०८

(अथ षष्ठाष्टके द्वितीयप्रपाठकेऽष्टमोऽनुवाकः )।
सोत्त॑रवेदिर॑ब्रवी॒त्सर्वा॒न्मया॒ कामा॒न्व्य॑श्नव॒थेति॒

[[2413]]

[प्रपा॰ २ अनु॰ ८] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( व्याघारणविधिः )
ते दे॒वा अ॑कामय॒न्तासु॑रा॒न्भ्रातृ॑व्यान॒भि भ॑वे॒मेति॒
तेऽजुहवुः सिँ॒हीर॑सि सपत्नसा॒ही स्वाहेति॒ तेऽसु॑-
रा॒न्भ्रातृ॑व्यान॒भ्य॑भव॒न्तेऽसु॑रा॒न्भ्रातृ॑व्यानभि॒भूया॑का-
मयन्त प्र॒जां वि॑न्दे॒महीति॒ ते॑ऽजुहवुः सिँ॒हीर॑सि
सुप्रजा॒वनिः॒ स्वाहेति॒ ते प्र॒जाम॑विन्दन्त॒ ते प्र॒जां
वि॒त्त्वा ( १ ) अ॒का॒म॒य॒न्त॒ प॒शून्वि॑न्देम॒हीति॒
ते॑ऽजुहवुः सिँ॒हीर॑सि रायस्पोष॒वनिः॒ स्वाहेति॒ ते
प॒शून॑विन्दन्त॒ ते प॒शून्वि॒त्त्वाऽका॑मयन्त प्रति॒ष्ठां
बि॑न्देम॒हीति॒ ते॑ऽजुहवुः सिँ॒हीर॑स्यादित्य॒वनिः॒ स्बा-
हेति॒ त इ॒मां प्र॑ति॒ष्ठाम॑विन्दन्त॒ त इ॒मां प्र॑ति॒ष्ठां
वि॒त्त्वाऽका॑मयन्त दे॒वता॑ आ॒शिष॒ उपे॑या॒मेति॒
ते॑ऽजुहवुः सिँहीर॒स्या व॑ह दे॒वान्दे॑वय॒ते ( २ )
यज॑मानाय॒ स्वाहेति॒ ते दे॒वता॑ आ॒शिष॒ उपा॑ऽऽय॒-
न्पञ्च॒ कृत्वो॒ व्याघा॑यतति॒ पञ्चा॑क्षरा प॒ङ्क्तिः
पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्धेऽऽक्ष्ण॒या व्याघा॑रयति॒
तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै
भू॒तेभ्य॒स्त्वेति॒ स्रुच॒मुद्गृ॑ह्णाति॒ य ए॒व दे॒वा भू॒ता-
स्तेषां॒ तद्भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति॒ पौतु॑द्रवान्प-
रि॒धीन्परि॑ दधात्ये॒षाम् ( ३ ) लो॒कानां॒ विधृ॑त्या
अ॒ग्नेस्त्रयो॒ ज्यायाँ॑सो॒ भ्रात॑र आस॒न्ते दे॒वेभ्यो॑
ह॒व्यं वहन्तः॒ प्रामी॑यन्त॒ सो॑ऽग्निर॑बिभेदि॒त्थं वाव
स्य आर्ति॒माऽरि॑ष्य॒तीति॒ स निला॑यत॒ स यां वन॒-
स्पति॒ष्वव॑स॒त्तां पूतु॑द्रौ॒ यामोष॑धीषु॒ ताँ सु॑गन्धि॒-
तेज॑ने॒ यां पशुषु॒ तां पेत्व॑स्यान्त॒रा शृङ्गे॒ तं दे॒वताः॒

[[2414]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [ ६ षष्ठकाण्डे—
व्याघारणविधिः )
प्रैष॑मैच्छ॒न्तमन्वा॑वेन्द॒न्तम॑ब्रुवन् ( ४ ) उप॑ न॒ आ
व॑र्तस्व ह॒व्यं नो॑ व॒हेति॒ सोऽब्रवी॒द्वरं॑ वृणै॒ यदे॒व
गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्दा॒त्तन्मे॒ भ्रातृ॑णां॑
भाग॒धेय॑मस॒दिति॒तस्मा॒द्यद्गृ॑ही॒तस्याहु॑तस्य बहिः-
परि॒धिस्कन्द॑ति॒ तेषां॒ तद्भा॑ग॒धेयं॒व तेन॑
प्रीणाति॒ सो॑ऽमन्यतास्य॒न्वन्तो॑ मे॒ पूर्वे॒ भ्रात॑रः॒
प्रामे॑षता॒स्थानि॑ शातया॒ इति॒ स यानि॑ ( ५ )
अ॒स्थान्यशा॑तयत॒ तत्पूतु॑द्रवभव॒द्यन्माँसमुप॑मृतं॒
तद्गुल्गु॑लु॒ यदे॒तान्त्सं॑भा॒रान्त्सं॒ भर॑त्य॒ग्निमे॒व तत्सं
भर॑त्य॒ग्निमेव तत्सं भ॑रत्य॒ग्नेः पुरी॑षम॒सीत्या॑हा॒ग्नेर्ह्ये॑त-
त्पुरी॑षं॒ यत्संभा॒रा अथो॒ खल्वा॑हुरे॒ते वावैनं॒
ते भ्रात॑रः परि॑ शेरे॒ यत्पौतु॑द्रवाः परि॒धय॒
इति॑ ( ६ )।।
( वि॒त्त्वा दे॑वय॒त एषामब्रुव॒न्यानि॒
चतु॑श्चत्वारिँशच्च ) ।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके द्वितीयप्रपाठकेऽष्टमोऽनुवाकः ।। ८।।