०७

( अथ षष्ठाष्ठके प्रथमप्रपाठके सप्तमोऽनुवाकः।)
तध्दिर॑ण्यमभव॒त्तस्मा॑द॒द्भयो हिर॑ण्यं पुनन्ति ब्रह्म-
वा॒दिनो॑ वदन्ति॒ कस्मा॑त्स॒त्याद॑न॒स्थिके॑न प्र॒जाः

[[2391]]

[प्रपा॰ १ अनु॰ ७] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( अरुणया सोमक्रयाभिधानम्)
प्र॒वीय॑न्तेऽस्थ॒न्वती॑र्जायन्त॒ इति॒ यध्दिर॑ण्यं घृते॑ऽव॒-
धाय॑ जु॒होति॒ तस्मा॑दन॒स्थिके॑न प्र॒जाः प्र वी॑यन्तेऽ-
स्थ॒न्वती॑र्जायन्त ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒ यद्घृ॒तं
तेजो॒ हिर॑ण्यमि॒यं ते॑ शुक्र त॒नूरि॒दं वर्च॒ इत्या॑ह॒
सते॑जसमे॒वैनँ॒ सत॑नुं (१) क॒रो॒त्यथो॒ सं भ॑र-
त्ये॒वैनं॒ यदब॑ध्दमवद॒ध्याद्गर्भाः॑ प्र॒जानां॑ परा॒पातु॑काः
स्युर्ब॒ध्दमव दधाति॒ गर्भा॑णां॒ धृत्यै॑ निष्ट॒र्क्य॑ बध्नाति
प्र॒जानां॑ प्र॒जन॑नाय॒ वाग्वा ए॒षा यत्सोंम॒क्रय॑णी॒
जूर॒सीत्या॑ह॒ यध्दि मन॑सा॒ जव॑ते॒ तद्वा॒चा वद॑ति
धृता मन॒सेत्या॑ह॒ मन॑सा॒ हि वाग्धृ॒ता जुष्टा॒
विष्ण॑व इत्या॑ह (२) य॒ज्ञो वै विष्णु॑र्य॒ज्ञायै॒वैनां॒
जुष्टां॑ करोति॒ तस्या॑स्ते स॒त्यस॑वसः प्रस॒व इत्या॑ह
सवि॒तृप्र॑सूतामे॒व वाच॒मव॑ रुन्धे॒ काण्डे॑काण्डे॒ वै
क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जाघाँसन्त्ये॒ष खलु॒
वा अर॑क्षोहतः॒ पन्था॒ यो॑ऽग्नेश्व॒ सूर्य॑स्य च॒ सूर्य॑स्य॒
चक्षु॒राऽरु॑हम॒ग्नेर॒क्ष्णः क॒नीनि॑का॒मित्या॑ङ॒ य ए॒वा-
र॑क्षोहतः॒ पन्था॒स्तँ स॒मारो॑हति (३) वाग्वा
ए॒षा यत्सो॑म॒क्रय॑णी॒ चिद॑सि म॒नाऽसीत्या॑ह॒
शास्त्ये॒वैना॑मे॒तत्तस्मा॑च्छिष्टाः प्र॒जा जा॑यन्ते॒ चिद॒-
सीत्या॑ह॒ यध्दि मन॑सा चे॒तय॑ते॒ तद्वा॒चा वद॑ति
म॒नाऽसीत्या॑ह॒ यध्दि मन॑सा॒ ध्याय॑ति॒ तत्क॒रोति॒
धीर॒सीत्या॑ह॒ यध्दि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा
(४) वद॑ति॒ दक्षि॑णा॒ऽसीत्या॑ह॒ दक्षि॑णा॒ ह्ये॑षा
य॒ज्ञिया॒ऽसीत्या॑ह य॒ज्ञिया॑मे॒वैनां॑ तकोरि॒ क्ष॒त्रि-

[[2392]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [ ६ षष्ठकाण्डे—
( अरुणया सोमक्रयप्रकाराभिधानम्)

या॒ऽसीत्या॑ह क्ष॒त्रिया॒ ह्ये॑षाऽदि॑तिरस्युभ॒यतः॑ शी॒र्ष्णी
त्या॑ह॒ यदे॒वाऽऽदित्यः प्रा॑य॒णीयो॑ य॒ज्ञाना॑मादि॒त्य
उ॑दय॒नीय॒स्यस्मा॑दे॒वामा॑ह॒ यदब॑ध्दा॒ स्यादय॑ता
स्या॒द्यत्प॑दिब॒ध्दाऽनुस्तर॑णी स्यात्प्र॒मायु॑को॒ यज॑-
मानः स्यात् (५) यत्क॑र्णगृही॒ता वार्त्र॑घ्नी स्या॒त्स
वाऽन्यं जि॑नी॒त्तं वा॒ऽन्यो जि॑नीयान्मि॒त्रस्त्वा॑
प॒दि ब॑ध्ना॒त्वित्या॑ह मि॒त्रो वै शि॒वो दे॒वानां॒ तेनै॒-
वेनां॑ प॒दि ब॑ध्नाति पू॒षाऽध्व॑नः पा॒त्वित्या॑हे॒यं वै
पू॒षेमामे॒वास्या॑ अधि॒पाम॑कः सम॑ष्ट्या॒ इन्द्रा॒याध्य॑-
क्षा॒येत्या॒हेन्द्र॑मे॒वास्या॒ अध्य॑क्षं करोति (६)
अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒तेत्या॒नुमतयै॒वै-
न॑या क्रीणाति सा दे॑वि देवमच्छे॒हीत्या॑ह दे॒वी
ह्ये॑षा दे॒वः सोम॒ इन्द्रा॑य॒ सोम॒मित्या॒हेन्द्रा॑य॒ हि
सोम॑ आह्रि॒यते॒ यदे॒तद्यजु॒र्न ब्रू॒यात्परा॑च्ये॒व सो॑-
म॒क्रय॑णीयाद्रुद्रस्त्वाऽऽ व॑र्तय॒त्वित्या॑ह रु॒द्रो वै
क्रूरः (७) दे॒वानां॒ तमे॒वास्यै॑ प॒रस्ता॑द्दधा॒त्यावृ॑त्त्यै
क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यद्र॒दस्यं की॒र्तयति
मि॒त्रस्य॑ प॒थेत्या॑ह॒ शान्त्यै॑ वा॒चा वा ए॒ष वि
क्री॑णीते॒ यः सो॑म॒क्रय॑ण्या स्व॒स्ति सोम॑सखा॒ पुन॒-
रेहि॑ स॒ह र॒य्येत्या॑ह वा॒चैव वि॒क्रीय॒ पुन॑रा॒त्मन्वाचं॑
ध॒त्तेऽनु॑पदासुकाऽस्य॒ वाग्भ॑वति॒ य ए॒वं वेद॑ (८)
( सत॑नुं॒ विष्ण॑व॒ इत्या॑ह स॒मारो॑हति॒ ध्याय॑ति॒ तद्वा॒चा
यज॑मानः स्यात्करोति क्रू॒रो वेद॑ )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके प्रथमप्रपाठके सप्तमोऽनुवाकः।। ७।।

[[2393]]

[प्रपा॰ १ अनु॰ ८] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( पदसंग्रहणाभिधानम् )