०८

( अथ षष्ठाष्टके तृतीयप्रपाठकेऽष्टमोऽनुवाकः )।
पर्य॑ग्नि करोति सर्व॒हुत॑मे॒वैनं॑ करो॒त्यस्क॑न्दा॒या-
स्क॑न्नँ॒ हि तद्यद्धु॒तस्य॒ स्कन्द॑ति॒ त्रिः पर्य॑ग्नि क-
रोति॒ त्र्या॑वृ॒ध्दि य॒ज्ञोऽथो॒ रक्ष॑सा॒मप॑हत्यै ब्रह्मवा॒दिनो॑
वदन्त्यन्वा॒रभ्यः॑ प॒शू३र्नान्वा॒रभ्या३ इति॑ मृ॒त्यवे॒
वा ए॒ष नी॑य॒ते यत्प॒शुस्तं यद॑न्वा॒रभे॑त प्र॒मायुको॒
यज॑मानः स्या॒दथो॒ खल्वा॑हुः सुव॒र्गाय॒ वा ए॒ष
लो॒काय॑ नीयते॒ यत् (१) प॒शुरिति॒ यन्नान्वा॒रभे॑त
सुव॒र्गाल्लो॒काद्यज॑मानो हीयेत वपा॒श्रप॑णीभ्याम॒-
न्वार॑भते॒ तन्नेवा॒न्वार॑ब्धं॒ नेवान॑न्वारब्धमुप॒ प्रेष्य॑
होतर्ह॒व्या दे॒वेभ्य॒ इत्या॑हेषि॒तँ हि कर्म॑ क्रि॒यते॒
रेव॑तीर्य॒प॑तिं प्रिय॒धाऽऽ वि॑श॒तेत्या॑ह यथाय॒जुरे॒वैत-
द॒ग्निना॑ पु॒रस्ता॑देति॒ रक्ष॑सा॒मप॑हत्यै पृथि॒व्याः सं॒पृचः॑
पा॒हीति॑ ब॒र्हिः (२) उपा॑स्य॒त्यस्क॑न्दा॒यास्क॑न्नँ॒ हि
तद्यद्ब॒र्हिषि॒ स्कन्द॒त्यथो॑ बर्हि॒॑षद॑मे॒वनं करोति॒ परा॒ङा
व॑र्ततेऽध्व॒र्यः प॒शोः सं॑ज्ञ॒प्यमा॑नात्प॒शुभ्य॑ ए॒व तन्नि
ह्नु॑त आत्मनोऽना॑व्रस्का॒य गच्छ॑ति॒ श्रियं॒ प्र पशूना॑-
प्नोति॒ य ए॒वं वेद॑ प॒श्वाल्लो॑का॒ वा ए॒षा प्राच्यु॒दानी॑-
यते॒ यत्पत्नी॒ नम॑स्त आता॒नेत्या॑हाऽऽदि॒त्यस्य॒ वै
र॒श्मयः॑ (३) आ॒ता॒नास्तेभ्य॑ ए॒व नम॑स्करोत्यन॒र्वा
प्रेहीत्या॑ह॒ भ्‍रात॑व्यो॒ वा अर्वा॒ भ्‍रातृ॑व्यापनुत्त्यै घृ॒तस्य॑
३०५

[[2434]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतमा— [ ६ षष्ठकाण्डे–
( वपाहोमाभिधानम् )
कु॒ल्यामनु॑ स्र॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णेत्या॑हा॒ऽऽ-
शिष॑मे॒वैतामा शा॑स्त॒ आपो॑ देवीः शुध्दायुव॒ इत्या॑-
ह यथाय॒जुरे॒ववैतत् (४)।।
( लो॒काय॑ नीयते॒ यद्ब॒र्ही र॒श्मयः॑
स॒प्तत्रिँ॑शच्‍च ) ।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके तृतीयप्रपाठकेऽष्टमोऽनुवाकः ।। ८।।