(अथ षष्ठाष्टके द्वितीयप्रपाठके एकादशोऽनुवाकः )।
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यध्द॑वि॒र्धानं॑ प्रा॒णा उ॑पः
र॒वा ह॑वि॒र्धाने॑ खायन्ते॒ तस्मा॑च्छा॒र्षन्प्रा॒णा अ॒ध-
स्ता॑त्खायन्ते॒ तस्मा॑द॒धस्ता॑च्छीर्ष्णः प्रा॒णा र॑क्षो॒-
हणो॑ वलग॒हनो॑ वैष्ण॒वान्खंना॒मीत्या॑ह वैष्ण॒वा हि
दे॒वत॑योपर॒वा असु॑रा॒ वै नि॒र्यन्तो॑ दे॒वानां॑ प्रा॒णेषु॑
वल॒गान्नय॑खनन्तान्बा॑हुमा॒त्रेऽन्व॑विन्द॒न्तस्मा॑द्बाहुमा॒-
त्राः खायन्त इ॒दमहं तं व॑ल॒गमुद्वापामि ( १ ) यं
नः॑ समा॒नो यमस॑मानो निच॒खानेत्या॑ह॒ द्वौ वाव
पुरु॑षौ॒ यश्चैव स॑मानो यश्चास॑मानो॒ यमे॒वास्मै॒ तौ
[[2419]]
[प्रपा॰ २ अनु॰ ११] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( उपरवाभिधानम् )
व॑ल॒गं नि॒खन॑त॒स्तमे॒वोद्व॑पति॒ संतृ॑णत्ति॒ तस्मा॒त्सं-
तृ॑ण्णा अन्तर॒तः प्रा॒णा न सं भिनत्ति॒ तस्मा॒दसं॑-
भिन्नाः प्रा॒णा अ॒पोऽव॑ नयति॒ तस्मा॑दा॒र्द्रा अ॑न्तर॒तः
प्रा॒णा यव॑मती॒रवं नयति ( २ ) ऊर्ग्वै यवः॑ प्रा॒णा
उ॑पर॒वाः प्रा॒णेष्वे॒वोर्ज॑ दधाति बर्हि॒रव॑ स्तृणाति॒
तस्मा॑ल्लोम॒शा अ॑न्तर॒तः प्रा॒णा आज्ये॑न॒ व्याघा-
रयति॒ तेजो॒ वा आज्यं॑ प्रा॒णा उ॑पर॒वाः प्रा॒णेष्वे॒व
तेजो॑ दधाति॒ हनू॒ वा ए॒ते य॒ज्ञस्य॒ यद॑धि॒षव॑णे॒ न
सं तृ॑ण॒त्त्यसं॑तृण्णे हि हनू॒ अथो॒ खलु॑ दीर्घसो॒मे
सं॒तृद्ये॒ धृत्यै॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य यध्द॑वि॒र्धान॑म्
( ३ ) प्रा॒णा उ॑पर॒वा हनू अधि॒षवणे जि॒ह्वा चर्म॒
ग्रावा॑णो॒ दन्तां॒ मिख॑माहव॒नीयो॒ नासि॑कोत्तरवे॒-
दिरु॒दरँ॒ सदो॑ य॒दा खलु॒ वै जि॒ह्वया॑ द॒त्स्वधि॒
खाद॒त्यथ॒ मुखं॑ गच्छति य॒दा मुखं॒ गच्छ॒त्यथो॒-
दरं॑ गच्छति॒ तस्मा॑ध्दवि॒र्धाने॒ चर्म॒न्नधि॒ ग्राव॑भिर-
भि॒षुत्या॑ऽऽहव॒नीये॑ हु॒त्वा प्र॒त्यञ्चः॑ प॒रेत्य॒ सद॑सि
भक्षयन्ति॒ यो वै वि॒राजो॑ यज्ञमु॒खे दोहं॒ वेद॑ दु॒ह
ए॒वैनामि॒यं वै वि॒राट्तोस्यै॒ त्वक्चर्मोधो॑ऽषव॑णे॒
स्तना॑ उपर॒वा ग्रावा॑णो व॒त्सा ऋत्विजो॑ दुहन्ति॒
सोमः॒ पयो॒ य ए॒वं वेद॑ दु॒ह ए॒वैना॑म् ( ४ ) ।।
( व॒पा॒मि॒ यव॑मती॒रव॑ नयति हवि॒र्धानमे॒व
त्रयो॑विँशतिश्च ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके द्वितीयप्रपाठके एकादशोऽनुवाकः ।। ११।।
[[2420]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [ ६ षष्ठकाण्डे—-
( धिष्णियाभिधानम् )
यतु॒भौ दे॑वासु॒रा मि॒थस्तेषाँ॑ सुव॒र्गं यद्वा अनींशानः पु॒रोह॑विषइ॒ तेभ्य॑ उत्तरवे॒दिः सोत्त॑वेदिर्ब॒ध्दं दे॒वस्याभ्रिँ॒ शिरो॒ वा एका॑दश ।। ११।।
यदु॒भावित्या॑ह दे॒वानां॑ य॒ज्ञो दे॒वेभ्यो॒ न रथा॑य॒ यज॑मानाय
प॒रस्ता॑द॒र्वाचीं॒ नव॑पञ्चा॒शत् ।। ४९।।
हरिः॑ ॐ
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके द्वितीयः
प्रपाठकः ।। २।।