०५

(अथ षष्ठाष्टके द्वितीयप्रपाठके पञ्चमोऽनुवाकः )।
यद्वा अनी॑शानो भा॒रमा॑द॒त्ते वि वै स लि॑शते॒
यद्द्वाद॑श सा॒हनस्यो॑प॒सदः स्युस्ति॒स्रो॑ऽहीन॑स्य य॒-
ज्ञस्य॒ विलो॑म क्रियेत ति॒स्र ए॒व सा॒ह्नस्यो॑प॒सदो॒
द्वाद॑शा॒हीन॑स्य य॒ज्ञस्य॑ सवीर्य॒त्वायाथो॒ सलो॑म
क्रियते व॒त्सस्यैकः॒ स्तनो॑ भा॒गी हि सोऽथैकँ॒
स्तनं॑ व्रतमुपैत्यथ॒ द्वावथ॒ व्रीनथ॑ च॒तुर॑ ए॒तद्वै (१)
क्षु॒रप॑वि॒ नाम॑ व्र॒तं ये॒न प्र जा॒तान्भ्‍रातृ॑व्यान्नुदते॒
प्रति॑ जनि॒ष्यमा॑णा॒नथो॒ कनी॑यसै॒व भूय॒ उपै॑ति
च॒तुरोऽग्‍रे॒ स्तना॑न्व्र॒तमुपैत्यथ॒ त्रीनथ॒ द्वावथैक॑मे॒-
तद्वै सु॑जघ॒नं नाम॑ व्र॒तं त॑प॒स्यँ॑ सुव॒र्ग्यमथो प्रैव
जा॑यते प्र॒जया॑ प॒शुभि॑र्यवा॒गू राज॒न्य॑स्य व्र॒तं क्रू॒रेव॒
यै य॑वा॒गूः क्‍रू॒र इ॑व (२) रा॒ज॒न्यो॑ वज्‍र॑स्य रू॒पँ
समृ॑द्ध्या आ॒मिक्षा॒ वैश्य॑स्य पाकय॒ज्ञस्य॑ रू॒पं
पुष्टयै॒ पयो॑ ब्राह्म॒णस्य॒ तेजो॒ वै ब्रा॑ह्म॒णस्ते॒जः पय॒-

[[2409]]

[प्रपा॰ २ अनु॰ ५] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( व्रतनिरूपणम् )
स्तेज॑सै॒व तेजः॒ पय॑ आ॒त्मन्ध॒त्तेऽथो॒ पय॑सा॒ वै गर्भा॑
वर्धन्ते॒ गर्भ॑ इव॒ खलु॒ ए॒ष यद्दीठक्षि॒तो यद॑स्य॒
पयो॑ व्र॒तं भव॑त्या॒त्मान॑मे॒व तद्व॑र्यति॒ त्रिव्र॑तो॒ वै
मनु॑रासी॒द्द्विव्र॑ता॒ असु॑रा॒ एक॑व्रताः ( ३ ) दे॒वाः
प्रा॒तर्म॒ध्यंदि॑ने सा॒यं तन्मनो॑र्व्र॒तमा॑सीत्पाकय॒ज्ञस्य॑
रूपं पुष्टयै॑ प्रा॒तश्च॑ सा॒यं चासु॑राणां निर्म॒ध्यं क्षु॒धो
रू॒पं तत॒स्ते पराऽऽभवन्म॒ध्यंदि॑ने मध्यरा॒त्रे दे॒वानां॒
तत॒स्ते॑ऽभवन्त्सुव॒र्गं सो॒कमा॑यद॑स्य म॒ध्यंदि॑ने
मध्यरा॒त्रे व्र॒तं भव॑ति मध्य॒ते वा अन्ने॑न भुञ्जते
मध्यरा॒त्रे ए॒व तदूर्ज॑ धत्ते॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॑
( ४ ) परा॑ऽस्य भ्‍रातृ॑व्यो भवति॒ गर्भो॒ वा ए॒ष
यद्दी॑क्षितो योनि॑र्दीक्षितविमि॒तं यद्दी॑क्षि॒तो दीक्षित-
विभि॒तात्प्र॒वसेद्यथा॒ योने॒र्गर्भः॒ स्कन्द॑ति ता॒द्दगे॒व
तन्न प्र॑वस्त॒व्य॑मा॒त्मनो॑ गोपी॒थायै॒ष वै व्या॒घ्‍रः
कु॑लगो॒पो यद॒ग्निस्तस्मा॒द्य॑द्दीक्षि॒तः प्र॒वसे॒तेस ए॑न-
मीश्व॒रो॑ऽनू॒त्थाय॒ हन्तो॒र्न प्र॑वस्त॒ब्य॑मा॒त्मनो॒ गुप्त्यै॑
दक्षिण॒तः श॑य ए॒तद्वै यज॑मानस्या॒ऽऽयतनँ॒ स्व
ए॒वाऽऽयत॑ने शये॒ऽग्निम॑भ्या॒वृत्य॑ शये दे॒वता॑ ए॒व
य॒ज्ञम॑भ्या॒बृत्य॑ शये ।। ५।।
( ए॒तद्वै क्रू॒र इ॒वैक॑व्रता आ॒त्मना॒ यज॑मानस्य॒ त्रयोदश च )।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके द्वितीयः प्रपाठके पञ्चमोऽनुवाकः ।। ५।।


३०२

[[2410]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [ ६ षष्ठकाण्डे—
( काम्ययागभूम्यभिधानम् )