै छन्दाँ॑सि
[[2441]]
[प्रपा॰ ४ अनु॰ २] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( वसतावर्यभिधानम् )
प॒शूने॒वाव॑ रुन्धे॒ द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहेत्या॑ह
प्र॒जा ए॒व प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्यामुभ॒यतः॒ परि॑
गृह्णाति॒ नभः॑ ( ३ ) दि॒व्यं ग॑च्छ॒ स्वाहेत्या॑ह
प्र॒जाभ्य॑ ए॒व प्रजा॑ताभ्यो॒ वृष्टिं॒ निय॑च्छत्य॒ग्निं वै-
श्वा॑न॒रं ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व प्रजा॑ता
अ॒स्यां प्रति॑ ष्ठापयति प्रा॒णानां॒ वा ए॒षोऽव॑ द्यति॒
यो॑ऽव॒द्यति॑ गु॒दस्य॒ मनो॑ मे॒ हार्दि॑ य॒च्छेत्या॑ह
प्रा॒णाने॒व य॑थास्था॒नमुप॑ ह्वयते प॒शोर्वा आल॑ब्धस्य॒
हृद॑यँ॒ शुगृ॑च्छति॒ सा हृ॑दयशू॒लम् ( ४ ) अ॒भि
समे॑ति॒ यत्पृ॑थि॒व्याँ हृ॑दयशूलमु॑द्वा॒सये॑त्पृथि॒वीँ
शु॒चाऽर्प॑ये॒द्यद॒प्स्व॑पः शु॒चा॑ऽर्पये॒च्छुष्क॑स्य चा॒ऽऽ
र्द्रस्य॑ च सं॒धावुद्वा॑सयत्युभयस्य॒ शान्त्यै॒ यं द्वि॒ष्यात्तं
ध्या॑येच्छु॒चैवैन॑मर्पयति ( ५ ) ।।
( रेतो॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॒ नमो
हृदयशू॒लं द्वात्रिँ॑शच्च )।।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके चतुर्थप्रपाठके प्रथमोऽनुवाकः।। १।।