( अथ षष्ठाष्टके द्वितीयप्रपाठके तृतीयोऽनुवाकः )।
तेषा॒मसु॑राणां ति॒स्रः पुर॑ आसन्नय॒स्मय्य॑व॒माऽथं
रज॒ताऽथ॒ हरि॑णी॒ ता दे॒वा जेतुं॒ नाश॑क्नव॒न्ता उ॑प॒स-
दै॒वाजि॑गीष॒न्तस्मा॑दाहुर्यश्वैवं वेद॒ यश्च॒ नोप॒सदा॒ वै
म॑हापु॒रं ज॑यन्तीति॒ त इषुँ॒ सम॑स्कुर्वता॒ग्निमनकिँ॑
सोमँ॑ श॒ल्यं विष्णुं॒ तेज॑नं॒ ते॑ब्रु॒वन्क इ॒माम॑सिष्य॒तीति॑
( १ ) रु॒द्र इत्य॑ब्रुवन्रु॒द्रो वै क्रूरः सो॑ऽस्य॒त्विति॒
सो॑ऽब्रवी॒द्वरं॑ वृणा अ॒हमे॒व प॑शूनामधि॑पतिरसा॒नीति॒
तस्मा॑द्रु॒द्रः प॑शू॒नामधि॑पति॒स्माँरु॒द्रोऽवा॑सृज॒त्स ति॒स्रः
पुरो॑ भि॒त्त्वैभ्यो लोकेभ्योऽसु॑रा॒न्प्राणु॑दत॒ यदु॑प॒सद॑
उपस॒द्यन्ते॒ भ्रावृ॑व्यपराणुत्त्यै॒ नान्यामाहु॑तिं पु॒रस्ता॑ज्जु-
हुया॒द्यद॒न्यामाहु॑तिं पु॒रस्ता॑ज्जुहु॒यात् (२)अ॒न्यन्मुखं॑
कुर्यात्स्रुवेणा॑ऽऽघा॒रमा घा॑रयति य॒ज्ञस्य॒ प्रज्ञा॑त्यै॒
परा॑ङति॒क्रम्य॑ जुहोति॒ परा॑च ए॒वैभ्यो लो॒केभ्यो॒ यज॑-
मानो॒ भ्रातृ॑व्या॒न्प्र णु॑द॒ते पुन॑रत्या॒क्रम्यो॑प॒सदं॑ जुहोति
प्र॒णुद्यैवैभ्यो लोकेभ्यो भ्रातृ॑व्याञ्जि॒त्वा भ्रातृ॑व्यलो॒क-
म॒भ्यारो॑हति दे॒वा वै याः प्रा॒तरु॑प॒सद॑ उ॒पासीद॒न्न-
ह्न॒स्ताभि॒रसु॑रा॒न्प्राणु॑दन्त॒ याः सा॒यँ रात्रि॑यै॒ ताभि॒-
र्यत्सा॒यंप्रा॑तरुप॒सदः॑ (३) उ॒प॒स॒द्यन्ते॑ऽहोरा॒त्राभ्या॑मे॒व
तद्यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते॒ याः प्रा॒तर्या॒ज्याः
[[2406]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [ ६ षष्ठकाण्डे—
( वेद्यभिधानम् )
स्यास्ताः सा॒यं पु॑रोनुवा॒क्याः॑ कुर्या॒दया॑तयामत्वाय
ति॒स्र उ॑प॒सद॒ उपै॑ति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒का
न्प्री॑णाति॒ षट्सं प॑द्यन्ते॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑-
णाति॒ द्वाद॑शा॒हीने॒ सोम॒ उपै॑ति॒ द्वाद॑श॒ मासाः॑
संवत्स॒रः सं॑वत्स॒रमे॒व प्री॑णाति॒ चतुर्विँशतिः॒ सम्
( ४ ) प॒द्य॒न्ते॒ चतु॑र्विँश रर्धमा॒सा अ॑र्धमा॒साने॒व
प्री॑णा॒त्यारा॑ग्रामवान्तरदी॒क्षामुपे॑या॒द्यः का॒मये॑ता॒-
स्मिन्मे॑ लो॒केऽधु॑कँ स्या॒दित्येक॒मग्रेऽथ॒ द्वानथ॒
त्रीनथ॑ च॒तिर॑ ए॒ष वा आरा॑ग्राऽवान्तरदी॒क्षाऽ‑
स्मिन्ने॒वास्मै॑ लो॒केऽर्धु॑कं भवति प॒रोव॑रीयसीमवा-
न्तरदी॒क्षामुपे॑या॒द्यः का॒मये॑ता॒मुष्मि॑न्मे लो॒केऽ-
र्धुकँस्या॒दिति॑ चतु॒रोऽग्रेऽथ॒ त्रीनथ॒ त्रीनथ॒ द्वावथैक॑मे॒षा
वै प॒रोव॑रीयस्यवान्तरदी॒क्षाऽमुष्मि॑न्ने॒वास्मै॑ लो॒केऽ-
र्धु॑कं भवति ( ५ ) ।।
( अ॒सि॒ष्य॒तीति॑ जुहु॒यात्सा॒यंप्रा॑तरु॒पसद॒श्वत॑र्विँशतिः
सं च॒तुरोऽग्रे॒ षोड॑श च ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके द्वितीयः प्रपाठके तृतीयोऽनुवाकः
।। ३।।