(अथ षष्ठाष्टके द्वितीयप्रपाठके षष्टोऽनुवाकः )।
पु॒रोह॑विषि दे॒वयज॑ने याजये॒द्यं का॒मये॒तोपै॑न॒
मुत्त॑रो य॒ज्ञो न॑मेद॒भि सुव॒र्गं लो॒कं ज॑ये॒दित्ये॒तद्वै
वन्न॒ग्निम॒प आ॑दि॒त्यम॒भि वि॒पश्य॒त्पुपै॑न॒मुत्त॑रो य॒ज्ञो
न॑मत्य॒भि सु॑व॒र्गं लो॒कं ज॑यत्या॒प्ते दे॑व॒यज॑ने याज-
ये॒द्भातृ॑व्यवन्तं॒ पन्थां॑ वाऽधिस्प॒र्शये॑त्क॒र्तं वा याव॒-
न्नान॑से॒ यात॒वै ( १ ) न रथा॑यै॒तद्वा आ॒प्तं दे॑व॒-
यज॑नमा॒प्नोत्ये॒व भ्रातृ॑व्यं नैनं॒ भ्रातृ॑व्य आप्नो॒त्येको॑-
न्नते देव॒यज॑ने याजयेत्प॒शुका॑म॒मेको॑न्नता॒द्वै दे॑व॒य-
ज॑ना॒दङ्गि॑रसः प॒शून॑सृजन्तान्त॒रा स॑दोहविर्धा॒ने
उ॑न्न॒तँ स्या॑दे॒तद्वा एको॑न्नतं देव॒यज॑नं पशु॒माने॒व
भ॑वति॒ त्र्यु॑न्नते देव॒यज॑ने याजयेत्सुव॒र्गका॑मं॒ त्र्यु॑न्न-
ता॒द्वै दे॑व॒यज॑ना॒दङ्गि॑रसः सुव॒र्गं लो॒कमा॑यन्नन्त॒-
राऽऽह॑व॒नीयं॑ च हवि॒र्धानं॑ च ( २ ) उ॒न्न॒तँ स्या॑द-
न्त॒रा हवि॒र्धानं॑ च॒ सद॑श्चान्त॒रा सद॑श्च॒ गार्ह॑पत्यं
चै॒तद्वै त्र्यु॑न्नतं देव॒यज॑नँ सु॒वर्गमे॒व लो॒कमे॑ति॒ प्र॑ति-
ष्ठिते देव॒यज॑ने याजयेत्प्रति॒ष्ठाका॑ममे॒द्वै प्रति॑ष्ठितं
देव॒यज॑नं॒ यत्स॒र्वतः॑ स॒मं प्रत्ये॒व ति॑ष्ठति॒ यत्रा॒न्याअ॑न्या॒
ओष॑धयो॒ व्यति॑षक्ताः॒ स्युस्तद्या॑जयत्प॒शुका॑ममे॒तद्वै
प॑शू॒नाँ रू॒पँ रू॒पेणैवास्मै॑ प॒शून् ( ३ ) अव॑
रुन्धे पशु॒माने॒व भ॑वति॒ निर्ऋतिगृहीते देव॒यज॑ने
या॒जये॒द्यं का॒मये॑त॒ निर्ऋत्याऽस्य य॒ज्ञं ग्रा॑हयेय॒मि-
त्ये॒तद्वै निर्ऋ॑तिगृहीतं देव॒यज॑नं॒ यत्स॒द्दश्यै॑ स॒त्या॑
[[2411]]
[प्रपा॰ २ अनु॰ ७] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( उत्तरवेदिनिरूपनम् )
ऋ॒क्षं निर्ऋ॑त्यै॒वास्य॑ य॒ज्ञं ग्रा॑हयति॒ व्यावृ॑त्ते देव॒यज॑ने
याजयेद्वया॒वृत्का॑मं॒ यं पात्रे॑ वा॒ तल्पे॑ वा॒ मीमाँ॑
सेरन्प्रा॒चीन॑माहव॒नीया॑त्प्रव॒णँ स्या॑त्प्रती॒चीनं॒ गार्ह॑-
पत्याजे॒तद्वै व्यावृ॑त्तं देव॒यज॑नं॒ वि प्रा॒प्मना॒ भ्रातृ॑-
व्ये॒णाऽऽ व॑र्तते॒ नैनं॒ पात्रे॒ न तल्पे॑ मीमाँसन्ते
का॒र्ये॑ देव॒यज॑ने याजये॒द्भूति॑कामं का॒र्यो॑ वै पुरु॑षो॒
भव॑त्ये॒व ( ४ ) ।।
( यात॒वै ह॑विर्धानं॑ च प॒शून्पा॒प्मना॒ऽष्टाद॑श च ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके द्वितीयः प्रपाठके षष्टोऽनुवाकः ।। ६।।