०२

(अथ षष्ठाष्टके तृतीयप्रपाठके द्वितीयोऽनुवाकः )।
सु॒व॒र्गाय॒ वा ए॒तानि॑ लो॒काय॑ हूयन्ते॒ यद्वै॑सर्ज॒-
नानि॒ द्वाभ्यां॒ गार्ह॑पत्ये जुहोति द्वि॒पाद्यजमानः॒ प्रति॑-
ष्ठित्या॒ अग्नी॑ध्रे जुहोत्य॒न्तरि॑क्ष ए॒वाऽऽक्र॑मत आह-
व॒नीये॑ जुहोति सुव॒र्गमेवै॑नं लोकं ग॑मयति दे॒वान्वै
सु॑वर्गं लो॒कं य॒तो रक्षाँ॑स्यजिघाँस॒न्ते सोमे॑न॒
राज्ञा॒ रक्षाँस्यप॒हत्या॒प्तमा॒त्मानं॑ कृ॒त्वा सु॑व॒र्गं
लो॒कमा॑य॒न्‍रक्ष॑सा॒मनु॑पलाभा॒याऽऽत्तः॒ सोमो॑ भ॒व-
त्यथ॑ ( १ ) वै॒स॒र्ज॒नानि॑ जुहोति॒ रक्ष॑सा॒मप॑हत्यै॒ त्वंँ
सो॑म तनू॒कृद्भय॒ इत्या॑ह तनृकृद्धये॑ष द्वेषो॑भ्य॒ऽन्यकृ॑-
तेभ्य॒ इत्या॑हा॒न्यकृ॑तानि॒ हि रक्षाँ॑स्यु॒रु य॒न्ता॑ऽसि॒
वरू॑थ॒मित्या॑हो॒रु ण॑स्कृधीति॒ वावैतदा॑ह जुषा॒णो
अ॒प्तुराज्य॑स्य वे॒त्वित्या॑हा॒प्तुमे॒व यज॑मानं कृ॒त्वा
सु॑व॒र्गं लो॒कॆ ग॑मयति॒ रक्ष॑सा॒मनु॑पलाभा॒याऽऽ

[[2423]]

[प्रपा॰ ३ अनु॰ २] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( अग्नीषोमप्रणयनाभिधानम् )
सोमं॑ ददते ( २ ) आ ग्रा॒व्णा॒ आ वा॑य॒व्या॑न्या
द्रो॑णकल॒शमुत्पत्नी॒मा न॑य॒न्त्यन्वनाँ॑सि॒ प्र व॑र्त-
यन्ति॒ याव॑दे॒वास्यास्ति॒ तेन॑ स॒ह सु॑व॒र्गं लोकमे॑ति॒
नय॑वत्य॒र्चाऽऽग्नी॑धे जु॒होति सुव॒र्गस्य॑ लो॒कस्या॒-
भिनीत्यै॒ ग्राव्णो॑ वाय॒व्या॑नि द्रोणकल॒शमाग्नी॑ध्र॒
उप॑ वासयति॒ वि ह्ये॑नं॒ तैगृ॑ह्णते॒ यत्स॒होप॑वा॒सये॑दपु-
वा॒येत॑ सौम्यर्चा प्र पा॑दयति॒ स्वया॑ ( ३ ) ए॒वैनं॑
दे॒वत॑या प्र पा॑दय॒त्यदि॑त्याः॒ सदो॒ऽस्यादि॑त्याः॒ पद॒
आ सी॒देत्या॑ह यथाय॒जुरे॒वैतद्यज॑मानो॒ वा ए॒तस्य॑
पु॒रा गो॒प्ता भ॑वत्ये॒ष वो॑ देव सवितः॒ सोम॒ इत्या॑ह
सवि॒तृप्र॑सूत ए॒वैनं॑ दे॒वता॑भ्यः॒ सं प्र य॑च्छत्ये॒तत्त्वँ
सो॑म दे॒वो दे॒वानुपा॑गा॒ इत्या॑ह दे॒वो ह्ये॑ष मन् ( ४ )
दे॒वानु॒पैती॒दम॒हं म॑नुष्यो॑ मनु॒ष्या॑नित्या॑ह मनु॒ष्यो॑ १॒
ह्ये॑ष सन्म॑नु॒ष्या॑नु॒पैति॒ यदे॒तद्यजु॒र्न ब्रू॒यादप्र॑जा अप॒-
शुर्यज॑मानः स्यात्स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णेत्या॑ह
प्र॒जयै॒व प॒शुभिः॑ स॒हेमं लो॒कमुपाव॑र्तते॒ नमो॑ दे॒वैभ्य॒
इत्या॑ह नमस्का॒रो हि दे॒वानाँ॑ स्व॒धा पि॒तृभ्य
इत्या॑ह स्वधाका॒रो हि ( ५ ) पि॒तृ॒णामि॒दम॒हं निर्व-
रु॑णस्य॒ पाशा॒दित्या॑ह वरुणपा॒शादे॒व निर्मु॑च्य॒तेऽग्ने॑
व्रतपत आ॒त्मनः॒ पुर्वा॑ त॒नूरा॒देयेत्या॑हुः को हि
तद्वेद॒ यद्वसी॑या॒न्त्स्वे वशे भू॒ते पुन॑र्वा॒ ददा॑ति॒ न
वेति ग्रावा॑णो॒ वै सोम॑स्य॒ राज्ञो॑ मलिम्लुसेना य
ए॒वं विद्वान्ग्राव्ण॒ आग्री॑ध्र उपवासयति॒ नैनं॑ मलि-
म्लुसे॒ना वि॑न्दति ( ६ ) ।।

[[2424]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतमा— [ ६ षष्ठकाण्डे—-
( यूपखण्डनाभिधानम् )

( अथ ददते॒ स्वया॒ सन्त्स्व॑धाका॒रो हि वि॑न्दति ) ।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके तृतीयप्रपाठके द्वितीयोऽनुवाकः ।। २।।