०१

( तत्र प्रथमोऽनुवाकः )
ह॒रिः॒ ॐ ।
यदु॒भौ वि॒मुच्या॑ऽऽति॒थ्यं गृ॑ह्णी॒याद्य॒ज्ञं विच्छि॑-
न्द्या॒द्यदुभाववि॑मुच्य॒ यथाऽऽना॑गतायाऽऽति॒थ्यं क्रि॒यते॑
ता॒द्दगे॒व तद्विभु॑क्तो॒ऽन्यो॑ऽन॒ङ्वान्भ॒वत्वि॑भुक्तो॒ऽ-
न्योऽथा॑ऽऽति॒थ्यं गृ॑ह्णाति य॒ज्ञस्य॒ संत॑त्यै॒ पत्न्य॒-
न्वार॑भते॒ पत्नी॒ हि पा॑रीणह्य॒स्येशे॒ पत्नि॑यै॒वानु॑मतं॒

[[2401]]

[प्रपा॰ २ अनु॰ १] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( आतिथ्येष्ट्यभिधानम्)
निर्वमति॒ यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ मिथु॒नं तदथो॒
पत्नि॑या ए॒व ( १ ) ए॒ष य॒ज्ञस्या॑न्वार॒म्भोऽन॑व-
च्छित्त्यै॒ याव॑द्भि॒र्वै राजा॑ऽनुच॒रैरा॒गच्छ॑ति॒ सर्वेभ्यो॒
वै तेभ्य॑ आति॒थ्यं क्रि॑यते॒ छन्दाँ॑सि॒ खलु॒ वै
सोम॑स्य॒ राज्ञो॑ऽनुच॒राण्य॒ग्नेरा॑ति॒थ्यम॑सि॒ विष्णा॑वे॒
त्वेत्याह गायत्रि॒या ए॒वैतेन॑ करोति॒ सोम॑स्याऽऽति॒-
थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह त्रि॒ष्टुभ॑ ए॒वैतेन॑ करो॒त्य-
ति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह जग॑त्यै ( २ )
ए॒वैतेन॑ करोत्य॒ग्नये॑ त्वा रायस्पोष॒दाव्ने॒ विष्ण॑वे॒
त्वेत्या॑हानु॒ष्टभ॑ ए॒वैतेन॑ करोति श्ये॒नाय॑ त्वा सोम॒-
भृते॒ विष्ण॑वे॒ त्वेत्या॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒
पञ्च॒ कृत्वो॑ गृह्णाति॒ पञ्चा॑क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो
य॒ज्ञमे॒वाव॑ रुन्धे ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा॑त्स॒त्या-
द्गा॑यत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्‍रियत॒ इति॒ यदे॒-
वादः सोम॒मा ( ३ ) अह॑र॒त्तस्मा॑द्गायत्रि॒या उ॑भ॒-
यत॑ आति॒थ्यस्य॑ क्‍रियते पु॒रस्ता॑च्चो॒परि॑ष्टाच्‍च॒
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑ति॒थ्यं नव॑कपालः पुरो॒-
डाशो॑ भवति॒ तस्मा॑न्नव॒धा शिरो॒ विष्यू॑तं॒ नव॑कपालः
पुरो॒डाशो॑ भवति॒ चे त्रय॑स्त्रिकपा॒लास्त्रि॒वता॒ स्तोमे॑न॒
संभि॑ता॒स्तेज॑स्त्रि॒वृत्तेज॑ ए॒व य॒ज्ञस्य॑ शी॒र्षन्द॑धाति॒ नव॑-
कपालः पुरो॒डाशो॑ भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता॑
प्रा॒णेन॒ संमि॑तास्त्रि॒वृद्वै(४)प्रा॒णस्त्रि॒वृत॑मे॒व प्रा॒णम॑भि-
पू॒र्वं य॒ज्ञस्य॑ शी॒र्षन्द॑धाति प्र॒जाप॑ते॒र्वा ए॒तानि॒ प-
३०१

[[2402]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [ ६ षष्ठकाण्डे—
क्ष्मा॑णि॒ यद॑श्वव॒ ला ऐ॑क्ष॒वी ति॒रश्वी॒ यदाश्व॑वालः
प्रस्त॒रो भवत्यैक्ष॒री ति॒रश्वी॑ प्र॒जापतेरे॒व तच्‍चक्षुः॒
संभर॑ति देवा॒ वै या आहु॑ती॒रजु॑हबुस्ता असु॑रा
नि॒ष्काव॑माद॒न्ते दे॒वाः का॑र्ष्म॒र्य॑पश्यन्कर्म॒ण्यो॑ वै
कर्मैनेन कुर्वी॒तेति॒ ते का॑र्ष्मर्य॒मया॑न्परि॒धीन् ( ५ )
अ॒कु॒र्ब॒त तैर्वै॒ ते रक्षाँ॒स्यपा॑घ्नत॒ यत्का॑र्ष्मर्य॒मया
परि॒धयो॒ भव॑न्ति॒ रक्ष॑सा॒मप॑हत्यै॒ सँ स्प॑र्शयति॒
रक्ष॑सा॒मन॑न्ववचाराय॒ पुरस्ता॒त्परि॑ दधात्यादित्यो
ह्ये॑वोद्यन्पुपस्ता॒द्रक्षाँ॑स्यप॒हन्त्यूर्ध्वे स॒मिधा॒वा द॑धात्यु॒-
परि॑ष्ठादेव रक्षाँ॒स्यप॑ हन्ति॒ यजु॑षाऽन्यां तू॒ष्णीम॒न्या
मि॑थु॒नत्वाय॒ द्वे आ द॑धाति द्वि॒पाद्यज॑मानः॒ प्रति॑-
ष्ठित्यै ब्रह्मवा॒दिनो॑ वदन्ति ( ६ ) अ॒ग्निश्व॒ वा ए॒तौ
सोम॑श्व क॒था सोमा॑याऽऽति॒थ्यं क्रि॒यते॒ नाग्नय॒ इति॒
यद॒ग्नावग्निं म॑थि॒त्वा प्र॒हर॑ति॒ तेनै॒वाग्नय॑ आति॒थ्यं
क्रि॑य॒तेऽथो खल्वा॑हुर॒ग्निः सर्वा॑ दे॒वता॒ इति॒ यध्द॒-
विरा॒साद्या॒ग्निं मन्थ॑ति ह॒व्यायै॒वाऽऽस॑न्नाय॒ सर्वा॑
दे॒वता॑ जनयति ( ७ ) ।।

( पत्नि॑या ए॒व जग॑त्या॒ आ त्रि॒वृध्दै प॑रि॒धीन्व॑दन्त्ये-
क॑चच्वारिँशच्‍च )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके द्वितीयःप्रपाठके प्रथमोऽनुवाकः ।। १।।


[[2403]]

प्रपा॰ २ अनु॰ २] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( तानूनप्त्रेष्ट्यभिधानम्)