१०

(अथ षष्ठाष्टके द्वितीयप्रपाठके दशमोऽनुवाकः )।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्यभ्‍रि॒मा द॑त्ते॒
प्रसू॑त्या अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वा-
ना॑मध्व॒र्यू आस्तां पूष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्यै॒
वज्‍र॑ इव॒ वा ए॒षा यदभ्‍रि॒रभ्‍रि॑रसि॒ नारि॑र॒सीत्या॑ह॒
शान्त्यै॒ काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षा॑
ँसि जिघाँसन्ति॒ परि॑लिखितँ॒ रक्षः॒ परि॑लि-
खिता॒ अरा॑तय॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै ( १ )
इ॒दम॒हँरक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो॑ऽस्मान्द्वेष्टि॒
यं च॑ व॒यं द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यं चै॒व
द्वेष्टि॒ यश्चै॑नं॒ द्वेष्टि॒ तयो॑रे॒वान॑न्तरायं ग्री॒वाः कृ॑न्तति
दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वेत्या॑हे॒भ्य
ए॒वैनां॑ लो॒केभ्यः॒ प्रोक्ष॑ति प॒रस्ता॑द॒र्वाचीं॒ प्रोक्ष॑ति॒
तस्मा॑त् ( २ ) प॒रस्ता॑द॒र्वाचीं॒ मनुष्या॑ ऊर्जा॒मुप॑
जीवन्ति क्रूरमिव॒ वा ए॒तत्क॑रोति॒ यत्खन॑त्य॒पोऽव॑
नयति॒ शान्त्यै॒ यव॑मती॒रव॑ नय॒त्यूर्ग्वै यव॒ ऊर्गु॑दु॒म्बर॑
ऊ॒र्जैवोर्जँ॒ सम॑र्धयति॒ यज॑मानेन॒ संमि॒तौदु॑म्बरी
भवति॒ यावा॑ने॒ब यज॑मान॒स्ताव॑तीमे॒वास्मि॒न्नूर्जा॑
दधाति पितृ॒णाँ सद॑नम॒सीति॑ ब॒र्हिरव॑ स्तृणाति

[[2417]]

[प्रपा॰ २ अनु॰ १०] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( सदोभिधानम् )
पितृदेव॒त्य॑म् ( ३ ) ह्ये॑तद्यन्निखा॑तं॒ यद्ब॒र्हिर॑न-
व॒स्तीर्य मिनु॒यात्पि॑तृदेव॒त्या॑ निखा॑ता स्याद्ब॒र्हिर॑-
व॒स्तीर्य॑ मिनोत्य॒स्यामे॒वैनां॑ मिनो॒त्यथो स्वा॒रुह॑-
मे॒वैनां॑ करो॒त्युद्दिवँ॑ स्तभा॒नाऽन्तरि॑क्षं पृणेत्या॑हे॒षां
लो॒कानां॒ विधु॑त्ये द्युतानस्त्वा॑ मारु॒तो मि॑नो॒त्वित्या॑ह
द्युता॒नो ह॑ स्म॒ वै मा॑रु॒तो दे॒वाना॒मौदु॑म्बरीं
मिनोति॒ तेनै॒व ( ४ ) ए॒नां॒ मि॒नो॒ति॒ ब्र॒ह्म॒वनिं॑
त्वा क्षत्र॒वनि॒मित्या॑ह यथाय॒जुरे॒वैतद्घृतेन॑ द्यावापृ-
थिवी॒ आ पृ॑णेथा॒मित्यौदु॑म्बर्यां जुहोति॒ द्यावा॑पृ-
थि॒वी ए॒व रसे॑नानक्त्या॒न्तम॒न्वव॑स्रावयत्या॒न्तमे॒व
यज॑मानं॒ तेज॑साऽनक्त्यै॒न्द्रम॒सीति॑ छ॒दिरधि॒ नि
द॑धात्यै॒न्द्रँ हि दे॒वत॑या॒ सदो॑ विश्वज॒त्तस्य॑ छा॒ये-
त्या॑ह विश्वज॒नस्य॒ ह्ये॑षा छा॒या यत्सदो॒ नव॑छदि
( ५ ) तेज॑स्कामस्य मिनुयात्रि॒वृता॒ स्तोमे॑न
संमि॑तं तेज॑स्त्रि॒वृत्तेज॒स्व्ये॑व भ॑व॒त्येका॑दशछदीन्द्री॒य
का॑म॒स्यैका॑दशाक्षरा त्रि॒ष्टिगि॑न्द्रि॒यं त्रि॒ष्टुगिन्द्रि-
या॒व्ये॑व भ॑वति पञ्च॑दशछदि॒ भ्‍रातु॑व्यवतः पञ्चदशो॒
बज्रो॒ भ्‍रतृ॑व्याभिभूत्यै स॒प्तद॑शछदि प्र॒जाका॑मस्य
सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॒ एक॑विँशति-
छदि प्रति॒ष्ठाका॑मस्यैकविँ॒शः स्तोमा॑नं प्रति॒ष्टा
प्रति॑ष्ठित्या उ॒दरं॒ वै सद॒ ऊर्गु॑दुम्बरो॑ मध्य॒त औदु॑-
म्बरीं मिनोति बध्य॒त ए॒व प्र॒जाना॒मूर्ज॑ दधाति॒ त-
स्मा॑त् ( ६ ) म॒ध्य॒त ऊ॒र्जा भुञ्जते यजमानलो॒के
३०३

[[2418]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [ ६ षष्ठकाण्डे—-
( उपरवाभिधानम् )
वै दक्षि॑णानि छ॒दीँषि॑ भ्‍रातृव्यलो॒क उत्त॑राणि॒
दक्षि॑णा॒न्युत्त॑राणि करोति॒ यज॑मानमे॒वाय॑जमाना॒-
दुत्त॑रं करोति॒ तस्मा॒द्यज॑मा॒नोऽय॑जमाना॒दुत्त॑रोऽन्त-
र्व॒र्तान्क॑रोति॒ व्यावृ॑त्त्यै॒ तस्मा॒दर॑ण्य प्र॒जा उप॑ जी-
वन्ति॒ परि॑ त्वा गिर्व॑णो॒ गिर॒ इत्या॑ह यथाय॒जुरे॒वै-
तदिन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वम॒सीत्या॑है॒न्द्रँ हि
दे॒वत॑या॒ सदो॒ यं प्र॑थ॒मं ग्र॒न्थिं ग्र॑थ्नी॒याद्यत्तं न
वि॑स्र॒ुसयेदमे॑हेनाध्व॒र्युः प्र मी॑येत॒ तस्मा॒त्म वि॒-
स्त्रस्यः॑ ( ७ )।।
( अप॑हत्यै॒ तस्मा॑त्पितृदेव॒त्यं॑ तेनै॒व नव॑छदि॒
तस्मा॒त्सदः॒ पञ्च॑दश च ) ।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके द्वितीयप्रपाठके दशमोऽनुवाकः ।। १०।।