( अथ षष्ठाष्टके तृतीयप्रपाठके नवमोऽनुवाकः )।
प॒शोर्वा आल॑ब्धस्य प्रा॒णाञ्छुगृ॑च्छति॒ वाक्त॒
आ प्या॑यतां प्रा॒णस्य॒ आ प्या॑यता॒मित्या॑ह प्रा॒णेभ्य॑
ए॒वास्य॒ शुचँ॑ शमयति॒ सा प्रा॒णेभ्योऽधि॑ पृथि॒वीँ
शुक्प्र वि॑शति॒ शमहो॑भ्या॒मिति॒ नि न॑यत्यहोरा॒त्रा-
भ्या॑मे॒व पृ॑थि॒व्यै शुचँ॑ शमय॒त्योष॑धे॒ त्राय॑स्वैनँ॒
स्वधि॑ते॒ मैनँ॑ हिँसी॒रित्या॑ह॒ वज्रो॒ वै स्वधितिः
(१) शान्त्यै॑ पार्श्व॒त आ च्छयति मध्य॒तो हि
म॑नु॒ष्या॑ आ॒ च्छयन्ति॑ तिर॒श्चीन॒मा च्छय॑त्यनू॒ची-
नँ॒ हि म॑नु॒ष्या॑ आ॒च्छयन्ति॒ व्यावृ॑त्त्यै॒ रक्ष॑सां
भा॒गो॑ऽसीति॑ स्थविम॒तो ब॒र्हिर॒क्त्वाऽपा॑स्यत्य॒स्नैव
रक्षाँ॑सि नि॒रव॑दयत इ॒दमहँ॒ रक्षो॑ऽधमं तमो॑
नयामि॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्या॑ह॒ द्वौ
वाव पुरु॑षौ॒ यं चै॒व (२) द्वेष्टि॒ यश्चै॑नं॒ द्वेष्टि॒ तध्वु॒-
भाव॑ध॒मं तमो॑ नयती॒षे त्वेति॑ वपामुत्खि॑दती॒च्छत॑
[[2435]]
[प्रपा॰ ३ अनु॰ ९] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( वपाहोमाभिधानम् )
इव॒ ह्ये॑ष यो यज॑ते॒ यदु॑पतृ॒न्द्याद्रु॒द्रो॑ऽस्य प॒शून्घातु॑कः
स्या॒द्यन्नोप॑तृ॒न्द्यादय॑ता स्याद॒न्ययो॑पतृ॒णत्त्य॒न्यया॒ न
धृत्यै॑ घृ॒तेन॑ द्यावापृथिवी प्रोर्ण्वाथा॒मित्या॑ह॒ द्यावापृ-
थि॒वी ए॒व रसे॑नान॒क्त्यच्छि॑न्नः (३) रायः॑ सु॒वीर॒
इत्या॑ह यथाय॒जरे॒वैतत्क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यद्व-
पामु॑त्खि॒दत्युर्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑ह॒ शान्त्यै॒ प्र वा
ए॒षो॑ऽस्माल्लो॒काच्च्य॑वते॒ यः प॒शुं मृ॒त्यवे॑ नी॒यमा॑न-
मन्वा॒रभ॑ते वपा॒श्रप॑णी॒ पुन॑र॒न्वार॑भते॒ऽस्मिन्ने॒व लो॒के
प्रति॑ तिष्ठत्य॒ग्निना॑ पु॒रस्ता॑देति॒ रक्ष॑सा॒मप॑हत्या॒ अथो॑
दे॒वता॑ ए॒व ह॒व्येन॑ (४) अन्वे॑ति नान्त॒ममङ्गा॑-
र॒मति॑ हरे॒द्यद॑न्त॒ममङ्गा॑रमति॒हरे॑द्दे॒वता॒ अति॑ मन्येत॒
वायो॒ वीहि॑स्तो॒काना॒मित्या॑ह॒ तस्मा॒द्विभ॑क्ताः स्तो॒का
अव॑ पद्य॒न्तेऽग्नं॒ वा ए॒तत्प॑शू॒नां यद्व॒पाऽग्र॒मोष॑धीनां
ब॒र्हिरग्रे॑णै॒वाग्राँ॒ सम॑र्धय॒त्यथो॒ ओष॑धीष्वे॒व प॒शू-
न्प्रति॑ ष्ठापयति॒ स्वाहा॑कृतीभ्यः॒ प्रेष्येत्या॑ह (५)
य॒ज्ञस्य॒ समि॑ष्टयै प्राणापानौ वा ए॒तौ प॑शू॒नां यत्पृ॑-
षदा॒ज्यमा॒त्मा व॒पा पृ॑षदा॒ज्यम॑भि॒घार्य॑ व॒पाम॒भि
घा॑रयत्मा॒त्मन्ने॒व प॑शू॒नां प्रा॑णापा॒नौ द॑धाति॒ स्वाहो॒-
र्ध्वन॑भसं मारु॒तं ग॑च्छत॒मित्या॑हो॒र्ध्वन॑भा ह स्म॒ वै
मा॑रुतो दे॒वानां॑ वपा॒श्रप॑णी॒ प्र ह॑रति॒ तेनै॒वैने॒ प्र
ह॑रति॒ विषू॑ची॒ प्र ह॑रति॒ तस्मा॒द्विष्व॑ञ्चौ प्राणा-
पा॒नौ (६)।।
[[2436]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [ ६ षष्ठकाण्डे—
( अवदानाभिधानम् )
( स्वधि॑तिश्चै॒वाच्छि॑न्नो ह॒व्येने॒ष्येत्या॑ह॒ षट्च॑त्वारिँशच्च )
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके तृतीयप्रपाठके नवमोऽनुवाकः ।। ९।।