०८

( अथ षष्ठाष्टके प्रथमप्रपाठकेऽष्टमोऽनुवाकः )।
षट्प॒दान्यनु॒निष्क्रा॑मति षड॒हं वाङ्नाति॑ वद-
त्यु॒त सं॑वत्स॒रस्याय॑ने॒ याव॑त्ये॒व वाक्तामव॑ रुन्धे स-
प्त॒मे प॒दे जु॑होति स॒प्तप॑दा॒ शक्व॑री प॒शवः॒ शक्व॑री
प॒शूने॒वाव॑ रुन्धे स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्ताऽऽर॒ण्याः
स॒प्त छन्दाँ॑स्यु॒भय॒स्याव॑रुध्दयै॒ वस्व्य॑सि रु॒द्राऽसी-
त्या॑ह रू॒पमे॒वास्या॑ ए॒तन्म॑हि॒मान॑म् (१) व्याच॑ष्टे॒
बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुन्धे रु॒द्रो वसु॑भि॒रा
चि॑के॒त्वित्या॒हाऽऽवृ॑त्त्यै पृथि॒व्यास्त्वा॑ मूर्धन्नाजि॑घर्मि
देव॒यज॑न॒ इत्या॑ह पृथि॒व्या ह्ये॑ष मूर्धा यद्दे॑व॒यज॑न॒मि-
डा॑याः प॒द इत्या॑हेडा॑यै॒ ह्ये॑तत्प॒दं यत्सो॑मक्रय॑ण्यै घृ॒त-
व॑ति॒ स्वाहा॑(२)इत्या॑ह॒ यदे॒वास्यै॑ प॒दाद्घृतमपी॑डयत॒
तस्मा॑दे॒वमा॑ह॒ यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिं जुहु॒याद॒न्धो॑ऽ-
घ्व॒र्युः स्या॒द्रक्षाँ॑सि य॒ज्ञँ ह॑न्युर्हिर॑ण्यमु॒पास्य॑ जुहो-
त्यग्नि॒वत्ये॒व जु॑होति॒ नान्घो॑ऽध्व॒र्युर्भव॑ति॒ न य॒ज्ञँ
रक्षाँ॑सि घ्नन्ति नान्धो॑ऽध्व॒र्युर्भव॑ति॒ न य॒ज्ञँ
रक्षाँ॑सि जिघाँसन्ति॒ परि॑लिखितँ॒ रक्षः॒ परि॑लि-
खिता॒ अरा॑तय॒ इत्याह॒ रक्ष॑सा॒मपहत्यै (३)इ॒दम॒हँ
रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो॑ऽस्मान्द्वेष्टि॒ यं च॑
व॒यं द्वि॒ष्भा इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यं चै॒व द्वेष्टि॒ य-
श्वै॑नं॒ द्वेष्टि॒ तयो॑रे॒वान॑न्तरायं ग्री॒वाः कृ॑न्तति प॒शवो॒
वै सोम॑क्रयण्यै प॒दं या॑वत्त्मूतँ सं वपति प॒शूने॒वाव॑
रुन्धे॒स्मे राय॒ इति॒ सं व॑पत्या॒त्मान॑मे॒वाध्व॒र्युः (४)
१00

[[2394]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [ ६ षष्ठकाण्डे —
( सोमोन्मानाभिधानम्)
प॒शुभ्यो॒ नान्तरे॑ति॒ त्वे राय॒ इति॒ यज॑मानाय॒ प्र य॑-
च्छति॒ यज॑मान ए॒ल र॒यिं द॑धाति॒ तोते॒ राय॒ इति॒
पत्नि॑या अ॒र्धो वा ए॒ष आ॒त्मनो॒ यत्पत्नी॒ यथा॑ गृ॒हेषु॑
निध॒त्ते ता॒द्दगे॒व तत्त्वष्टी॑मती ते सपे॒येत्या॑ह॒ त्वष्टा॒ वै
प॑शूनां मि॑थु॒नानाँ॑ रूप॒कृद्रूपमे॒व पशुषु॑ दधात्य॒-
स्मै वै लो॒काय॒ गार्ह॑पत्य॒ आ धी॑यतेऽमुष्मा॑ आह-
व॒नीयो॒ यद्गार्ह॑पत्य उप॒वपे॑द॒स्मिलोँ॒के प॑शु॒मान्त्स्या॒-
द्यदा॑हव॒नीये॒ऽमुष्मि॑ल्लोँ॒के प॑शु॒मान्त्स्या॑दु॒भयो॒रूप॑
वपत्यु॒भयो॑रे॒वैनं॑ लो॒कयोः॑ पशु॒मन्तं॑ करोति (५) ।।
( महिमानँ स्वाहाऽप॑हत्या अध्व॒र्युर्धीय॑ते॒
चतु॑र्विँशतिश्व )।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके प्रथमप्रपाठके-
ऽषमोऽनुवाकः ।। ८।।