( अथ षष्ठाष्टके प्रथमप्रपाके दशमोऽनुवाकः )।
यत्क॒लया॑ ते श॒फेन॑ ते क्रीणा॒नीति॒ पणे॒तागो॑-
अर्घँ॒ सोमं॑ कु॒र्यादगो॑अर्घम॒ यज॑मान॒मगो॑अघमध्व॒र्युं
गोस्तु म॑हि॒मान॒ नाव॑ तिरे॒द्गवा॑ ते क्रीणा॒नीत्ये॒व
ब्रू॑याद्गोअर्घमे॒व सोमं॑ क॒रोति गोअ॒र्घं यजा॑मानं
गोअ॒र्घंम॑ध्व॒र्युं न गोर्म॑हि॒मान॒मव॑ तिरत्य॒जया॑
क्रीणाति॒ सत॑पसमे॒वैनं॑ क्रीणाति॒ हिर॑ण्येन क्रीणाति॒
सशु॑क्रमे॒व ( १ ) ए॒नं॒ क्री॒णा॒ति॒ धे॒न्वा क्री॑णाति॒ सा-
शि॑र॒मेवैनं॑ क्री॒णात्यृ॒षभेण क्रीणाति॒ सेन्द्र॑मेवैनं॑
[[2397]]
[प्रपा॰ १ अनु॰ १०] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( अन्यैः सोमक्रयाभिधानम्)
क्रीणात्यन॒डुहा॑ क्रीणाति॒ वह्नि॒र्वा अ॑न॒ड्वान्वह्नि॑नै॒व
वह्नि॑ यज्ञस्य॑ क्रीणाति मिथु॒नाभ्यां॑ क्रीणाति मिथु॒-
नस्याव॑रुध्द्यै॒ वास॑सा क्रीणाति सर्वदेव॒त्यां वै वासः॒
सर्वाभ्य ए॒वैनं॑ दे॒वता॑भ्यः क्रीणाति॒ दश॒ सं प॑द्यन्ते-
दशा॑क्षरा वि॒राडन्नं॑ वि॒राड्रवि॒राजै॒वान्नाद्य॒मव॑ रुन्धे
( २ ) तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॒ इत्या॑ह प॒शुभ्य॑
ए॒व तद॑ध्वर्युर्नि ह्नु॑त आ॒त्मनोऽना॑व्रस्काय॒ गच्छ॑-
ति॒ श्चियं॒ प्र प॒शूना॑प्नोति॒ य ए॒वं वेद॑ शु॒र्क्र॑ ते॑ शु-
क्रेण॑ क्रीणा॒मीत्या॑ह यथाय॒जुरे॒वैतद्दे॒वा वै येन॒ हि-
र॑ण्येन॒ सोम॒मक्री॑ण॒न्तद॑भी॒षहा॒ पुन॒राऽद॑दत॒ को हि
तेज॑सा विंत्रेष्यत इति॒ येन॒ हिरण्येन ( ३) सोमं॑
क्रीणी॒यात्तद॑भी॒षहा॒ पुन॒रा द॑दीत॒ तेज॑ ए॒वाऽऽत्म-
न्ध॑त्तेऽस्मे ज्योतिः॑ सोमविक्र॒यिणि॒ तम॒ इत्या॑ह॒
ज्योति॑रे॒व यज॑माने दधाति॒ तम॑सा सोमविक्र॒यि-
ण॑मर्पयति॒ यदनु॑पग्रथ्य ह॒न्याद्द॑न्द॒शूका॒स्ताँ
समाँ॑ स॒र्पाः स्यु॑रि॒दम॒हँ स॒र्पाणां॑ दन्द॒शूका॑नां
ग्री॒वा उप॑ ग्रथ्ना॒मीत्या॒हाद॑न्द॒शूका॒स्ताँ समँ॑
स॒पा भ॑वन्ति॒ तम॑सा सोमविक्र॒यिणं॑ विध्यति॒ स्वान॑
(४) भ्राजेत्या॑है॒ते वा अ॒मुष्मि॑लोँ॒के सोम॑मरक्ष॒न्ते-
भ्योऽधि॒ सोम॒माऽह॑र॒न्यदे॒तेभ्यः॑ सोम॒क्रय॑णान्ननु॑-
दि॒शेदक्री॑तोऽस्य॒ सोमः॑ स्या॒न्नास्यै॒ते॑ऽमुष्मि॑ल्लोँ॒के
सोमँ॑ रक्षेयु॒र्यदे॒तेभ्यः॑ सोम॒क्रय॑णाननुदि॒शति॑
[[2398]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [ ६ षष्ठकाण्डे—
क्रीतसोमस्य शकटेन नयनाभिधानम् ))
क्री॒तो॑ऽस्य॒ सोमो॑ भवत्ये॒ते॑ऽस्या॒मुष्मि॑ल्लोँ॒के सोमँ॑
रक्षिन्ति (५) ।
( सशु॑क्रमे॒व रु॑न्घ॒ इति॒ येन॒ हिर॑ण्येन॒ स्वान॒
चतु॑श्वत्वरिँ शच्च ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके प्रथमप्रपाठके
दशमोऽनुवाकः ।। १०।।