(अथ षष्ठाष्टके द्वितीयप्रपाठके चतुर्थोऽनुवाकः )।
सु॒व॒र्गं वा ए॒ते लो॒कं य॑न्ति॒ य उ॑प॒सद॑ उपा॒न्ति
तेषां॒ य उ उ॒न्नय॑ते॒ हीय॑त ए॒व स नोद॑ने॒षीति॒ सू॑न्नी
यमिव॒ यो वै स्वा॒र्थेतां॑ य॒ताँश्रा॒न्तो हीय॑त उ॒त स
नि॒ष्ट्याय॑ स॒ह व॑सति॒ तस्मा॑त्स॒कृदु॒न्नीय॒ नाप॑रमुन्न॑-
[[2407]]
[प्रपा॰ २ अनु॰ ४] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( वेद्यभिधानम् )
येत द॒घ्नोन्न॑येतै॒तद्वै प॑शू॒नाँ रूपेणैव पशूनव॑
रुन्धे ( १ ) य॒ज्ञो दे॒वेभ्यो॒ निला॑यत॒ विष्णू॑ रू॒पं
कृ॒त्वा स पृथि॒वीं प्रावि॑श॒त्तं दे॒वा हस्ता॑न्त्सँ॒रभ्यै॑-
च्छ॒न्तमिन्द्र॑ उ॒पर्यु॑प॒र्यत्य॑क्राम॒त्सो॑ऽब्रवी॒त्को मा॒ऽय-
मु॒पर्यु॑प॒र्यत्य॑क्रमी॒दित्य॒हं दु॒र्गे हन्तेत्यथ कस्त्वमित्यहं
दु॒र्गादाह॒र्तेति॒ सो॑ऽब्रवीद्दुर्गे वै हन्ता॑ऽवोचथा व॒रा-
हो॑ऽयं वा॑ममोषः ( २) स॒प्ता॒नां गि॑री॒णां प॒रस्ता॑द्वि॒त्तं
वेद्य॒मसु॑राणां बिभर्ति तं ज॑हि॒ यदि॑ दु॒र्गे हन्ताऽ-
सीति॒ स दर्भपुञ्जी॒लमु॒द्वृह्य॑ स॒प्त गिरीन्भि॒त्त्वा तम॑ह॒-
न्त्सो॑ऽब्रवीद्दुर्गाद्वा आह॑र्ताऽवोचथा ए॒तमा ह॒रेति॒
तमे॑भ्यो य॒ज्ञ ए॒व य॒ज्ञमाऽह॑र॒द्यत्तद्वि॒त्तं वेद्य॒मसु॑राणा॒-
मवि॑न्दन्त॒तदेकं॒ वेद्यै॑ वेदि॒त्वमसु॑राणाम्(३)वा इ॒य-
मग्र॑ आसी॒द्यव॒दासी॑नः पर॒पश्य॑ति॒ ताव॑द्दे॒वानां॒ ते
दे॒वा अब्रुव॒न्नस्त्वे॒व नो॒ऽस्यामपीति॒ किय॑द्वो दा-
स्याम॒ इति॒ स इन्द्रः॑ सल वृ॒की रू॒पं कृ॒त्वेमां
त्रिः स॒र्वतः॒ पर्य॑क्राम॒त्तदि॒माम॑विन्दन्त॒ यदि॒मामवि॑-
न्दन्त॒ तद्वेद्यै॑ वेदि॒त्व (४)सा वा इ॒यँ सर्वै॒व वेदि॒-
रि॑यति शक्ष्या॒मीति॒ त्वा अव॒माय॑ यजन्ते त्रिँ॒श-
त्प॒दानि॑ प॒धात्ति॒रश्ची॑ भवति॒ षट्त्रिँ॑श॒त्प्राची॒ चतु॑-
र्विँशतिः पु॒रस्ता॑त्ति॒रश्ची॒ दश॑दश॒ सं प॑द्यन्ते॒ दशा॑-
क्षरा वि॒राडन्नं॑ वि॒राडवि॒राजै॒वान्नाद्य॒मव रुन्ध॒ उ-
ध्द॑न्ति॒ यदेवास्या॑ अमे॒ध्यं तदप॑ ह॒न्त्यध्द॑न्ति॒ तस्मा॒-
दोष॑धयः॒ परा॑ भवन्ति ब॒र्हिः स्तृ॑णाति॒ तस्मा॒दोष॑-
[[2408]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [ ६ षष्ठकाण्डे—
( व्रतनिरूपणम् )
धयः॒ पुन॒रा भव॒न्त्युत्त॑रं ब॒र्हिष॑ उत्तरबर्हिः स्तृ॑णा-
ति प्र॒जा वै बर्हिर्यज॑मान उत्तरब॒र्हिर्यज॑मानमे॒वा-
य॑जमाना॒दुत्त॑रं करोति॒ तस्मा॒द्यज॑मा॒नोऽय॑जमाना॒-
दुत्त॑रः ( ५ )
(रु॒न्धे॒ वा॒म॒मो॒षो॒ वे॑दि॒त्वमसु॑राणां वेदि॒त्वं
भ॑वन्ति॒ पञ्चविँशतिश्व )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके द्वितीयः प्रपाठके चतुर्थोऽनुवाकः ।। ४।।