( तत्र प्रथमोऽनुवाकः ) ।
ह॒रिः॒ ॐ ।
चात्वा॑ला॒ध्दिष्णि॑या॒नुप॑ वपति॒ योनि॒र्वै य॒ज्ञस्य॒
चात्वा॑लं य॒ज्ञस्य॑ सयोनि॒त्वाय दे॒वा वै य॒ज्ञं परा॑-
ऽजयन्त॒ तमाग्नी॑ध्रा॒त्पुनरपा॑जयन्ने॒तद्वै य॒ज्ञस्यापरा-
जितं॒ यदाग्नी॑ध्रं॒ यदाग्नी॑ध्रा॒ध्दिष्णि॑यान्वि॒हर॑ति॒ यदे॒व
य॒ज्ञस्याप॑रांजितं॒ तत॑ ए॒वैनं॒ पुन॑स्तनुते परा॒जि-
त्वे॑व॒ खलु॒ वा ए॒ते य॑न्ति॒ ये ब॑हिष्पवमा॒नँ
सर्प॑न्ति बहिष्पवमा॒ने स्तु॒ते ( १ ) आ॒हाग्नी॑द॒ग्नी-
न्वि ह॑र ब॒र्हिः स्तृ॑णाहि पुरो॒डाशाँ॒ अलं॑ कु॒र्विति॑
य॒ज्ञमे॒वाप॒जित्य॒ पुन॑स्तन्वा॒ना य॒न्त्यङ्ग॑रै॒र्द्वै सव॑ने॒
वि ह॑रति श॒लाका॑भिस्तृ॒तीयँ॑ सशुक्र॒त्वायाथो॒ सं
भ॑रत्ये॒वैन॒ध्दिष्णि॑या॒ वा अ॒मुष्णि॑ल्लोँके सोम॑मरक्ष॒न्ते-
भ्योऽधि॒ सोम॒माऽह॑र॒न्तम॑न्व॒वाय॒न्तं पर्य॑विश॒न्य ए॒वं
[[2421]]
[प्रपा॰ ३ अनु॰ १] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( धिष्णियाभिधानम् )
वेद॑ वि॒दन्ते॑ ( २ ) प॒रि॒वे॒ष्टारं॒ ते सोमपी॒थेन॒
व्या॑र्ध्यन्त॒ ते दे॒वेषु॑ सोमपी॒थमै॑च्छन्त॒ तान्दे॒वा अ॑ब्रु-
व॒न्द्वेद्वे॒ नाम॑नी कुरुध्व॒मथ॒ प्रा वा॒ऽऽप्स्यथ॒ न
वेत्य॒ग्नयो॒ वा अथ॒ धिष्णि॑या॒स्तस्मा॑द्द्वि॒नामा॑ ब्राह्म॒-
णोऽर्धुक॒स्तेषां॒ ये नेदि॑ष्ठं प॒र्यवि॑शन्ते सो॑मपी॒थं
प्राऽऽप्नु॑वन्नाहव॒नीय॑ आग्नी॒ध्रीयो॑ हो॒त्रीयो॑ मार्जा॒ली-
य॒स्तस्मा॒त्तेषु॑ जुह्वत्यति॒हाय॒ वष॑करोति॒ वि हि
( ३ ) ए॒ते सो॑मपी॒थेनाऽऽर्ध्य॑न्त दे॒वा वै याः प्रची॒-
राहि॑तीरजु॑हवुर्ये पु॒रस्ता॒दसु॑रा॒ आस॒न्ताँस्ताभिः॒
प्राणु॑दन्त॒ याः प्रतीची॒र्ये प॒श्वादसु॑रा॒ आस॒न्ताँस्ता-
भि॒रपा॑नुदन्त॒ प्राची॑र॒न्या आहु॑तयो हू॒यन्ते॑ प्र॒त्यङ्ङा-
सी॑नो॒ धिष्णि॑या॒न्व्याघार॑यति पश्वाच्चै॒व पु॒रस्ता॑च्च॒
यज॑मानो॒ भ्रातृ॑व्य॒न्प्रणु॑दते॒ तस्मा॒त्परा॑चीः प्र॒दाः
प्र वी॑यन्ते प्र॒तीचीः॑ ( ४ ) जा॒य॒न्ते॒ प्रा॒णा वा
ए॒ते यध्दिष्णि॑या॒ यद॑ध्व॒र्युः प्र॒त्यङ्धिष्णि॑यानति॒-
सर्पे॑त्प्रा॒णान्त्सं क॑र्षेत्प्र॒मायु॑कः स्या॒न्नाभि॒र्वा ए॒षा
य॒ज्ञस्य॒ यध्दोतो॒र्ध्वः खलु॒ वै नाभ्यै॑ फ्राणोऽवाङ॑पा॒नो
यद॑ध्व॒र्युः प्र॒त्यङ्होता॑रमति॒र्सेप॑दपा॒ने प्रा॒णं द॑ध्यात्प्र॒-
मायु॑कः स्या॒न्नाध्व॒र्युरुप॑ गाये॒द्वाग्वी॑र्यो॒ वा अ॑ध्व॒र्यु-
र्यद॑ध्व॒र्युरु॑प॒गाये॑दिद्गा॒त्रे ( ५ ) वाचँ सं प्र य॑च्छे-
दुप॒दासु॑काऽस्य॒ वाक्स्या॑द्ब्रह्मवा॒दिनो॑ वदन्ति॒ नासँ॑-
स्थिते॒ सोमे॑ऽध्व॒र्युः प्र॒त्यङ्सदोऽती॑या॒दथ॑ क॒था
दा॑क्षि॒णानि॒ होतु॑मेति यामो॒ हि स तेषां॒ कस्मा॒
[[2422]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतमा— [ ६ षष्ठकाण्डे—–
( अग्नीषोमप्रणयनाभिधानम् )
अह॑ दे॒वा यामं॒ वाऽनु॑ ज्ञास्यन्तीत्युत्त॑रे॒-
णाऽऽग्नी॑ध्रं परी॒त्य॑ जुहोति दाक्षि॒णानि॒ न प्रा॒णा
न्त्सं क॑र्षति॒ व्य॑न्ये धिष्णि॑या उ॒ष्यन्ते॒ नान्ये यान्नि॒-
वप॑ति॒ तेन॒ तान्प्री॑णाति॒ यान्न नि॒वप॑ति॒ यद॑नुदि॒-
शति॒ तेन॒ तान् ( ६ ) ।।
( स्तु॒ते वि॒न्दते॒ हि वी॑यन्ते प्र॒तीची॑रुद्गा॒त्र
उ॒प्यन्ते॒ चतु॑र्दश च ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके तृतीयप्रपाठके प्रथमोऽनुवाकः ।। १।।