०५

(अथ षष्ठाष्टके तृतीयप्रपाठके पञ्चमोऽनुवाकः )।
सा॒ध्या वै दे॒वा अ॒स्मिल्लोँ॒के आ॑स॒न्नान्यत्किंच॒न
मि॒षत्ते॑ऽग्निमे॒वाग्नये॒ मेधा॒याऽल॑भन्त॒ न ह्य॑न्यदा॑-
ल॒म्भ्य॑मवि॑न्द॒न्ततो॒ वा इ॒माः प्र॒डाऋ प्रजा॑यन्त॒

[[2429]]

[प्रपा॰ ३ अनु॰ ४] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( अग्निमन्थनाभिधानम् )
यद॒ग्नाव॒ग्निं म॑थि॒त्वा प्र॒हर॑ति प्र॒जानां॑ प्र॒जन॑नाय रुद्रो॒
वा ए॒ष यद॒ग्निर्यज॑मानः प॒शर्यत्प॒शुमा॒लभ्या॒ग्निं
मन्थे॑द्रु॒द्राय॒ यज॑मानम् (१) अपि दध्यात्प्र॒मायु॑कः
स्या॒दथो॒ खल्वा॑हुर॒ग्निः सर्व॑ दे॒वता॑ ह॒विरे॒तद्यत्प॒शु-
रिति॒ यत्प॒शुमा॒लभ्या॒ग्निं मन्थ॑ति ह॒व्यायै॒वाऽऽस॑-
न्नाय॒ सर्वा॑ दे॒वता॑ जनयत्युपा॒कृत्यै॒व मन्थ्य॒स्तन्ने-
वाऽऽल॑ब्धं॒ नेवाना॑लब्धम॒ग्नेर्ज॒नित्र॑म॒सीत्या॑ह॒ग्ने॑र्ह्ये-
तज्ज॒नित्रं॒ वृष॑णौ स्थ॒ इत्या॑ह वृष॑णौ (२) ह्ये॑ता-
वुर्वश्य॑स्या॒युर॒सीत्या॑ह मिथुन॒त्वाय॑ घृ॒तेना॒क्ते वृष॑णं
दधाथा॒मित्या॑ह॒ वृष॑णँ॒ ह्ये॑ते दधा॑ते॒ ये अ॒ग्निं
गा॑य॒त्रं छन्दोऽनु॒ प्र जाय॑य॒स्वेत्या॑ह॒ छन्दो॑भिरे॒वैनं॒ प्र
ज॑नयत्य॒ग्नये॑ मथ्यमाना॒यानु॑ ब्रू॒हीत्या॑ह सावि॒त्री-
मृच॒मन्वा॑ह सवि॒तृप्र॑सूत ए॒वैनं॑ मन्थति जा॒तायानु॑
ब्रूहि (३) प्र॒ह्रि॒यमा॑णा॒यानु॑ ब्रू॒हीत्या॑ह॒ काण्डे॑काण्ड
ए॒वैनं॑ क्रि॒यमा॑णे॒ सम॑र्धयति गाय॒त्रीः सर्वा॒ अन्वा॑ह
गाय॒त्रछ॑न्दा॒ वा अ॒ग्निः स्वेनै॒वैनं॒ छन्द॑सा॒ सम॑र्ध-
यत्य॒ग्निः पु॒रा भ॑वत्य॒ग्निं म॑थि॒त्वा प्र ह॑रति॒ तौ
सं॒भव॑न्तौ॒ यज॑मानम॒भि सं भ॑वतो॒ भव॑तं नः॒
सम॑नसा॒वित्या॑ह॒ शान्त्यै॑ प्र॒हृत्य॑ जुहोति जा॒तायै॒-
वास्मा॒ अन्न॒मपि॑ दधा॒त्याज्ये॑न जुहोत्ये॒तद्वा अ॒ग्नेः
प्रियं॒ थाम॒ यदाज्यं॑ प्रि॒येणै॒वैनं॒ घाम्ना॒ सम॑र्धय॒त्यथो॒
तेज॑सा (४) ।।
( यज॑मानमाह॒ वृष॑णौ जा॒तायानु॑ ब्रू॒ह्यप्य॒-
ष्टाद॑ष च )।

[[2430]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतमा— [ ६ षष्ठकाण्डे—
( पशुनियोजनम् )

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके तृतीयप्रपाठके पञ्चमोऽनुवाकः ।। ५।।