(अथ षष्ठाष्टके प्रथमप्रपाके एकादशोऽनुवाकः )।
वा॒रु॒णो वै क्र॒तः सोम॒ उप॑नध्दो मित्रो न॒ एहि॒
सुमि॑त्रधा॒ इत्या॑ह॒ श न्त्या॒ इन्द्र॑स्यो॒रुमा वि॑श॒ दक्षि॑-
ण॒मित्या॑ह दे॒वा वै यँ सोम॒मक्री॑ण॒न्तमिन्द्र॑स्यो॒रौ
दक्षि॑ण॒ आऽसा॑दयन्ने॒ष खलु॒ वा ए॒तर्हीन्द्रो॒ यो
यज॑न्ते॒ तस्मा॑दे॒वमा॒होदायु॑षा स्वा॒युषेत्या॑ह दे॒वता॑
ए॒वान्वा॒रभ्योत् ( १ ) ति॒ष्ठ॒त्य॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑-
हान्तरिक्षदेव॒त्यो॑ १॒ ह्ये॑तर्हि सोमोऽदि॑त्याः॒ सदो॒ऽ-
स्यदि॑त्याः॒ सद॒ आ सी॒देत्या॑ह यथाय॒जुरे॒वैताद्वि वा
ए॑नमे॒तद॑र्धयति॒ यद्वा॑रु॒णँ सन्तं॑ मै॒त्रं क॒रोति॑ वारु॒-
ण्यर्चाऽऽ सा॑दयति॒ स्वयै॒वैनं॑ दे॒वत॑या॒ सम॑र्यति॒
वास॑सा प॒र्यान॑ह्यति सर्वदेव॒त्यं॑ वै वासः॒ सर्वा॑भि-
रे॒व ( २ ) ए॒नं॒ दे॒वता॑भिः॒ सम॑र्धय॒त्यथो॒ रक्ष॑सा॒-
मप॑हत्यै॒ वने॑षु व्य॑न्तरि॑क्षं तता॒नेत्या॑ह॒ वने॑षु॒ हि
व्य॑न्तरि॑क्षं त॒तान॒ वाज॒मर्व॒त्स्वित्या॑ह॒ वाजँ॒ ह्यर्व॑त्सु॒
पयो॑ अघ्नि॒यास्वित्या॑ह॒ पयो॒ ह्य॑घ्नि॒यासु॑ हृ॒त्सु क्रतु॒-
मित्या॑ह हृ॒त्सु हि क्रतुं॒ वरु॑णो वि॒क्ष्व॑ग्निमित्या॑ह॒-
[[2399]]
[प्रपा॰ १ अनु॰ ११] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( क्रीतसोमस्य शकटेन नयनाभिधानम् )
वरु॑णो॒ हि वि॒क्ष्व॑ग्निं दि॒वि सूर्य॑म् ( ३ ) इत्या॑ह
दि॒वि हि सूर्यँ॒ सोम॒मद्रा॒वित्या॑ह॒ ग्रावा॑णो॒ वा
अद्र॑य॒स्तेषु॒ वा॑ ए॒ष सोम॑ दधाति॒ यो यज॑ते॒ तस्मा-
दे॒वमा॒होदु॒त्यं जा॒वे॑दसा॒मिति॑ सौ॒र्यर्चा कृ॑ष्णाजि॒नं
प्रत्यान॑ह्यति॒ रक्ष॑सा॒मप॑हत्या॒ उस्रा॒वेतं॑ धूर्षाहा॒-
वित्या॑ह यथाय॒जुरे॒वैतत्प्र च्य॑वस्य भुवस्पत॒ इत्या॑ह
भू॒तानाँ॒ हि ( ४ ) ए॒ष परि॒र्विश्वा॑न्य॒भि धामा॒-
नीत्या॑ह॒ विश्वा॑नि॒ ह्ये॑ १॒ षो॑ऽभि धामा॑नि प्र॒च्यव॑ते॒
मा त्वा॑ परिप॒री वि॑द॒दित्या॑ह॒ यदे॒वादः सोम॑मा-
ह्रि॒यमा॑णं गन्ध॒र्वो वि॒श्वाव॑सुः प॒र्यमु॑ष्णा॒त्तस्मा॑दे॒-
वमा॒हाप॑रिमोषाय॒ यज॑मानस्य स्व॒स्त्यय॑न्य॒सीत्या॑ह॒
यज॑मानस्यै॒वैष य॒ज्ञस्या॑न्वार॒म्भोऽन॑वच्छित्त्यै॒ वरु॑-
णो॒ वा एष यजमानम॒भ्यौति॒ यत् ( ५) क्री॒तः सोम॒
उप॑नध्दो॒ नमो॑ मि॒त्रस्य वरु॑णस्य॒ चक्ष॑स॒ इत्या॑ह॒
शान्त्या॒ आ सोमं॒ वह॑न्त्य॒भिना॒ प्रति॑ तिष्ठते॒ तौ
सं॒भब॑न्तौ॒ यज॑मानम॒भि संभ॑वतिः प॒रा खलु वावैष
मेधा॑याऽऽत्मान॑मा॒रभ्य॑ चरति॒ यो दी॑क्षि॒तो यद॑-
ग्नीषो॒मीयं॑ प॒शुमा॒लभ॑त आत्मनि॒ष्क्रय॑ण ए॒वास्य॒ स
तस्मा॒त्तस्य॒ नाऽऽश्यं पुरुषनि॒ष्क्रय॑ण इव॒ ह्यथो॒
खल्वा॑हुर॒ग्नीषोमा॑भ्यां॒ वा इन्द्रो॑ वृ॒त्रम॑हन्निति॒
यद॑ग्नीषो॒मीयं॑ प॒शुमालभ॑ते॒ वार्त्र॑घ्न ए॒वास्य॒ स
तस्मा॑द्व॒श्यं॑ वारु॒ण्यर्चा परि॑ चरयति॒ स्वयै॒वैनं॑
दे॒वत॑या॒ परि॑ चरति ( ६ ) ।।
[[2400]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [ ६ षष्ठकाण्डे—-
( आतिथ्येष्ठ्यभिधानम् )
( अ॒न्वा॒रभ्योत्सर्वा॑भिरे॒व सूर्य॑ भू॒तानाँ॒
ह्येति॒ यदा॑हुः स॒प्तविँ॑शतिश्च ) ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके प्रथमप्रपाठके
एकादशोऽनुवाकः ।। ११।।
प्रा॒चीन॑वँशं याव॑न्त ऋक्सा॒मे वै वाग्वै दे॒वेभ्यो॑ दे॒वा वै दे॑व॒यज॑नं क॒द्रूश्च॒
तध्दर॑ण्यँ॒ षट्ष॒दानि॑ ब्रह्मवा॒दिनो॑ वि॒चित्यो॒ यत्क॒लया॑ ते वारु॒णो वै क्री॒तः
सोम॒ एका॑दश ।। ११।।
प्रा॒चीन॑वँशँ॒ स्वाहेत्या॑ह॒ ये॑ऽन्तः श॒रा ह्ये॑ष सं॒तप॑सा
च॒ यत्क॑र्णगृही॒तेति॑ लोम॒तो वा॑रुणः
षट्स॑प्तति ।। ३६।।
हरिः॑ ॐ
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके प्रथमः
प्रपाठक ।। १।।