०९

( अथ षष्ठाष्टके प्रथमप्रपाके नवमोऽनुवाकः )।


ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वि॒चित्यः॒ सोमा ३ न
वि॒चित्या ३ इति॒ सोमो॒ वा ओष॑धीनाँ॒ राजा॒
तस्मा॒न्यदाप॑न्नं ग्रसि॒तं नि॑ष्खि॒दति॑ तद्यद्वि॑चिनु॒याद्य-
था॒ऽऽस्या॑द्ग्रसि॒तं नि॑ष्खि॒दति॑ ता॒द्दगे॒व तद्यन्न वि॑चि-
नु॒याद्यथा॒ऽक्षन्नाप॑न्नं वि॒धाव॑ति ता॒द्दगे॒व तत्क्षोधु॑-
कोऽध्व॒र्युः स्या॒त्क्षोधु॑को॒ यज॑मानः॒ सोम॑विक्रयि॒-
न्त्सो॑मँ शोध॒येत्ये॒व ब्रू॑या॒द्यदीत॑रम् (१) यदी-
त॑र॒म॒भये॑नै॒व सोमविक्र॒यिण॑मर्पयति॒ तस्मा॑त्सोम-
विक्रयी क्षोधु॑कोऽरु॒णो ह॑ स्माऽऽहौप॑वेशिः सोम॒-

[[2395]]

प्रपा॰ १ अनु॰ ९] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( सोमोन्मानाभिधानम्)
क्रय॑ण ए॒वाहं तृ॑तीयसव॒नमव॑ रुन्ध॒ इति॑ पशू॒नां
चर्म॑न्मिमीते प॒शूने॒वाव॑ रुन्धे प॒शवो॒ हि तृ॒तीयँ॒
सव॑नं॒ यं का॒मये॑ताप॒शुः स्या॒दित्यृ॑क्षतस्तस्य॑ मिती-
त॒र्क्षं वा अ॑पश॒व्यम॑प॒शुरेव भ॑वति॒ यं का॒मये॑त
पशु॒मान्त्स्या॑त् (२) इति॑ लोम॒तस्तस्य॑ मिमीतै॒-
तद्वै प॑शूनाँ रू॒पँ रूपेणै॒वास्मै॑ प॒शूनव॑ रुन्धे
पशु॒माने॒व भ॑वत्य॒पामन्ते॑ क्रीणाति॒ सर॑समे॒वैनं॑
क्रीणात्य॒मात्यो॒ऽसीत्या॑हा॒मैवैनं कुरुते शु॒क्रस्ते॒ ग्रह॒
इत्याह॑ शु॒क्रो ह्य॑स्य॒ ग्रहो न॒ साऽच्छ॑ याति महि॒-
मान॑मेवा॒स्याच्छ॑ या॒त्यन॑सा (३) अच्छ॑याति॒
तस्मा॑दनोवा॒ह्यँ॑ स॒मे जीव॑नं॒ यत्र॒ खलु॒ वा ए॒तँ
शी॒र्ष्णा हर॑न्ति॒ तस्मा॑च्छोर्षहा॒र्य॑ गि॒रौ जीव॑नम॒भि
त्यं दे॒वँस॑वि॒तार॒मित्यति॑च्छन्दस॒र्चा मि॑मी॒तेऽति॑-
च्छन्दा वै सर्वा॑णि॒ छन्दाँ॑सि॒ सर्वेभिरे॒वैनं॒ छन्दो॑-
भिर्मिमीते॒ वर्ष्म॒ वा ए॒ष छन्द॑सां॒ यदति॑च्छन्दा॒
यदति॑च्छन्दस॒र्चा मि॑मीते॒ वर्ष्मै॒वैनँ॑ समा॒नानां॑
करो॒त्येक॑यैकयो॒त्सर्ग॑म् (४) मि॒मी॒तेऽया॑तयाम्नि-
यायातयाम्नियै॒वैनं॑ मिमीते॒ तस्मा॒न्नाना॑वीर्या अ॒ङगु-
ल॑यः॒ सर्वा॑स्वङ्गु॒ष्ठमुप॒ नि गृ॑ह्णाति॒ तस्मा॑त्स॒मा-
ब॑द्वार्यो॒न्याभि॑र॒ङ्गुलि॑भि॒स्तस्मा॒त्सर्वा॒ अनु॒ सं च॑रति॒
यत्सह॒ सर्वा॑भि॒र्मिमी॑त॒ सँश्लि॑ष्ट अ॒ङ्गुल॑यो
जायेर॒न्नेक॑यैकयो॒त्सर्गं॑ मिमीते॒ तस्मा॒द्विभ॑क्ता जायन्ते॒
पञ्च॒ कृत्वो॒ यजु॑षा मिमीते॒ पञ्चाक्षरा पङ्क्तिः
पाङक्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुप्धे॒ पञ्च॒ कृत्व॑स्तू॒ष्णीम्

[[2396]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [ ६ षष्ठकाण्ड—- ( अन्यैः सोमक्रयाभिधानम्)
( ५ ) दश॒ सं प॑द्यन्ते॒ दशा॑क्षरा वि॒राडन्नं॑ वि॒राड्-
वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे॒ यद्यजु॑षा मिमी॑ते भू॒तमे॒-
वाव॑ रुन्धे॒ यत्तूष्णीं भ॑वि॒ष्यद्यद्वै तावा॑ने॒व सोमः॒
स्याद्याव॑न्तं॒ मिमी॑ते॒ यज॑मानस्यै॒व स्या॒न्नापि॑ सदः॒
स्या॑नां प्र॒जाभ्य॒स्त्वेत्युप॒ समू॑हति सद॒स्या॑ने॒वान्वा-
भ॑जति॒ वास॒सोप॑ नह्यति सर्वदेव॒त्यं॑ वै ( ६ ) वासः॒
सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिः॒ सम॑र्धयति प॒शवो॒ वै सोमः॑
प्रा॒णाय॒ त्वेत्युप॑ नह्यति प्रा॒णमे॒व प॒शुषु॑ दधाति
व्या॒नाय॒ त्वेत्यनु॑ शृ॒न्थति व्या॒नमे॒व प॒शुषु॑ दधाति
व्या॒नाय॒ त्वेत्यनु॑ शृन्थति व्या॒नमे॒व पशुषु॑ दधाति॒
तस्मा॑त्स्व॒पन्तं॑ प्रा॒णा न ज॑हति ( ७ ) ।।
( इत॑रं पशु॒मान्त्स्या॑द्या॒त्यन॑सो॒त्सर्गं॑ तू॒ष्णीँ
स॑र्वदे॒व॒त्यं॑ वै त्रय॑स्त्रिँशच्च । )

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके प्रथमप्रपाठके
नवमोऽनुवाकः ।। ९।।