०६

(अथ षष्ठाष्टके तृतीयप्रपाठके षष्ठोऽनुवाकः )।
इ॒षे त्वेति॑ ब॒र्हिरा द॑त्त इ॒च्छत॑ इव॒ ह्ये॑ष यो
यज॑त उप॒वीर॒सीत्या॒होप॒ ह्ये॑नानाक॒रोत्युपो॑ दे॒वान्दै-
वी॒र्विशः॒ प्रागु॒रित्या॑ह॒ दैवी॒र्ह्ये॑ता विशः॑ स॒तीर्दे॒वानु॑प॒-
यन्ति॒ वह्री॑रु॒शिज॒ इत्या॑ह॒र्त्विजो॒ वै वह्न॑य उ॒शिज॒स्त-
स्मा॑दे॒वमा॑ह बृह॑स्पते धा॒रया॒ वसू॒नीति॑ (१)
आ॒ह॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑-
रुन्धे ह॒व्या ते॑ स्वदन्ता॒मित्या॑ह स्व॒दय॑त्ये॒वैना॒न्देव॑
त्वष्ट॒र्वसु॑ र॒ण्वेत्या॑ह॒ त्वष्टा॒ वै प॑शू॒नां मि॑थुनानाँ॑
रूप॒कृद्रू॒पमे॒व प॒शुषु॑ दधाति॒ रेव॑ती॒ रम॑ध्व॒मित्या॑ह
प॒शवो॒ वै रे॒वतीः॑ प॒शूने॒वास्मै॑ रमयति दे॒वस्य॑ त्वा
सवि॒तुः प्र॑स॒व इति॑ (२) र॒श॒नामा द॑त्ते॒ प्रसू॑त्या
अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू
आस्तां॑ पूष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्या॑ ऋ॒तस्य॑
त्वा देवहविः॒ पाशे॒नाऽऽर॑भ॒ इत्या॑ह स॒त्यं वा ऋ॒तँ
स॒त्येनै॒वैन॑मृ॒तेनाऽऽ र॑भतेऽक्ष्ण॒या परि॑ हरति॒ वध्यँ॒
हि प्र॒त्यञ्चं॑ प्रतिमु॒ञ्चन्ति॒ व्यावृ॑त्त्यै॒ धर्षा॒ मानु॑षा॒निति॒
नि यु॑नाक्ति॒ धृत्या॑ अद्भ्यः (३) त्वौष॑धीभ्यः॒
प्रोक्षा॒मीत्या॑हा॒द्भ्यो ह्ये॑ष ओष॑धीभ्यः सं॒भव॑ति॒
यत्प॒शुर॒पां पे॒रुर॒सीत्या॑है॒ष ह्य॑पां पा॒ता यो मेधा॑-
याऽऽ र॒भ्यते॑ स्वा॒त्तं चि॒त्सदे॑वँ ह॒व्यमापो॑ देवीः॒

[[2431]]

[प्रपा॰ ३ अनु॰ ७] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( असामिधेन्याद्याभिधानम् )
स्वद॑तैन॒मित्या॑ह स्व॒दय॑त्ये॒वैनमु॒परि॑ष्टा॒त्प्रोक्ष॑त्यु॒परि॑-
ष्टादे॒वैनं॒ मेध्यं॑ करोति पा॒यय॑त्यन्तर॒त ए॒वैनं॒ मेध्यं॑
करोत्य॒धस्ता॒दुपो॑क्षति स॒र्वत॑ ए॒वैनं॒ मेध्यं॑ करोति
( ४ ) ।।
( वसू॒नीति॑ प्रस॒व इत्य॒द्भ्यो॑ऽन्तर॒त
ए॒वैनं॒ दश॑ च ) ।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके तृतीयप्रपाठके षष्ठोऽनुवाकः ।। ६।।