(अथ षष्ठाष्टके तृतीयप्रपाठके एकादशोऽनुवाकः )।
मेद॑सा॒ स्रुचौ॒ प्रोर्णो॑ति॒ मेदो॑रूपा॒ वै प॒शवो॑
रू॒पमे॒व प॒शुषु॑ दधाति यूषन्न॑व॒धाय॒ प्रोर्णो॑ति॒ रसो॒
वा ए॒ष प॑शू॒नां यद्यू रस॑मे॒व प॒शुषु॑ दधाति पा॒र्श्वेन॑
वसाहो॒मं प्रयो॑ति॒ मध्यं॒ वा ए॒तत्प॑शू॒नां यत्पा॒र्श्वँ
रस॑ ए॒ष प॑शू॒नां यद्वसा॒ यत्पा॒र्श्वेन॑ वसाहो॒मं प्र॒यौति॑
मध्य॒त ए॒व प॑शू॒नाँ रशं॑ दधाति न्नन्ति॑ (१) वा
ए॒तत्प॒द्यं यत्सं॑ज्ञ॒पय॑न्त्यै॒न्द्रः खलु॒ वै दे॒वतया प्रा॒ण
ऐन्द्रो॑ऽपा॒न ऐ॒न्द्रः प्रा॒णो अङ्गे॑अङ्गे॒ नि दे॑ध्यदि-
त्या॑ह प्राणापा॒नावे॒व प॒शुषु॑ दधाति॒ देव॑ त्वष्ट॒र्भूरि॑
ते॒ सँ स॑मे॒त्वित्याह त्वा॒ष्ट्रा हि दे॒वत॑या प॒शवो॒ विषु॑-
रूपा॒ यत्सल॑क्ष्माणो॒ भव॒थेत्या॑ह विषु॑रूपा॒ ह्ये॑ते सन्तः॒
सल॑क्ष्माण ए॒तर्हि॒ भव॑न्ति देव॒त्रा यन्त॑म् ( २ )
अव॑से॒ सखा॒योऽनं॑ त्वा मा॒ता पि॒तरो॑ मद॒न्त्वित्या॒-
हानु॑मतमे॒वैनं मा॒त्रा पि॒त्रा सु॑वर्गं लो॒कं ग॑मयत्य-
र्ध॒र्चे व॑साहो॒मं जु॑होत्य॒सौ वा अ॑र्ध॒र्च इ॒यम॑र्धर्च इ॒मे
ए॒व रसे॑नानक्ति॒ दिशो॑ जुहोति॒ दिश॑ ए॒व रसे॑नान॒-
क्त्यथो॑ दि॒ग्भ्य ए॒वोर्जँ॒ रस॒मव॑ रुन्धे प्राणापा॒नौ
वा ए॒तौ प॑सू॒नां यत्पृ॑दा॒ज्यं वा॑नस्प॒त्याः खलु॑ (३)
वै दे॒वत॑या प॒शवो॒ यत्पृ॑षदा॒ज्यस्यो॑प॒हत्याऽऽह॒ वन॒-
स्पत॒येऽनु॑ ब्रूहि॒ वन॒स्पत॑ये॒ प्रेष्येति॑ प्राणापा॒नावे॒व
प॒शुषु॑ दधात्य॒न्यस्या॑न्यस्य समव॒त्तँ स॒मव॑द्यति
तस्मा॒न्नाना॑रूपाः प॒शवो॑ यू॒ष्णोप॑ सिञ्चति॒ रसो॒ वा
ए॒ष प॑शू॒नां यद्यू रस॑मे॒व प॒शुषु॑ दधा॒तीडामुप॑ ह्णयते
[[2439]]
[प्रपा॰ ३ अनु॰ ११] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( अनूयाजकथनम् )
प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते च॒तुरुप॑ ह्वयते
(४) चतु॑ष्पादो॒ हि प॒शवो॒ यं का॒मये॑तापशुः स्या॒दि-
त्य॑मे॒दस्कं॒ तस्मा॒ आ द॑ध्या॒न्मेदो॑रूपा॒ वै प॒शवो॑
रू॒पेणै॒वैनं॑ प॒शभ्यो॒ निर्भ॑जत्यप॒शुरे॒व॒ भ॑वति॒ यं का॒म-
ये॑त पशु॒मान्त्स्या॒दिति॒ मेद॑स्व॒त्तस्मा॒ आ द॑ध्या॒न्मे-
दो॑रूपा॒ वै प॒शवो॑ रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुन्धे पशु॒मा-
ने॒व भ॑वति प्र॒जाप॑तिर्य॒ज्ञम॑सृजत॒ स आज्य॑म् (५)
पु॒रस्ता॑दसृजत प॒शुं म॑ध्य॒तः पृ॑षदा॒ज्यं प॒श्चात्तस्मा॒-
दाज्ये॑न प्रया॒जा इ॑ज्यन्ते प॒शुना॑ मध्य॒तः पृ॑षजा॒ज्ये-
ना॑नूया॒जास्तस्मा॑दे॒तन्मि॒श्रमि॑व पश्चात्सृष्टँ ह्येका॑द-
शानूया॒जान्य॑जति॒ दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑-
द॒शो यावा॑ने॒व प॒शुस्तमनु॑ यजति॒ घ्नन्ति॒ वा ए॒तत्प॒शुं
यत्सं॑ज्ञ॒पय॑न्ति प्राणापा॒नौ खलु॒ वा ए॒तौ प॑शू॒नां
यत्पृ॑षदा॒ज्यं यत्पृ॑षदा॒ज्येना॑नूया॒जान्यज॑ति प्राणापा॒-
नावे॒व पठाषु॑ दधाति (६)।।
( घ्रन्ति॒ यन्तं॒ खलु॑ च॒तुरुप॑ ह्वयत॒ आज्यं॒ यत्पृ॑-
षदा॒ज्येन॒ षट् च॑ )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके तृतीयप्रपाठके एकादशोऽनुवाकः ।। ११।।
चाखा॑लात्सुव॒र्गाय॑ वैसर्जनानि॑ वैष्ण॒व्यर्चा पृ॑थि॒व्यै साध्या इ॒षे स्वेत्य॒दग्निना॒ प॑र्यग्नि प॒शोः प॒शुमा॒लभ्य॒ मे॑दसा॒ सुचा॒वेका॑दश ।। ११।।
चात्वा॑लाद्दे॒वानु॒पैति॑ मुञ्चति प्रह्रि॒यमाणाय॒ पर्य॑ग्नि प॒शुमा॒-
लभ्य॒ चतु॑ष्पादो॒ द्विष॑ष्टिः।। ६२।।
[[2440]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [ ६ षष्ठकाण्डे—
( गुदयागकथनम् )
हरिः॑ ॐ
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके तृतीयः
प्रपाठकः ।। ३।।