०७

(अथ षष्ठाष्टके द्वितीयप्रपाठके सप्तमोऽनुवाकः )।
तेभ्य॑ उत्तरवे॒दिः सि॒ ही रू॒पं कृ॒त्वोभया॑नन्त॒-
राऽप॒क्रम्या॑तिष्ठ॒त्ते दे॒वा अ॑मन्यन्त यत॒रान्वा इ॒यमु॑-
पाव॒र्त्स्यति॒ त इ॒दं भ॑विष्य॒न्तीति॒ तामुपा॑मन्त्रयन्त॒
साऽब्र॑वी॒द्व॑रं वृणै॒ सर्वा॒न्मया॒ कामा॒न्व्य॑श्नवथ॒ पूर्वा॒॑
तु मा॒ऽग्नेराहु॑तिरश्नवता॒ इति॒ तस्मा॑दुत्तरवे॒दिं पूवा॑-
म॒ग्नेर्व्याघा॑रयन्ति॒ वारे॑वृतँ॒ ह्य॑स्ये॒ शम्य॑या॒ परि॑
मिमीते ( १ ) मात्रै॒वास्यै॒ साऽथो॑ यु॒क्तेनै॒व यु॒क्त-
मव॑ रुन्धे वि॒त्ताय॑नी मे॒ऽसीत्या॑ह वि॒त्ता ह्ये॑ना॒नाव॑-
त्ति॒क्ताय॑नी मे॒ऽसीत्या॑ह ति॒क्तान्ह्ये॑ना॒नाव॒दव॑तान्मा
नाथि॒तमित्या॑ह नाथइ॒तान्ह्ये॑ना॒नाव॒दव॑तान्मा व्यथि॒-
तमित्या॑ह नाथि॒तान्ह्ये॑ना॒नाव॑द्वि॒देर॒ग्निर्नभो॒ नाम॑
( २ ) अग्ने॑ अङ्गिर॒ इति॒ त्रिर्ह॑रति॒ य ए॒वैषु लो॒के-

[[2412]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [ ६ षष्ठकाण्डे—
( व्याघारणविधिः )
प्व॒ग्नय॒स्ताने॒वाव॑ रुन्धे तृ॒ष्णीं च॑तु॒र्थँ ह॑र॒त्यनि॑-
रुक्तमे॒वाव॑ रुन्धे सिँ॒हीर॑सि महि॒षीर॒सीत्या॑ह
सिँ॒हीर्ह्येषा रू॒पं कृ॒त्वोभया॑नन्त॒राऽप॒क्रम्याति॑ष्ठ-
दु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथता॒मित्या॑ह॒ यज॑मा-
नमे॒व प्र॒जया॑ प॒शुभिः॑ प्रथयति ध्‍रुवा ( ६ )
अ॒सीति॒ सँ ह॑न्ति॒ धृत्यै॑ दे॒वेभ्यः॑ शुन्धस्व दे॒वेभ्यः॑
शुम्भ॒स्वेत्यव॑ चो॒क्षति॒ प्र च॑ किरति॒ शुद्घ्या॑
इन्द्रघो॒षस्त्वा॒ वसु॑भिः पुरस्ता॑त्पा॒त्वित्या॑ह दि॒ग्भ्य
ए॒वैनां॒ प्रोक्ष॑ति दे॒वाँश्चेदु॑त्तरवे॒दिरु॒पाव॑वर्ती॒हैव वि
ज॑यामहा॒ इत्यसु॑रा॒ वज्र॑मु॒द्यत्य॑ दे॒वान॒भ्या॑यन्त॒
तानि॑न्द्रघो॒षो वसि॑भिः पु॒रस्ता॒दप॑ ( ४ ) अ॒नु॒द॒त॒
मनो॑जवाः पि॒तृभिर्दक्षिण॒तः प्रचे॑ता रु॒द्रैः प॒श्चा-
द्वि॒श्वक॑र्माऽऽदि॒त्यैरु॑त्तर॒तो यदे॒वमु॑त्तरवे॒दिं प्रो॒क्षति॑
दि॒ग्भ्य ए॒व तद्यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दत॒ इन्द्रो॒
यती॑न्त्सालावृ॒केभ्यः॒ प्राय॑च्छ॒त्तान्द॑क्षिण॒त उ॑त्तर-
वे॒द्या आ॑द॒न्यत्प्रोक्ष॑णीनामु॒च्छिष्ये॑त॒ तद्द॑क्षिण॒त
उ॑त्तरवे॒द्यै नि न॑ये॒द्यदे॒व तत्र॑ क्रू॒रं तत्तेन॑ शमयति॒
यं द्वि॒प्यात्तं ध्या॑येच्छु॒चैवैन॑मर्पयति ( ५ ) ।।
मी॒मी॒ते॒ नाम॑ ध्रुवाऽप॑ शु॒चा त्रीणि॑ च । )

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके द्वितीयः प्रपाठके सप्तमोऽनुवाकः ।। ७।।