०७

(अथ षष्ठाष्टके तृतीयप्रपाठके सप्तमोऽनुवाकः )।
अ॒ग्निना॒ वै होत्रा॑ दे॒वा असु॑रान॒भ्य॑भवन्न॒ग्नये॑
समि॒ध्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै
स॒प्तद॑श सामिधे॒नीरन्वा॑ह सप्तद॒शः प्र॒जाप॑तिः
प्र॒जाप॑ते॒राप्त्यै॑ स॒प्तद॒शान्वा॑ह॒ द्वाद॑श॒ मासाः॒
पञ्च॒र्तवः॒ स सं॑वत्स॒रः सं॑वत्स॒रं प्र॒जा अनु॒ प्र जा॑-
यन्ते प्र॒जय॑नाय दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑
य॒ज्ञं नान्व॑पश्य॒त्ततो॒ नै दे॒वा य॒ज्ञमन्व॑पश्य॒न्यत्तूष्णी-
मा॑घा॒रमा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्या॒ असु॑रेषु॒ वै
य॒ज्ञ आ॑सी॒त्तं दे॒बास्तू॑ष्णीँ हो॒मेना॑वृञ्जत॒ यत्तू॒ष्णी-
मा॑धा॒रमा॑घा॒रय॑ति॒ भ्रातृ॑व्यस्यै॒व तद्य॒ज्ञं वृ॑ङ्क्ते परि॒-
धीन्त्सं मा॑र्ष्टि पु॒नात्ये॒वैना॒न्त्रिस्त्रिः॒ सं मा॑र्ष्टि त्र्या॑-
वृ॒ध्दि य॒ज्ञोऽथो॒ रक्ष॑सा॒मप॑हत्यै॒ द्वाद॑श॒ सं प॑द्यन्ते॒
द्वाद॑श(२)मासाः॑ संवत्स॒रः सं॑वत्स॒रमे॒व प्री॑णा॒त्यथो॑

[[2432]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतमा— [ ६ षष्ठकाण्डे—
( सामिधेन्याद्य भिधानम् )
संवत्स॒रमे॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒
सम॑ष्टयै॒ शिरो॒ वा ए॒तद्य॒ज्ञस्या॒ यदा॑घा॒रो॑ऽग्निः
सर्वा॑ दे॒वता॒ यदा॑घा॒रमा॑घा॒रय॑ति शीर्ष॒त ए॒व
य॒ज्ञस्य॒ यज॑मानः॒ सर्वां॑ दे॒वता॒ अव॑ रुन्धे॒ शिरो॒ वा
ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒र आ॒त्मा प॒शुरा॑घा॒रमा॒घार्य॑ प॒शुँ
सम॑नक्त्या॒त्मन्ने॒ब य॒ज्ञस्य॑ (३) शिरः॒ प्रति॑
दधाति॒ सं ते॑ प्रा॒णो वा॒युनां गच्छता॒मित्या॑ह
वायुदेव॒त्यो॑ वै प्रा॒णो वा॒यावे॒वास्य॑ प्रा॒णं जु॑होति॒
सं यज॑न्नै॒रङ्गा॑नि॒ सं य॒ज्ञप॑तिरा॒शिषेत्या॑ह य॒ज्ञप॑ति-
मे॒वास्या॒ऽऽशिषं॑ गमयति वि॒श्वारू॑पो॒ वै त्वा॒ष्ट्र उ॒प-
रि॑ष्टात्प॒शुम॒भ्य॑वमी॒त्तस्मा॑दु॒परि॑ष्टात्प॒शोर्नाव॑ । द्यन्ति॒
यदु॒परि॑ष्टात्प॒शुँ स॑म॒नक्ति॒ मेध्य॑मे॒व (४) ए॒नं॒
क॒रो॒त्य॒त्विजो॑ वृणीते॒ छन्दाँ॑स्ये॒व वृणीते स॒प्त
वृ॑णीते स॒प्त ग्रा॒म्याः पं॒शंवः॑ स॒प्ताऽऽर॒ण्याः स॒प्त
छन्दाँ॑स्यु॒भय॒स्याव॑रुद्ध्या॒ एका॑दश प्रया॒जान्य॑जति॒
दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो यावा॑ने॒व
प॒शुस्तं प्र य॑जति व॒पामेकः॒ परि॑ शय आ॒त्मैवाऽऽ
त्मानं॒ परि॑ शये॒ वज्‍रो॒ वै स्वधि॑ति॒र्वज्‍रो॑ यूपशक॒लो
घृ॒तं खलु॒ वै दे॒वा वज्‍रं॑ कृ॒त्वा सोम॑मघ्नन्घृ॒तेना॒क्तौ
प॒शुं त्रायेथा॒मित्या॑ह॒ वज्‍रेणै॒वैर्य॒ वशे॑ कृ॒त्वाऽऽ
ल॑भते ( ५ ) ।।

( आ॒घा॒रं प॑द्यन्ते॒ द्वाद॑शा॒ऽऽत्पचे॒व य॒ज्ञस्य॒
मेध्य॑मे॒व खलु॒ वा अष्टा॒द॑श च ) ।

[[2433]]

[प्रपा॰ ३ अनु॰ ८] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( पशुहिंसानाभिधानम् )

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके तृतीयप्रपाठके सप्तमोऽनुवाकः ।। ७।।