०२

( अथ षष्ठाष्टके द्वितीयप्रपाठके द्वितीयोऽनुवाकः )
दे॒वा॒सु॒राः संय॑त्ता आस॒न्ते दे॒वा मि॒थो विप्रि॑या
आस॒न्ते॑ १॒ ऽन्यो॑ऽन्यस्मै॒ ज्येष्ठ्या॒यातिष्ठमानाः
पञ्च॒धा व्य॑क्रमन्न॒ग्निर्वसु॑भिः॒ सोमो॑ रुद्रेरिन्द्रो॑ म॒रु-
द्भि॒र्वरु॑ण आदि॒त्यैर्बृह॒स्पति॒र्विस्ते॑ऽमन्य॒न्तासु-
रेभ्यो॒ वा इ॒दं भ्रातृ॑व्येभ्यो रध्यामो॒ यन्मि॒थो
विप्रि॑याः॒ स्मो या न॑ इ॒माः प्रि॒यास्त॒नुव॒स्ताः स॒म-
व॑द्यामहै॒ ताभ्यः॒ स निर्ऋ॑च्छा॒द्यः ( १ ) नः॒ प्र॒थ॒मो॑
१॒ ऽन्यो॑न्यस्मै॒ द्रुह्या॒दिति॒ तस्मा॒द्यः सता॑ननूप्त्रिणां
प्रथ॒मो द्रूह्य॑ति॒ स आर्ति॒मार्च्छ॑ति॒ यत्ता॑नून॒पूत्रँ
स॑मव॒द्यति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा॑ऽस्य॒
भ्रातृ॑व्यो भवति॒ पञ्च॒ कृत्वोऽव॑ द्यति पञ्च॒धा हि
ते तत्स॑म॒वाद्य॒न्चाथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः पाङ्क्तो॑
य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्ध॒ आप॑तये त्वा गृह्णा॒मीत्या॑ह
प्रा॒णो वै ( २ ) आप॑तिः प्रा॒णमे॒व प्री॑णाति॒ परि॑-
पतय॒ इत्या॑ह॒ मनो॒ वै परि॑पति॒र्मन॑ ए॒व प्री॑णाति॒
तनू॒नपूत्र इत्या॑ह त॒नुवो॒ हि ते ताः स॑म॒वाद्य॑न्त
शाक्व॒रायेत्या॑ह॒ शक्त्यै॒ हि ते ताः सं॑म॒वाद्य॑न्त॒
शक्म॒न्नोजिष्ठा॒येत्या॒हौजि॑ष्ठँ॒ हि ते तदा॒त्मनः॑ सम॒-
वाद्य॒न्ताना॑धृष्टमस्यनाधृ॒ष्यमित्या॒हाना॑धृष्टँ॒ ह्ये॑तद॑-
नाधृ॒ष्यं दे॒वाना॒मोजः॑ ( ३ ) इत्या॑ह दे॒वानाँ॒
ह्ये॑तदोजो॑ऽभिशस्ति॒पा अनभिशस्ते॒न्यमित्याहाभि-
शस्ति॒पा ह्येतद॑नभिशस्ते॒न्यमनु॑ मे दी॒क्षां दी॒क्षा-

[[2404]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [ ६ षष्ठकाण्डे—
( तानूनप्त्रेष्ट्यभिधानम् )
प॑तिर्मन्यता॒मित्या॑ह यथायुजुरेवैतद्घृ॒तं वै दे॒वा
वज्रं॑ कृ॒त्वा सोम॑मघ्नन्नन्ति॒कमि॑व॒ खलु॒ वा अ॑स्यै॒-
तच्च॑रन्ति॒ यत्ता॑नून॒प्त्रेण॑ प्र॒चर॑न्त्यँ॒शुरँ॑शुस्ते देव
सो॒माऽऽप्या॑यता॒मित्या॑ह॒ यत् ( ४ ) ए॒वास्या॑पु-
वा॒यते॒ यन्मीय॑ते॒ तदे॒वास्यै॒तेनाऽऽप्या॑यय॒त्या तुभ्य॒-
मिन्द्रः॑ प्यायता॒मा त्वमिन्द्रा॑य त्वमिन्द्रा॑य प्याय॒स्वेत्या॑हो॒भा-
वे॒वेन्द्रं च॒ सोमं॒ चाऽऽप्या॑यय॒त्या प्या॑यय॒ सखी॑-
न्त्स॒न्या मेधयेत्या॑ह॒र्त्विजो॒ वा अ॑स्य॒ सखा॑य॒स्ता-
ने॒वाऽऽप्या॑ययति स्व॒स्ति ते देव सोम सु॒त्याम॑-
शीय ( ५ ) इत्या॑हाऽऽशिष॑मे॒वैतामा शा॑स्ते॒ प्र
वा ए॒ते॑ऽस्माल्लो॒काच्च्य॑वन्ते॒ ये सोम॑माप्या॒यय॑न्त्य-
न्तरिक्षदेव॒त्यो॑ हि सोम॒ आप्या॑यित॒ एष्ठा॒ रायः॒
प्रेषे भगा॒येत्या॑ह॒ द्यावा॑पृथिवीभ्या॑मेव॒ न॑म॒स्कृत्या॒-
स्मिल्लोँ॒के प्रति॑तिष्ठन्ति देवासु॒राः संय॑त्ता आस॒न्ते
दे॒वा बिभ्य॑तोऽग्निं प्रावि॑श॒न्प्तस्मा॑दाहुर॒ग्निः सर्वा॑
दे॒वता॒ इति॒ ते ( ६ ) अ॒ग्निमे॒व वरू॑थं कृत्वाऽसु॑-
रान॒भ्य॑भवन्न॒ग्निमि॑व॒ खलु॒ वा एष॒ प्र वि॑शति॒
यो॑ऽवान्तरदी॒क्षीमु॒पैति॒ भातृ॑व्याभिभूत्यै॒ भव॑त्या॒-
त्मना॒ परा॑ऽस्य॒ भ्रातृ॑व्यो भवत्या॒त्मान॑मेव दी॒क्षया॑
पाति प्र॒जाम॑वान्तरदी॒क्षया॑ संत॒रां मेख॑लाँ स॒मा-
य॑च्छते प्र॒जा ह्या॑त्मनोऽन्त॑रतरा त॒प्तव्र॑तो भवति॒
मद॑न्तीभिर्मार्जयते॒ निर्ह्य॑ग्निः शी॒तेन॒ वाय॑ति॒
समि॑ध्दयै॒ या ते॑ अग्ने॒ रुद्रि॑या त॒नूरित्या॑ह॒ स्वयै॒वै-
न॑द्दे॒बत॑या व्रतयति सयोनि॒त्वाय॒ शान्त्यै॑ ( ७ ) ।।

[[2405]]

[प्रपा॰ २ अनु॰ १] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( उपसध्दोमाभिधानम्)
( यो वा ओज॑ आह॒ यद॑शी॒येति॒ ते॑ऽग्न॒ एका॑दश च )।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके द्वितीयः प्रपाठके द्वितीयोऽनुवाकः
।। २।।