१०

(अथ षष्ठाष्टके तृतीयप्रपाठके दशमोऽनुवाकः )।
प॒शुमा॒लभ्य॑ पुरो॒डाशं॒ निर्वपति॒ समे॑धमे॒वैन॒मा
ल॑भते व॒पया॑ प्र॒चर्य॑ पुरो॒डाशे॑न॒ न च॑र॒त्यूर्ग्वै
पु॑रो॒डाश॒ ऊर्ज॑मे॒व प॑शू॒नां म॑ध्य॒ते द॑धा॒त्यथो॑
प॒शोरे॒व छिद्रमपि॑ दधाति पृषदा॒ज्यस्यो॑प॒हत्य॒ त्रिः
पृ॑च्छति शृ॒तँह॒वी३ः श॑मित॒रिति॒ त्रिष॑त्या॒ हि दे॒वा
योऽशृ॑तँशृ॒तमाह॒ स एन॑सा प्राणापा॒नौ वा ए॒तौ
प॑शू॒नाम् (१) यत्पृ॑षदा॒ज्यं प॒शोः खलु॒ वा
आल॑ब्धस्य॒ हृद॑यमात्माऽभि समे॑ति॒ यत्पृ॑ष्दा॒ज्येन॒
हृद॑यमभिघा॒रय॑त्या॒त्मन्ने॒व प॑शू॒नां पाणापा॒नौ द॑धाति
प॒शुना॒ वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्ते॑ऽमन्यन्त मनु॒-
ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒ तस्य॒ शिर॑च्छि॒त्त्वा मेधं॒
प्राक्षा॑रय॒न्त्स प्र॒क्षो॑ऽभव॒त्तत्प्र॒क्षस्य॑ प्रक्ष॒त्वं यत्प्ल॑क्ष-
शा॒खोत्त॑रब॒र्हिर्भव॑ति॒ समे॑धस्यै॒व (२) प॒शोरव॑ द्यति
प॒शुं वै ह्रियमा॑णँ॒ रक्षाँ॒स्यनु॑ सचन्ते॑न्त॒रा यूपं॑
चाऽऽहव॒नीयं॑ च हरति॒ रक्षसा॒मप॑हत्यै प॒शोर्वा
आल॑ब्धस्या॒ मनोऽप॑ क्रामति म॒नोता॑यै ह॒विषो॑ऽव-
दी॒यमा॑न॒स्यानु॑ ब्रू॒हीत्या॑ह॒ मन॑ ए॒वास्याव॑ रुन्ध॒ ए-
का॑दशाव॒दाना॒न्यव॑ द्यति॒ दश॒ वै प॒शोः प्रा॒णा
आ॒त्मैका॑द॒शो यावा॑ने॒व प॒शुस्तस्याव॑ (३) द्य॒ति॒

[[2437]]

[प्रपा॰ ३ अनु॰ १०] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( अवदानाभिधानम् )
हृद॑य॒स्याग्रेऽव॑ द्य॒त्यथ॑ जिह्वाया॒ अथ॒ वक्ष॑सो॒ यद्वै
हृद॑येनाभि॒गच्छ॑ति॒ तज्जि॒ह्वया॑ वदति॒ यज्जि॒ह्वया॒
वद॑न्ति॒ तदुर॒सोऽधि॒ निर्व॑दित्ये॒तद्वै प॒शोर्य॑थापूर्वं
यस्यै॒वम॑व॒दाय॑ यथा॒काम॒मुत्त॑रेषामव॒द्यति यथापूर्व-
मे॒वास्य॑ प॒शोरव॑त्तं भवति मध्य॒तो गु॒दस्याव॑ द्यति
मध्य॒तो हि प्रा॒ण उ॑त्त॒मस्याव॑ द्यति (४) उ॒त्त॒मो
हि प्रा॒णो यदीत॑रं॒ यदीतर॑मु॒भय॑मे॒वाजा॑मि॒ जाय॑मा-
नो वै ब्रा॑ह्म॒णस्त्रि॒भिर्ऋ॑ण॒वा जाय॑ते ब्रह्म॒चर्ये॒ण ऋषि॑-
म्यो य॒ज्ञेन॑ दे॒वेभ्यः॑ प्र॒जया॑ पि॒तृभ्य॑ ए॒ष वा अ॑नृ॒णो
यः पु॒त्री यज्वा॑ ब्रह्मचारिवा॒सी तद॑व॒दानै॑रे॒वाव॑ दय-
ते॒ तद॑व॒दाना॑नामवदान॒त्वं दे॑वासु॒राः संय॑त्ता आस॒-
न्ते दे॒वा अ॒ग्निम॑ब्रुव॒न्त्वया॑ वी॒रेणासु॑रानभि भ॑वा॒मे-
ति॑ (५) सो॑ऽब्रवी॒द्वरं॑ वृणै प॒शोरु॑ध्दा॒रमुध्द॑रा॒ इति॒ स
ए॒तमु॑ध्दा॒रमुद॑ह॒रत॒ दोः पू॑र्वा॒र्धस्य॑ गु॒दं म॑ध्य॒तः
श्रोणिं॑ जघना॒र्धस्य॒ ततो॑ दे॒वा अभ॑व॒न्पराऽसु॑रा॒
यत्त्र्य॒ङ्गाणाँ॑ समव॒द्यति॒ भ्‍रातृ॑व्याभिभूत्यै॒ भव॑त्या॒-
त्मना॒ परा॑ऽस्य॒ भ्‍रातृ॑व्यो भवत्यक्ष्ण॒याऽव॑ द्यति॒
तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै
( ६ ) ।।

( ए॒तौ प॑शू॒नाँ समे॑धस्यै॒व तस्यावोत्त॒मस्याव॑
द्य॒तीति॒ पञ्च॑चत्वारिँशच्च ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके तृतीयप्रपाठके दशमोऽनुवाकः ।। १०।।


[[2438]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [ ६ षष्ठकाण्डे—
( अनूयाजकथनम् )