(अथ षष्ठाष्टके द्वितीयप्रपाठके नवमोऽनुवाकः )।
ब॒ध्दमव॑ स्यति वरुणपा॒शादे॒वैने॑ मुञ्चति॒ प्र
णे॑नेक्ति॒ मेध्ये॑ एवैने॑ करोति सावित्रि॒यर्चा हु॒त्वा
ह॑वि॒र्धाने॒ प्र व॑र्तयति सवि॒तृप्र॑सूत ए॒वैने॒ प्र व॑र्तयति॒
वरु॑णो॒ वा ए॒ष दुर्वागु॑भ॒यतो॑ ब॒ध्दो यदक्षः॒ स यदु॒-
त्सर्जे॒द्यज॑मानस्य गृहान॒भ्युत्स॑र्जेत्सु॒वाग्दे॑व॒ दुर्याँ॒
आ व॒देत्या॑ह गृ॒हा वै दुर्याः शान्त्यै॒ पत्नी॑ ( १ )
[[2415]]
[प्रपा॰ २ अनु॰ ९] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( व्याघारणविधिः )
उपा॑नक्ति॒ पत्नी॒ हि सर्व॑स्य मि॒त्रं मि॑त्र॒त्वाय॒ यद्वै
पत्नी॑ यज्ञस्य क॒रोति॑ मिथु॒नं तदथो॒ पत्नी॑या
ए॒वैष य॒ज्ञस्या॑न्वार॒म्भोऽन॑वच्छित्त्यै॒ वर्त्म॑ना॒ वा
अ॒न्वित्य॑ य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति वैष्णा॒वी-
भ्या॑मृ॒ग्भ्यां वर्त्म॑नोर्जुहोति य॒ज्ञो वै विष्णा॑र्य॒ज्ञादे॒व
रक्षाँ॒स्यप॑ हन्ति॒ यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिं जुहु॒याद॒-
न्धो॑ऽध्व॒र्युः स्या॒द्रक्षाँ॑सि य॒ज्ञँ ह॑न्युः ( २ )
हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो॑ऽ-
ध्व॒र्युर्भव॑ति॒ न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति॒ प्राची॒
प्रेत॑मध्व॒रं क॒ल्पय॑न्ती॒ इत्या॑ह सुव॒र्गमे॒वैने॑ लो॒कं
ग॑मय॒त्यत्र॑ रमेथां॒ वर्ष्म॑न्पृथिव्या इत्या॑ह॒ वर्ष्म॒
ह्येतत्पृथिन्या यद्दे॑व॒यज॑नँ॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य
यध्द॑वि॒र्धानं॑ दि॒वो वा॑ विष्णवु॒त वा॑ पृथिव्याः
( ३ ) इत्या॒शी॑र्पदय॒र्चा दक्षि॑णस्य हवि॒र्धान॑स्य़
मे॒थीं नि हन्ति शीर्ष॒त ए॒व य॒ज्ञस्य॒ यज॑मान
आ॒शिषोऽव॑ रुन्धे द॒ण्डो वा औ॑प॒रस्तृ॒तीय॑स्य
हवि॒र्धान॑स्य वषट्कारेणाक्ष॑मच्छिन॒द्यत्तृ॒तीयं॑ छ॒दि-
र्ह॑वि॒र्धान॑योरुदाह्रि॒यते॑ तृतीय॑स्य हवि॒र्धान॒स्याव॑-
रुध्दयै॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यध्द॑वि॒र्ध्यानं॒ विष्णो॑
र॒राट॑मसि विष्णोः॑ पृ॒ष्ठम॒सीत्या॑ह॒ तस्मा॑देताव॒ध्दा
शिरो॒ विष्यू॑तं॒ विष्णोः॒ स्यूर॑सि॒ विष्णो॑र्ध्रुवम॒सी-
त्या॑ह वैष्णा॒वँ हि देवत॑या हवि॒र्धानं॒ यं प्र॑थ॒मं
ग्र॒न्थिं ग्र॑थ्नी॒याद्यत्तं न वि॑स्रँ॒सये॒दमे॑हेनाध्व॒र्युः
प्र मी॑येत॒ तस्मा॒त्स वि॒स्रस्यः॑ ( ४ ) ।।
[[2416]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [ ६ षष्ठकाण्डे—
( सदोभिधानम् )
( पत्नी॑ ह॒न्युर्वा पृ॑थि॒व्या विष्यू॑तं॒ विष्णोः॒
षडिँ॒॑शतिश्च ।)
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके द्वितीयप्रपाठके नवमोऽनुवाकः ।। ९।।